उपाधिखण्डनम्
(श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्)
नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।
अशेषदोषरहितः प्रीयतां कमलालयः ॥ 1 ॥
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन ।
उपाधिभेदाद्धटत इति चेत् स स्वभावतः ॥ 2 ॥
अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् ।
अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ॥ 3 ॥
चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः ।
विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥ 4 ॥
उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः ।
ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥ 5 ॥
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ।
एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥ 6 ॥
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः ।
दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥ 7 ॥
नानादेहगभोगानुसन्धानं योगिनो यथा ।
न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥ 8 ॥
अनुसन्धानरहितदेहबाहुल्यमन्यथा ।
सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥ 9 ॥
सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता ।
तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥ 10 ॥
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः ।
प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥ 11 ॥
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते ।
अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥ 12 ॥
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ।
सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥ 13 ॥
सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः ।
‘सत्यः सो अस्य महिमे’(ऋ.सं.८.३.४)त्यादिवाक्यान्मृषा न च ॥ 14 ॥
न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न ।
अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥ 15 ॥
अतो नाज्ञातमिति च विषयो विषयान्तरे ।
अज्ञाभावात् फलं कस्य योगः शशनृशृङ्गयोः ॥ 16 ॥
दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः ।
अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥ 17 ॥
अतो ‘परो मात्रये’(ऋ.सं.७.९९)ति पूर्वश्रुतिनिदर्शितः ।
‘अन्यमीश’(श्वे.उ.४.७)मिति श्रुत्या भिन्नजीवदृशं गतः ॥ भिन्नत्वेनात्मसादृश्यदो ‘यदे’(आथ.उ.३.१.३)ति श्रुतेः सदा ॥ 18 ॥
मायावादतमोव्याप्तमिति तत्त्वदृशा जगत् ।
भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥ 19 ॥
नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।
इन्दिरापतये नित्याऽनन्दभोजनदायिने ॥ 20 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् उपाधिखण्डनं समाप्तम् ॥