तत्त्वविवेकः
/ 2
←

Tattvaviveka Kannada PDF & Online Reader (ತತ್ತ್ವವಿವೇಕಃ)

Tattvaviveka (तत्त्वविवेकः) by Madhvacharya (मध्वाचार्यः) — Kannada Text & PDF Download

📜 Last Proofread: 20 Sep 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 20 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
तत्त्वविवेकः (मूलं — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) (तत्वविवेकविवरणम् — श्रीजयतीर्थः)
📖 1.1 ▼
स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम् । स्वतन्त्रो भगवान् विष्णुः निर्दोषाखलिसद्गुणः ॥ 1 ॥
📖 2.1 ▼
तत्वविवेकविवरणम् मङ्गलाचरणम् प्रणम्य रमणं लक्ष्म्याः पूर्णबोधान्गुरूनपि । व्याख्यां तत्वविवेकस्य करिष्यामो यथामति ॥ 1 ॥ ननु परमपुरुषादितत्वानां विवेकः शास्त्र एव कृतः । तत्किमनेन प्रकरणेन । विक्षिप्तसङ्ग्रहार्थमिति चेन्न ॥ सङ्ग्रहस्यापि तत्वसङ्ख्याने कृतत्वात् । सत्यम् । तथापि तत्वसङ्ख्यानोक्तार्थे साक्षित्वेन भगवत्प्रणीततत्वविवेकगतवाक्यान्येवाचार्यैरुदाहृतानीत्यदोषः । तत्रादौ तावत्सामान्येन तत्वस्य विभागोद्देशं करोति । स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम् । तत्र प्रमेयमित्यनुवादेनैव तत्वसामान्यलक्षणं चोक्तम् । अनारोपितं हि तत्वम् । यदि नाम कूर्मरोमादिकमनारोपितं किं तावता तत्वं स्यादित्यतः प्रतीतौ सत्यामिति वाच्यम् । तच्च प्रमेयमिति चैकोऽर्थः । तत्वसामान्यलक्षणपरीक्षा यथार्थज्ञानं प्रमा । तद्विषयः प्रमेयंम् । नन्वीश्वरज्ञानं तावत्प्रमा । तत्र शुक्तिरजतादिकं तद्विषयो न वा । न चेत्तस्यासार्वज्ञ्यप्रसङ्गः । तद्विषयत्वे तदपि तत्वं स्यादिति । मैवम् । परमार्थाशेषार्थज्ञत्वमेव सार्वज्ञ्यमित्यङ्गीकारात् । तथाप्यस्मदादीनां शुक्तिरजतादिविभ्रममीश्वरो वेत्ति न वा । वेत्तीति ब्रूमः । विषयविशेषितज्ञानस्यावगमे विषयस्यापि प्रमेयत्वं स्यादिति चेन्न । यत् प्रमया अस्तीति विधीयते तत् प्रमेयमित्यङ्गीकारात् । न चेश्वरादिप्रमा शुक्तिरजतादिविधिरूपा । किं तु भ्रान्तोऽयं शुक्तिकाशकलं कलधौततया कल्पयतीत्यनुवादरूपैव । ननु भ्रमेऽपि इदमिति ज्ञानं तावत्प्रमा । किं तावताऽपि न हि तद्विषयः शुक्तिकायां रजतत्वं येन तत् प्रमेयं स्यात् । ननु इदं रजतमित्येकमेव ज्ञानम् । सत्यम् । अत एव विशिष्टोल्लेखीदमप्रमैवेति उल्लिखितं विशिष्टमतत्वमेवेति । तत्प्रमेयं द्विविधम् ॥ स्वतन्त्रं परतन्त्रं चेतीतिशब्दोऽध्याहार्यः । स्वतन्त्रतत्वअस्वतन्त्रतत्वलक्षणम् यत् स्वसत्तादौ स्वाधीनं न तु परापेक्षं तत् स्वतन्त्रम् ॥ यत् पुनस्तत्र परायत्तं तत् परतन्त्रम् इति सञ्ज्ञानिरुक्तिरेवानयोर्लक्षणम् ॥ मतं प्रमितमित्युक्तार्थे प्रमाणसद्भावसूचनेन प्रकारान्तरं निरस्तं भवति । तथा हि । यदि प्रमेयमेव न स्यात् तदा प्रत्यक्षादिविरोधः । तस्य च भ्रान्तित्वे बाधकं वाच्यम् । न च भ्रान्तिबाधावधिष्ठानावधिविधुरौ विद्येते इति तदेव प्रमेयमस्तु । ननु केशोण्ड्रकादिभ्रमो निरधिष्ठान इति चेन्न । तस्यापि तेजोधिष्ठानत्वाभ्युपगमात् । नास्त्येव प्रमेयमिति ज्ञानस्य प्रमात्वाप्रमात्वयोर्व्याहतिश्च । एके तु एकमेव तत्वमिति मन्यते । तदसत् । प्रत्यक्षादिविरोधात् । भ्रान्तिरियमिति चेन्न । इयमेव प्रतीतिः प्रमा न वा । आद्ये तद्विषयेण तत्बान्तरेण भाव्यम् । द्वितीये प्रत्यक्षादेः प्रमात्वेनोक्त एव दोषः । सर्वस्य स्वतन्त्रत्वे नित्यसुखादिप्रसङ्गः । अस्वातन्त्र्ये न कस्यापि प्रवृत्तिः । अन्धपङ्गुवत्स्यादिति चेन्न । प्रत्यासत्तेरेवानुपपत्तेः । अपरे तु भावाभावतया चेतनाचेतनत्वेन वा नित्यानित्यतया वा नामरूपभेदेन वा द्वे तत्वे ब्रुवते । अन्ये तु नामरूपकर्मभेदेन त्रयम् । केचिद्द्रव्यगुणकर्मसामान्यात्मना चत्वारि । एके समवायेन सहोक्तानि पञ्च । अपरे रूपविज्ञानवेदनासञ्ज्ञासंस्कारान् पञ्चेत्यादि । तत्सर्वमनुपपन्नम् । अत्र केषाञ्चित्स्वरूपेणैवाभावात् । परमप्रमेयस्यच अवान्तरत्वापत्त्या परिगणनस्य वैयर्थ्यप्रसङ्गाच्चेति । स्वतन्त्रतत्वनिरूपणम् किं तत्स्वतन्त्रप्रमेयमित्यत आह स्वतन्त्रो भगवान् विष्णुर्निर्दोषाखिलसद्गुणः ॥ 1 ॥ भगवान् इति पूजार्थम् । निर्दोष इति स्वातन्त्र्योपपादनाय । यस्य तु द्वयमप्यसिद्धं तं प्रत्यागमो दर्शनीयः । अनेन स्वतन्त्रपरतन्त्रभेदमङ्गीकृत्यापि स्वातन्त्र्यं शिवशक्त्यादीनामङ्गीकुर्वाणा निरस्ता भवन्ति । विष्णोरन्यत्परतन्त्रमिति वाक्यशेषः । द्विविधमित्युक्त्या स्वतन्त्रपरतन्त्रप्रमेययोरवान्तरभेदोऽस्तीति सूचितम् । अन्यथा द्वे प्रमेये इत्येव ब्रूयात् ॥ तत्र स्वतन्त्रप्रमेयमेकमेवेत्युक्तम् ।
📖 1.1 ▼
द्विविधं परतन्त्रं च भावोऽभाव इतीरितः । पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ॥ 2 ॥
📖 2.1 ▼
तत्वविवेकविवरणम् परतन्त्रस्य भेदमाह द्विविधं परतन्त्रञ्च भावोऽभाव इतीरितः । भाव इतीरित एका विधा । अभाव इतीरितश्चापरा । एवं परतन्त्रं च द्विविधमिति योज्यम् ॥ ईरित ग्रहणाद्ये भावभावविभागं नेच्छन्ति तेषामागमविरोध उक्तो भवति । किं च भावानभ्युपगमे अभाव एव न स्यात् । प्रतियोगिनोऽभावात् । अभावानभ्युपगतौ प्रतीतिविरोधः । विभागानभ्युपगमे तु प्रतीतिविरोध इति । अत्रापि भावाभावपदाभ्यामेव विधिनिषेधात्मकत्वं द्वयोर्लक्षणं सूचितं भवति ॥ पूर्ववद्विधाग्रहणेनावान्तरभेदश्च ॥ अभावविभागनिरूपणम् तत्र भावनिरूपणस्य बहुत्वात्पश्चादुद्दिष्टस्याप्यभावस्य प्रभेदमादावाह । पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ॥ 2 ॥ पूर्वत्वेनापरत्वेन सदात्वेन व्यावर्तकेन त्रिविध इत्यनेनैषां लक्षणान्यप्युक्तानि । योऽभावो वस्तूत्पत्तेः प्रागेवास्ति स पूर्वाभावः । यस्तु वस्तुप्रध्वंसात्परत एवास्ति सोऽपराभावः । यस्तु सदाऽस्ति स सदाभाव इति । अभावपरीक्षानिरूपणम् ननु यदपेक्षया पूर्वमपरं चेत्युच्यते स एव प्रागभावप्रध्वंसाभावयोः प्रतियोगी । अत्यन्ताभावस्य तु कः प्रतियोगीति । मैवम् । तथा सति प्रागभावप्रध्वंसाभावयोः प्रतियोगिनियमो न स्यात् ॥ तस्माद्यस्यासौ स एव प्रतियोगीति वाच्यम् । शशविषाणादीनां चाभावोऽत्यन्ताभाव इति स एव प्रतियोगी । अप्रामाणिकस्य कथं प्रतियोगित्वमिति चेत् किमिह तस्य सत्तया कृत्यमस्ति । न हि प्रतियोगित्वं रूपादिवद्धर्मिसत्तासापेक्षम् । प्रतीतिमात्रं तूपयुक्तम् । तदसतोऽप्यस्तीति । इष्यते प्रामाणिकैरिति शेषः ॥ एतेन ये सर्वोप्ययं संसर्गाभाव एव एवेति मन्यन्ते तन्मतमपास्तं भवति । यथा न च कार्यकारणयोः संसर्गस्तथा वक्ष्यते । अत्यन्तासत्प्रतियोगिकस्य तथात्वानुपपत्तेरिति ।
📖 1.1 ▼
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् । चेतनाचेतनश्चेति भावश्च द्विविधः स्मृतः ॥ 3 ॥
📖 2.1 ▼
तत्वविवेकविवरणम् अन्योन्याभावस्य धर्मिस्वरूपत्वनिरूपणम् तथापि नाभावस्त्रिविधः अन्योन्याभावस्य चतुर्थस्य विद्यमानत्वादित्यत आह । भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् । तादात्म्यप्रतियोगिकोऽभावोऽन्योन्याभावः । भेद इति यावत् । स च यदधिकरणस्तत्स्वरूपमेव ॥ न तु प्रागभावादिवत्पृथक्प्रमेयमिति नाभावत्रित्वभङ्गः ॥ धर्मिस्वरूपत्वादिति वक्तव्ये यद्भावाभावस्वरूपत्वादित्युक्तं तत्प्रपञ्चनार्थम् । अथ वा यद्यन्योन्याभावो न घटादिभ्यः पृथक् तर्हि तेषामभावत्वं स्यात् । स्यादेवैतत् । सर्वभावानां स्वेन रूपेण भावत्वं रूपान्तरेणाभावत्वमिति भावाभावस्वरूपत्वादित्युक्तम् । नन्वन्योन्याभाव इति वक्तव्ये किं भावप्रत्ययेन । मैवम् । नायं भावशब्दो भावसाधनः किं तु कर्तृसाधनः । भावश्चात्र प्रकृत इति तल्प्रत्ययोपपत्तिः । भावविभागनिरूपणम् भावं विभज्य दर्शयति । चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृतः ॥ 3 ॥ चेतयतीति चेतनः । अनेवंविधोऽचेतनः । स्मृत इति सर्वं चैतन्यमेवेति मतमपवदति ।
📖 1.1 ▼
नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः । द्विधैव श्रीर्नित्यमुक्ता सृतियुक्च द्विधा मतः ॥ 4 ॥
📖 2.1 ▼
तत्वविवेकविवरणम् चेतनविभागनिरूपणम् चेतनविभागमाह नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः । द्विधैव.. नित्यमुक्त इति कदापि संसारसम्बन्धो यस्य नास्त्यसावुच्यते । कदाचित्संसारसम्बन्धवान्सृतियुक् । ननु नित्यमुक्तो विष्णुरेव स्वातन्त्र्यात् । अयं तु परतन्त्रविभागोऽभिधीयते । तत्कथं तदन्तर्गतोऽपि चेतनो नित्यमुक्त इति । अत उक्तं परतन्त्रोऽपीति । तथा प्रमाणादिति भावः । अथ वा नित्यमुक्तश्चेत्परतन्त्रो न स्यादित्यत इदमुक्तम् । एव कारेण संसारस्य मिथ्यात्वान्नित्यमुक्त एव चेतन इति मतमपाकरोति ॥ नित्यमुक्तपरतन्त्रचेतननिरूपणम् परतन्त्रोऽपि नित्यमुक्तः क इत्यत आह ॥ .... श्रीर्नित्यमुक्ता । अन्ये तु सृतियुज इति प्रसिद्धमेव ॥ सृतियुक्चेतनविभागनिरूपणम् तत्प्रभेदमाह । सृतियुक् च द्विधा मतः ॥ 4 ॥ मुक्तोऽमुक्त इति....
📖 1.1 ▼
मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता उत्तरोत्तरम् । मुक्ताः शतगुणाः प्रोक्ताः रमा तेभ्योऽखिलैर्गुणैः ॥ 5 ॥
📖 2.1 ▼
तत्वविवेकविवरणम् मुक्तविभागः मुक्तेष्वपि प्रभेदमाह । ....ह्यत्र ब्रह्मान्ता उत्तरोत्तरम् । मुक्ताः शतगुणाः प्रोक्ताः ....॥ अत्र मुक्तामुक्तयोर्मध्ये । हि शब्देन युवा स्यादित्यादिश्रुतिप्रसिद्धिं सूचयति । रमाया ब्रह्मादिमुक्तसाम्याभावनिरूपणम् ...रमा तेभ्योऽखिलैर्गुणैः ॥ 5 ॥ नित्यं बहुगुणोद्रिक्ता ...। बहुगुणेति गुणशब्दो गणनार्थः ।
📖 1.1 ▼
नित्यं बहुगुणोद्रिक्ता ततोऽनन्तगुणो हरिः । अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः ॥ 6 ॥
📖 2.1 ▼
तत्वविवेकविवरणम् स्वातन्त्र्यं मुक्तिरिति केषाञ्चिन्मतम् । अतो मुक्तेभ्यो विष्णोर्न व्यावृत्तिरित्यत आह ....ततोऽनन्तगुणो हरिः । स्वरूपाविर्भाव एव मुक्तिरिति भावः । अमुक्तविभगनिरूपणम् अमुक्तानां विभागमाह अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः ॥ 6 ॥ तत्र मुक्तामुक्तयोः ।
📖 1.1 ▼
मुक्तियोग्यास्तत्र चोच्चा नित्यावर्तास्तु मध्यमाः । नीचा नित्यतमोयोग्या द्विधैवाचेतनं मतम् ॥ 7 ॥
📖 2.1 ▼
तत्वविवेकविवरणम् तान् विविच्य दर्शयति ॥ मुक्तियोग्यास्तत्र चोच्चा नित्यावर्तास्तु मध्यमाः । नीचा नित्यतमोयोग्याः ....॥ तु शब्दोऽवधारणे । तेन यः साधनमनुतिष्ठति स सर्वोऽपि मुच्यत इति मतमपाकृतं भवति । दुःखसंस्था मुक्तियोग्या इत्यादिविभागोऽप्यनेन सङ्गृहीतो भवति । यतः स्वरूपाविर्भावमात्रं मुक्तिर्नागन्तुको लाभोऽतो मुक्तानां भेदवत्त्वे मुक्तियोग्या अपि भेदवन्त इति स्फुटमेवेति नोक्तम् । नित्यतमोयोग्या अपि द्वेधा । प्राप्ततमसः सृतिसंस्थाश्चेति । ते च प्रत्येकं दैत्यादिभेदेन चतुर्धा इत्यपि द्रष्टव्यम् ॥ अचेतनविभागनिरूपणम् एवं चेतनविभागमभिधायाचेतनविभागमाह । ..द्विधैवाचेतनं मतम् ॥ 7 ॥ नित्यानित्यत्वभेदेन.............। एव कारेण सर्वनित्यत्वं सर्वानित्यत्वं च व्यावर्तयति । सर्वनित्यत्वे कारकवैयर्थ्यम् । अभिव्यक्त्यर्थमिति चेत् । तदाऽभिव्यक्तेरप्यसत्या एवोत्पत्तिः । न चेदुक्तवैयर्थ्यानिस्तारः । व्यक्तेरपि व्यक्त्यङ्गीकृतावनवस्था । सर्वानित्यत्वे चोपादानाद्यभावेन सृष्ट्यनुपपत्तिः । क्षणभङ्गस्तु प्रत्यभिज्ञादिना परास्त इति । नित्यत्वानित्यत्वाभ्यां भेदो नित्यानित्यत्वभेदः । नित्यानित्यत्वं नाम विधान्तरं तत्वसङ्ख्याने कथितम् ॥ तत्कथं द्विविधमेवाचेतनमुच्यत इति । नैष दोषः । पुराणादि येनांशेन नित्यं तमशं नित्यवर्गे निधाय येनांशेनानित्यं तमंशमनित्यवर्गे निधायायं विभाग इत्यङ्गीकारात् । तर्हि नित्यानित्यं क्वास्तीति चेन्न । अंशांश्यादेरत्यन्तभेदाभावेन तृतीयराशिसम्भवात् । अत्र तु बुद्ध्यैव विवेक इत्यविरोधः । अत एव संसृष्टासंसृष्टविभागोऽत्र नोक्तः । सूक्ष्मभागस्य नित्येषूपचयभागस्यानित्येष्वन्तर्भावादिति ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 20 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine