वाक्यपदीयम्
/ 25
←

Vakyapadiyam Tamil PDF & Online Reader (வாக்யபதீ³யம்)

Vakyapadiyam (वाक्यपदीयम्) by भर्तृहरिः — Tamil Text & PDF Download

📜 Last Proofread: 22 Sep 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 22 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
॥ वाक्यपदीयम् ॥ ॥ भर्तृहरिविरचितम् ॥ ॥ प्रथमः खण्डः (ब्रह्मकाण्डम्) ॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ १.१ ॥ एकमेव यदाम्नातं भिन्नं शक्तिव्यपाश्रयात् । अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ १.२ ॥ अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः । जन्मादयो विकाराः षड्भावभेदस्य योनयः ॥ १.३ ॥ एकस्य सर्वबीजस्य यस्य चेयमनेकधा । भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ १.४ ॥ प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः । एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक्पृथक् ॥ १.५ ॥ भेदानां बहुमार्गत्वं कर्मण्येकत्र चाङ्गता । शब्दानां यतशक्तित्वं तस्य शाखासु दृश्यते ॥ १.६ ॥ स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः । तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ १.७ ॥ तस्यार्थवादरूपाणि निश्चित्य स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधा मताः ॥ १.८ ॥ सत्या विसुद्धिस्तत्रोक्ता विद्यैवेकपदागमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ १.९ ॥ विधातुस्तस्य लोकानामङ्गोपाङ्गनिबन्धनाः । विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥ १.१० ॥ आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः ॥ १.११ ॥ प्राप्तरूपविभागाया यो वाचः परमो रसः । यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमान्जससः ॥ १.१२ ॥ अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणादृते ॥ १.१३ ॥ तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविद्यं प्रकासते ॥ १.१४ ॥ यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः । तथैव लोके विद्यानामेसा विद्या परायनम् ॥ १.१५ ॥ इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ॥ १.१६ ॥ अत्रातीतविपर्यासः केवलामनुपस्यति । छन्दस्यस्छन्दसां योनिमात्मा छन्दोमयीं तनुम् ॥ १.१७ ॥ प्रत्यस्थमितभेदाया यद्वाचो रूपमुत्तमम् । यदस्मिन्नेव तमसि ज्योतिः सुद्धं विवर्तते ॥ १.१८ ॥ वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् । व्यतीत्यालोकतमसी प्रकाशं यमुपासते ॥ १.१९ ॥ यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ १.२० ॥ अथर्वणामङ्गिरसां सांनामृग्यजुषस्य च । यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥ १.२१ ॥ यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते । तद्व्याकरणमागम्य परं ब्रह्माधिगम्यते ॥ १.२२ ॥ नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥ १.२३ ॥ अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः । अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः ॥ १.२४ ॥ कार्यकारणभावेन योग्यभावेन च स्थिताः । धर्मे ये प्रत्यये चाङ्गं सम्बन्धाः साध्वसाधुषु ॥ १.२५ ॥ ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः । स्मृत्यर्थमनुगम्यन्ते के चिदेव यथागमम् ॥ १.२६ ॥ शिष्टेभ्य आगमात्सिद्धाः साधवो धर्मसाधनम् । अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः ॥ १.२७ ॥ नित्यत्वे कृतकत्वे वा तेषामादिर्न विद्यते । प्राणिनामिव सा चैषा व्यवस्थानित्यतोच्यते ॥ १.२८ ॥ नानर्थिकामिमां कश्चिद्व्यवस्थां कर्तुमर्हति । तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १.२९ ॥ न चागमादृते धर्मस्तर्केण व्यवतिष्ठते । ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ॥ १.३० ॥ धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः । न तांल्लोकप्रसिद्धत्वात्कश्चित्तर्केण बाधते ॥ १.३१ ॥ अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥ १.३२ ॥ निर्ज्ञातशक्तेर्द्रव्यस्य तां तानर्थक्रियां प्रति । विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते ॥ १.३३ ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १.३४ ॥ परेषामसमाख्येयमभ्यासादेव जायते । मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ १.३५ ॥ प्रत्यक्षमनुमानं च व्यतिक्रम्य व्यवस्थिताः । पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥ १.३६ ॥ आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ १.३७ ॥ अतीन्द्रियानसंवेद्यान्पश्यन्त्यार्षेण चक्षुषा । ये भावान्वचनं तेषां नानुमानेन बाधते ॥ १.३८ ॥ यो यस्य स्वमिव ज्ञानं दर्शनं नातिशङ्कते । स्थितं प्रत्यक्षपक्षे तं कथमन्यो निवर्तयेत् ॥ १.३९ ॥ इदं पुण्यमिदं पापमित्येतस्मिन्पदद्वये । आचण्डालमनुष्याणामल्पं शास्त्रप्रयोजनम् ॥ १.४० ॥ चैतन्यमिव यश्चायमविच्छेदेन वर्तते । आगमस्तमुपासीनो हेतुवादैर्न बाध्यते ॥ १.४१ ॥ हस्तस्पर्शादिवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ १.४२ ॥ तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् । आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १.४३ ॥ द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः । एको निमित्तं शब्दानामपरोऽर्थे प्रयुज्यते ॥ १.४४ ॥ अविभक्तो विभक्तेभ्यो जायतेऽर्थस्य वाचकः । शब्दस्तत्रार्थरूपात्मा सम्बन्धमुपगच्छति ॥ १.४५ ॥ आत्मभेदं तयोः के चिदस्तीत्याहुः पुराणगाः । बुद्धिभेदादभिन्नस्य भेदमेके प्रचक्षते ॥ १.४६ ॥ अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् । तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ १.४७ ॥ वितर्कितः पुरा बुद्ध्या क्व चिदर्थे निवेशितः । करणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ॥ १.४८ ॥ नादस्य क्रमजातत्वान्न पूर्वो न परश्च सः । अक्रमः क्रमरूपेण भेदवानिव जायते ॥ १.४९ ॥ प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् । तत्प्रवृत्तिमिवान्वेति स धर्मः स्फोटनादयोः ॥ १.५० ॥ आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते । अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ १.५१ ॥ आण्डभावमिवापन्नो यः क्रतुः शब्दसञ्ज्ञकः । वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रमम् ॥ १.५२ ॥ यथैकबुद्धिविषया मूर्तिराक्रियते पटे । मूर्त्यन्तरस्य त्रितयमेवं शब्देऽपि दृश्यते ॥ १.५३ ॥ यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते । व्यवसायो ग्रहीतॄणामेवं तेष्वेव जायते ॥ १.५४ ॥ अर्थोपसर्जनीभूतानभिधेयेषु केषु चित् । चरितार्थान्परार्थत्वान्न लोकः प्रतिपद्यते ॥ १.५५ ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ १.५६ ॥ विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते । न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ॥ १.५७ ॥ अतोऽनिर्ज्ञातरूपत्वात्किमाहेत्यभिधीयते । नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृह्यते तथा ॥ १.५८ ॥ भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ । भेदकारेषु हेतुत्वमविरोधेन गच्छतः ॥ १.५९ ॥ वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः । आदैच्प्रत्यायितैः शब्दैः सम्बन्धं यान्ति सञ्ज्ञिभिः ॥ १.६० ॥ अग्निशब्दस्तथैवायमग्निशब्दनिबन्धनः । अग्निश्रुत्यैति सम्बन्धमग्निशब्दाभिधेयया ॥ १.६१ ॥ यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् । अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते ॥ १.६२ ॥ उच्चरन्परतन्त्रत्वाद्गुणः कार्यैर्न युज्यते । तस्मात्तदर्थैः कार्याणां सम्बन्धः परिकल्प्यते ॥ १.६३ ॥ सामान्यमाश्रितं यद्यदुपमानोपमेययोः । तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते ॥ १.६४ ॥ गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते । तस्याश्रिताद्गुणादेव प्रकृष्टत्वं प्रतीयते ॥ १.६५ ॥ तस्याभिधेयभावेन यः शब्दः समवस्थितः । तसाप्युच्चारणे रूपमन्यत्तस्माद्विविच्यते ॥ १.६६ ॥ प्राक्सम्ज्ञिनाभिसम्बन्धात्सञ्ज्ञा रूपपदार्थिका । षष्ट्याश्च प्रथमायाश्च निमित्तत्वाय कल्पते ॥ १.६७ ॥ तत्रार्थवत्त्वात्प्रथमा सञ्ज्ञाशब्दाद्विधीयते । अस्येते व्यतिरेकश्च तदर्थादेव जायते ॥ १.६८ ॥ स्वं रूपमिति कैश्चित्तु व्यक्तिः सञ्ज्ञोपदिश्यते । जातेः कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते ॥ १.६९ ॥ सञ्ज्ञिनीं व्यक्तिमिच्छन्ति सूत्रे ग्राह्यामथापरे । जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥ १.७० ॥ कार्यत्वे नित्यतायां वा के चिदेकत्ववादिनः । कार्यत्वे नित्यतायां वा के चिन्नानात्ववादिनः ॥ १.७१ ॥ पदभेदेऽपि वर्णानामेकत्वं न निवर्तते । वाक्येषु पदमेकं च भिन्नेष्वप्युपलभ्यते ॥ १.७२ ॥ न वर्णव्यतिरेकेण पदमन्यच्च विद्यते । वाक्यं वर्णपदाभ्यां च प्रविभागो न कश्चन ॥ १.७३ ॥ पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविभागो न कश्चन ॥ १.७४ ॥ भिन्नदर्शनमाश्रित्य व्यवहारोऽनुगम्यते । तत्र यन्मुख्यमेकेषां तत्रान्येषां विपर्ययः ॥ १.७५ ॥ स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः । ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ १.७६ ॥ स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥ १.७७ ॥ शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥ १.७८ ॥ शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदं तु वैकृतः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥ १.७९ ॥ इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा । क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् ॥ १.८० ॥ इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः । विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥ १.८१ ॥ चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि । विषयेन्द्रिययोरिष्टा संस्कारः स क्रमो ध्वनेः ॥ १.८२ ॥ स्फोटरूपाविभागेन ध्वनेर्ग्रहणमिष्यते । कैश्चित्ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः ॥ १.८३ ॥ यथानुवाकः श्लोको वा सोढत्वमुपगच्छते । आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ १.८४ ॥ प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा । ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ १.८५ ॥ नादैराहितबीजायामन्त्येन ध्वनिना सह ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 22 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine