तत्त्वसङ्ख्यानम्
/ 2
←

Tattvasankhyanam Telugu PDF & Online Reader (తత్త్వసఙ్ఖ్యానమ్)

Tattvasankhyanam (तत्त्वसङ्ख्यानम्) by Madhvacharya (मध्वाचार्यः) — Telugu Text & PDF Download

📜 Last Proofread: 25 Sep 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 25 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
तत्त्वसङ्ख्यानम् (मूलं — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) (तत्वसङ्ख्यानविवरणम् — श्रीजयतीर्थः)
📖 1.1 ▼
स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥ 1 ॥
📖 2.1 ▼
मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेन अवश्यमवगन्तव्यः इति सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः । इदं च अवान्तरभेदभिन्नस्य जगतो विज्ञानमपेक्षते, इति जगदपि तथाऽवगन्तव्यम् । तदिदं प्रधानाङ्गभूतं, शास्त्रे विक्षिप्य प्रतिपादितम्, शिष्यहिततया सङ्गृह्य प्रतिपादयितुं प्रकरणमिदमारभते भगवानाचार्यः । ननु प्रकरणादौ किमपि मङ्गलं कस्मान्नानुष्ठितम्? न तावत्तदफलमेव, प्रेक्षावद्भिरनुष्ठितत्वात् । नापि प्रारिप्सितपरिसमाप्त्यादिव्यतिरिक्तफलम् । नियमेन प्रारम्भे तदनुष्ठानात् । उच्यते अनुष्ठितमेव भगवता मङ्गलम्, मानसादेरपि तस्य सम्भवात् । तच्च परमास्तिकत्वादनुमीयते ॥ यच्चायं स्वातन्त्र्यादिविशिष्टस्य विष्णोः आदितः एव सङ्कीर्तनं करोति । किं ततोऽन्यन्मङ्गलं नाम ? अन्यपरमपि तत् भक्त्या अनुष्ठितं स्वभावात् सम्पादयत्येव अखिलमङ्गलानीति ॥ इति ॥ तत्र तावत् तत्त्वं सामान्यतो विभागेन उद्दिशति स्वतन्त्रमिति । स्वतन्त्रतत्वस्य प्राधान्यात् तदेवादौ उद्दिष्टम् । उद्देशेनैव लक्षणं लब्धम् । अत एवादौ तन्निर्दिशति स्वतन्त्रेति । द्विविध मित्युक्त्या ‘परतन्त्रतत्त्वमवान्तरभेदवदिति सूचितम् । तत्कथम् ? तत्र आह भावेति । स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः... ......भावाभावौ द्विधेतरत् ॥ १ ॥ लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि । करिष्ये तत्त्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ॥ १ ॥ तत्वम् अनारोपितिम् । प्रमितिविषयः इति यावत् । तेन ‘तस्य भावः तत्वम् इत्यादिखण्डनानवकाशः । ननु शुक्तरजतादिकं कथं न तत्त्वम् ? न हि धर्मी वा रजतत्त्वं वा न प्रमेयम्, नापि तयोः सम्बन्धः । शुक्तिव्यक्तौ रजतत्त्वस्य स नास्ति इति चेत्, मा भूत् । न हि गृहे देवदत्तो नास्ति इत्येतावता न प्रमेय इति । स्यादिदम् आरोपितस्य अन्यत्र सत्तामभ्युपगच्छतां दूषणम् । अत्यन्तासदेव रजतं दोषवशात् शुक्तिकायाम् आरोप्यत इति वादे तु नायं दोषः । एतेन ‘भाविपाकरागः कुम्भः श्यामतादशायां रक्तपित्तिना रक्ततया उपलभ्यमानः तत्त्वं स्यात् इत्यपि परास्तम् । भाविनः प्रमेयत्वेऽपि पूर्वस्य तथाभावाभावात्, धर्मिणः तथाभावाङ्गीकारादिति । तत् द्विविधम् । स्वतन्त्रमस्वतन्त्रञ्च इति इतिशब्दाध्याहारेण योज्यम् । अन्यथा स्वतन्त्रम् अस्वतन्त्रं च तत्त्वं प्रत्येकं द्विविधम् इति प्रतीतिः स्यात् । स्वरूपप्रमितिप्रवृत्तिलक्षणसत्तात्रैविध्ये परानपेक्षं स्वतन्त्रम् । परापेक्षमस्वतन्त्रम् । तदुपपादनायोक्तम् इष्यत इति । प्रामाणिकैः इति शेषः । तथाहि यदि तत्त्वमेव नास्तीति ब्रूयात् तदा प्रत्यक्षादिविरोधः । भ्रान्तिः सा इति चेत् न, बाधकाभावात् । न च निरधिष्ठाना भ्रान्तिरस्ति, नापि निरवधिको बाधः । नास्त्येव तत्त्वम् इत्यस्यार्थस्य प्रमितित्वाप्रमितत्त्वयोर्व्याघातश्च । यदि च एकमेव तत्त्वं तदा भेदोपलम्भविरोधः । तद्भ्रान्तितायाञ्च बाधकं वाच्यम् । तच्च अन्यत्र निरस्तम् । यदि वा सर्वमेव स्वतन्त्रं स्यात् तदा पारतन्त्र्यादिप्रतीतिविरोधः । नित्यसुखादिप्रसङ्गश्च । यदि वा परतन्त्रमेव तत्त्वं भवेत् तदा अनवस्थितेः असम्भवाच्च न कस्यापि सत्तादिकं स्यात् । आगमविरोधश्च । यद्यपि भावाभावतया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वा अस्य द्वैविध्यं शक्यते वक्तुम् । तथापि अस्य वैय्यर्थ्यात् अयमेव विभागो न्याय्यः । परतन्त्रप्रमेयं स्वतन्त्रप्रमेयायत्ततया विदितं हि निःश्रेयसाय भवति । तथा च प्रकरणान्ते वक्ष्यति । अन्यथा गङ्गावालुकापरिगणनवदिदं तत्त्वमपार्थकं स्यात् । अतः स्वतन्त्रास्वतन्त्रभेदात् द्विविधं तत्त्वम् । अत्र भगवानिति विष्णोः स्वातन्त्र्योपपादकम् ॥ अन्यत् अस्वतन्त्रम् इति शेषः । अथवा, द्वे तत्वे इत्युक्ते स्वतन्त्रमिव परतन्त्रम् एका व्यक्तिरेव प्रसज्येत । तथा च प्रमाणविरोधो वक्ष्यमाणविभागविरोधश्च । अतः द्विविधमित्युक्तम् । ततश्च स्वतन्त्रमप्यनेकविधं स्यादित्यत इदमुक्तम् । अथवा स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यमङ्गीकुर्वाणाः साङ्ख्यादयः प्रधानादिकं स्वतन्त्रतत्वमातिष्ठन्ते । तन्निरासायेदमुदितमिति । इतरत् स्वतन्त्रात् अस्वतन्त्रतत्वं द्विधा । कथम् । भावः अभावः च इति । अभावप्रतीतिः भावप्रतीत्यधीना नियमेन, इति प्राधान्यात् प्रथमं भावस्य उद्देशः । प्रथमप्रतीतौ ‘अस्तिऽ इति उपलभ्यते यः सः भावः । यश्च प्रथमोपाब्धौ ‘नास्तिऽ इति प्रतीयते सः अभावः । कुत एतत् ? स्वरूपेण हि भावाभावौ विधिनिषेधात्मानौ, रूपान्तरेण तु निषेधविधिरूपौ । तत्र आपातजायां संविदि स्वरूपमेव भासते, द्वितीयादिप्रतीतौ रूपान्तरम्, कार्यगम्यत्वात् सामग्रीभेदस्य । तथाच प्रतीतिः— अस्त्यत्र घटः स न शुक्ल इति । एवं नास्ति घटः अस्ति घटाभाव इति ॥ ननु स्वतन्त्रतत्वं भावोऽभावोऽन्यद्वा, नाद्यद्वितीयौ । भावाभावयोः परतन्त्रप्रभेदत्वात्, न तृतीयः व्याघातात् । मैवम् । भावलक्षणाऽऽक्रान्तत्वात् । ‘‘परतन्त्रं भावाभावतया द्विधा एव, न पुनरेकविधम्, नापि त्रिविधम् ’ इत्येवं परो विभागः, न पुनः ‘परतन्त्रमेव भावाभावात्मकमिति । यथा भावेषु स्वतन्त्रतत्वं प्रविशति तथा विभागः क्रियताम् इति चेत्, नैवं शङ्क्यम् । तद्धि प्रधानतया सर्वविविक्तमेव वेदितव्यम् । अन्यथा ‘‘द्विविधं तत्वं भावोऽभावश्च, भावोऽपि द्विविधः नित्योऽनित्यश्च, नित्योऽपि द्विविधः चेतनोऽचेतनश्च, चेतनोऽपि द्विविधः स्वतन्त्रोऽस्वतन्त्रश्च’ इति कर्तव्यम् । एवं सति न प्राधान्येन प्रतिपत्तिः स्यात्, भगवद्व्यतिरिक्तस्य सर्वस्यापि अस्वातन्त्र्यप्रतीतिः न स्यात् । ‘अस्मिन्पक्षे स्वतन्त्रस्य भावत्वं न विदितं स्यात्, इति सममेवऽ इति चेत् न, पुरुषार्थोपयोगानुपयोगाभ्यां विशेषात् । अभावादीनां नित्यत्वाद्यनुक्तिश्च समैव । तस्मात् यथान्यासमेवास्तु । अथ अस्वतन्त्रं चेतनत्वादिना एव विभज्यताम् । किं चेतनत्वादिना विभज्य भावाभावतया विभागः कर्तव्य उताऽयं न कर्तव्यः एव । नाद्यः । विशेषाभावात् । अभावस्य अचेतनत्वमेवं सति न उक्तं स्यात् इति चेत्, तथा सति चेतनस्य भावत्वमप्युक्तं स्यादिति समम् । तर्हि केन विशेषेणास्य प्राधान्यम् ? इति चेत्, वादिविप्रतिपत्तिभावाभावाभ्यां विशेषात् । अत एव न द्वितीयोऽपीति । ‘अभाव एव नास्तीति केचित् । तदसत्, ‘नास्तिऽ इति प्रतीतेः दुरपह्नवत्वात् । ‘‘ ‘घटो नास्ति इति प्रतीतिः भूतलमात्रविषया’ इति चेत्, ‘मात्रऽ इति किम् ? भूतलमेव उच्यते उत अतिरिक्तं किञ्चित् । आद्ये घटवत्यपि प्रसङ्गः । अतिरिक्तोऽपि घटः चेत्, उक्तो दोषः । भावानन्तरं चेत् रूपवति घटे ‘गन्धो नास्तीऽति प्रतीतिप्रसङ्गः । ननु घटाभावः घटाभाववति भूतले सम्बध्यते उत घटवति । नाद्यः । आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः । विरोधात् । अतो वक्तव्यं ‘भूतलमात्रेऽति । तदेवास्तु ‘नास्तीति प्रतीतिविषयऽ इति चेत् न । प्रश्न एव अयं विविच्यताम् । यदि अभावसम्बन्धात् प्राक् कीदृशं भूतलम् ? इति, यदि वा सम्बन्धसमये कीदृशं भूतलम् ? इति, यद्वा यदि अभावात् इदं विविच्येत तदा कादृशं नाम स्यात् इति । आद्ये ‘सघटम् इत्येव उत्तरम् । द्वितीये ‘घटाभाववत् इति । तृतीये यदि विवेको वस्तुकृतः तदा अभावस्य नष्टत्वात् । ‘घटवत् इति । यदि बुद्धिकृतः तदा ‘बुद्ध्या एव घटप्रसक्तिमत् इति । अन्यथा एवं भावप्रतिक्षेपोऽपि स्यात् । इति आस्तां विस्तरः । द्विधा इत्युक्त्या भावाभावतयोरवान्तरभेदोऽस्तीति सूचितम् ।
📖 1.1 ▼
प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ 2 ॥
📖 2.1 ▼
तत्र भावनिरूपणात् अभावनिरूपणस्य अल्पत्वात् सूचीकटाहन्यायेन पश्चादुद्दिष्टमप्यभावम् आदौ विभागेन उद्दिशति प्रागिति । भावं विभज्य दर्शयति चेतन इति । प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते । चेतनाचेतनत्वेन भावोऽपि द्विविधो मतः ॥ २ ॥ प्राक्त्वेन, प्रध्वंसत्वेन, सदात्वेन च उपलक्षितोऽभावः त्रिविध इष्यते । ‘प्रामाणिकैऽरिति शेषः । उत्तरैकावधिरभावः प्रागभागः । प्रतियोग्युत्पत्तेः प्रागेवास्ति, उत्पन्ने तु नास्ति इति कृत्वा ॥ पूर्वैकावधिरभावः प्रध्वंसाभावः । प्रतियोगिप्रध्वंसानन्तरमेव अभावः, न तु प्राक् अस्तीति ॥ न चैवम् । ‘‘प्रागभावप्रध्वंसः, प्रध्वंसप्रागभाव’ इति प्रवाहौ प्रसज्ज्येते । प्रतियोगिन एव प्रागभावप्रध्वंसत्वेन प्रध्वंसप्रागभावत्वेन च अङ्गीकृतत्वात् । तर्हि घटप्रध्वंसो नाम ‘प्रागभावनिवृतेर्निवृत्तिः इति प्रागभावोन्मज्जनप्रसङ्ग इति चेत् न । घटवत् तद्ध्वंसस्यापि तद्विरोधित्वात् ॥ निरवधिकोऽभावः सदाऽभावः । सदा अभावः अस्ति इति कृत्वा । अथ ‘अत्यन्ताभावः इति प्रसिद्धसञ्ज्ञाऽतिक्रमेण ‘सदाऽभावः इति सञ्ज्ञान्तरकरणं किमर्थम् । लक्षणस्यापि उद्देशेनैव सूचनार्थम् । यच्च अन्यैः अत्यन्ताभावस्वरूपम् उक्तम्— ‘संसर्गप्रतियोगिकाभावः अत्यन्ताभावः इति । यथा एतद्घटे एतद्भूतलसंसर्गाभाव’ इति तदपि निराकर्तुमेतत्, तस्य निरवधिकत्वाभावात् । तर्हि उदाहृतः चतुर्थः स्यात् इति चेत्, न । तस्यापि यथासम्भवं प्रागभावादिषु अन्तर्भावात् । एके ब्रुवते—‘संसर्गाभावः अन्योन्याभावश्चेति द्विविध एवाभाव इति । अन्ये तु ‘प्राक्प्रध्वंसात्यन्तान्योन्याभावात्मना चतुर्विधऽ इति । तदुभयं निराकर्तुं इष्यत इत्युक्तम् । अन्योन्याभावो हि भेद एव । ‘स च स्वरूपमेवऽ इति अन्यत्र उपपादितम् । कार्यकारणयोः संसर्गस्य अन्यत्र निराकृतत्वेन, प्रागभावप्रध्वंसाभावयोः संसर्गाभावत्वानुपपत्तेश्चेति । न केवलमभावोऽपि भेदवान्, किन्तु भावोऽपि इति अपि शब्दः । चेतयत इति चेतनः । अनेवंविध अचेतनः । तेन विष्णोः चेतनत्वम्, अभवस्य अचेतनत्वञ्च ज्ञातव्यम् ॥ सर्वमचेतनं चेतनार्थम् इति चेतनस्य प्राधान्यात् पूर्वमुद्देशः । ‘ मृदब्रवीत् इत्यादिवचनात् सर्वं चेतनमेवऽ इति मतनिरासाय मत इत्युक्तम् । तच्च अभिमान्यधिकरणे निरस्तम् ॥ चेतनादिविभागस्य नित्यादिविभागात् अभ्यर्हितत्वात् स एव आदौ उदाहृतः ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 25 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine