तर्कसङ्ग्रहदीपिका (अन्नम्भट्टविरचिता)
/ 7
←

Tarkasangrahadipika (annambhattaviracita) Kannada PDF & Online Reader (ತರ್ಕಸಙ್ಗ್ರಹದೀಪಿಕಾ (ಅನ್ನಮ್ಭಟ್ಟವಿರಚಿತಾ))

Tarkasangrahadipika (annambhattaviracita) (तर्कसङ्ग्रहदीपिका (अन्नम्भट्टविरचिता)) by Annambhatta (अन्नम्भट्टः) — Kannada Text & PDF Download

📜 Last Proofread: 28 Oct 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 28 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
📖 तर्कसङ्ग्रहः ▼
॥ निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥ १ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् । टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम् ॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकेष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबन्ध्नंश्चिकीर्षितं प्रतिजानीते, निधायेति । ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति । मङ्गले कृतेऽपि कादम्बर्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारादिति चेत् न, कादम्बर्यादौ विघ्नबाहुल्यात्समाप्त्यभावः । किरणावल्यादौ ग्रन्थाद्बहिरेव मङ्गलं कृतमतो न व्यभिचारः । ननु मङ्गलस्य ग्रन्थादौ कर्तव्यत्वे किं प्रमाणमिति चेत् न । शिष्टाचारानुमितश्रुतिरेव प्रमाणत्वात् । तथा हि मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शादिवत् । भोजनादौ व्यभिचारवारणाय अलौकिकेति । रात्रिश्राद्धादौ व्यभिचारवारणाय अविगीतेति । शिष्टपदं स्पष्टार्थम् । न कुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वात् । तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः, द्रव्यादिपदार्थास्तेषां सङ्ग्रहः सङ्क्षेपेण स्वरूपकथनं क्रियत इत्यर्थः । कस्मै प्रयोजनायेत्यत आह, सुखबोधायेति । सुखेनानायासेन यो बोधः पदार्थज्ञानं तस्मा इत्यर्थः । ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वोऽयं ग्रन्थः क्रियत इत्यत आह, बालानामिति । तेषामतिविस्तृतत्वाद्बालानां बोधो न जायत इत्यर्थः । ग्रहणधारणपटुर्बालः न तु स्तनन्धयः । किं कृत्वा क्रियत इत्यत आह, निधायेति । विश्वेशं जगन्नियन्तारं हृदि निधाय नितरां स्थापयित्वा सदा तद्ध्यानपरो भूत्वेत्यर्थः । गुरूणां विद्यागुरूणां, वन्दनं नमस्कारं, विधाय कृत्वेत्यर्थः ॥
📖 तर्कसङ्ग्रहः ▼
॥ द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्त पदार्थाः ॥ १ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
पदार्थान् विभजते द्रव्येति । पदस्यार्थः पदार्थः इति व्युत्पत्त्याभिधेयत्वं पदार्थसामान्यलक्षणं लभ्यते । ननु विभागादेव सप्तत्वे सिद्धे सप्तपदग्रहणं व्यर्थमिति चेत्, न अधिकसङ्ख्याव्यवच्छेदार्थकत्वात् । नन्वतिरिक्तः पदार्थः प्रमितो वा न वा । नाऽद्यः, प्रमितस्य निषेधायोगात् । न द्वितीयः, प्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेत्, न । पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात्सप्तग्रहणस्य । ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम् । सप्तभिन्नस्याप्रसिद्ध्या कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेत्, न । द्रव्यादिसप्तान्यतमत्वं नाम द्रव्यादिभेदसप्तकाभाववत्त्वम् । अतो दोषविरहात् । एवमग्रेऽपि द्रष्टव्यम् ।
📖 तर्कसङ्ग्रहः ▼
॥ तत्र द्रव्याणि, पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥ २ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
द्रव्याणि विभजते तत्रेति । तत्र द्रव्यादिमध्ये । द्रव्याणि नवैवेत्यन्वयः । कानि तानि इत्यत आह पृथिवीति । ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति । तथा हि, नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च तमसो द्रव्यत्वं तावत् सिद्धम् । तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः, रूपवत्त्वात् । अत एव न वायौ, स्पर्शाभावात् सदागतिमत्त्वाभावाच्च । नापि तेजसि, भास्वररूपाभावात् उष्णस्पर्शाभावाच्च । नापि जले, शीतस्पर्शाभावात् नीलरूपवत्त्वाच्च । नापि पृथिव्यां, गन्धाभावात् स्पर्शरहितत्वाच्च । तस्मात्तमसो दशमद्रव्यमिति चेत्, न । तमसस्तेजोऽभावरूपत्वात् । तथा हि, तमो न रूपिद्रव्यमालोकासहकृतचक्षुर्ग्राह्यत्वादालोकाभाववत् । रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात् । तस्मात् प्रौढप्रकाशकतेजस्सामान्याभावस्तमः, तत्र नीलं तमश्चलति इति प्रत्ययो भ्रमः । अतो नव द्रव्याणीति सिद्धम् । द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् । लक्ष्यैकदेशावृत्तित्वमव्याप्तिः । यथा गोः कपिलत्वम् । अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्रावृत्तित्वमसम्भवः । यथा गौरेकशफत्वम् । एतद्दूषणत्रयरहितधर्मो लक्षणम् । स एवासाधारणधर्मः इत्युच्यते । लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम् । व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिरतस्तद्वारणाय तद्भिन्नं धर्मविशेषणं देयम् । व्यवहारस्यापि लक्षणप्रयोजनत्वे तन्न देयम् । व्यावृत्तेरपि व्यवहारसाधनत्वात् । ननु गुणवत्त्वं न द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनष्टघटे चाव्याप्तेरिति चेत्, न । गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् । नन्वेवमपि एकं रूपं रसात्पृथक् इति व्यवहाराद्रूपादावतिव्याप्तिरिति चेत्, न । एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात् ॥
📖 तर्कसङ्ग्रहः ▼
॥ रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वाऽपरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः चतुर्विंशतिगुणाः ॥ ३ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
गुणान्विभजते रूपेति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः । गुणत्वजातिमान्वा । ननु लघुत्वकठिनत्वमृदुत्वादीनां विद्यमानत्वात् कथं चतुर्विंशतिगुणा इति चेत्, न । लघुत्वस्य गुरुत्वाभावरूपत्वान्मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषत्वात् ।
📖 तर्कसङ्ग्रहः ▼
॥ उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ ४ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
कर्म विभजते उत्क्षेपणेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म कर्मत्वजातिमद्वा । भ्रमणादीनामपि गमने अन्तर्भावान्न पञ्चत्वविरोधः ।
📖 तर्कसङ्ग्रहः ▼
॥ परमपरं चेति द्विविधं सामान्यम् ॥ ५ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
सामान्यं विभजते परमिति । परमधिकदेशवृत्ति । अपरं न्यूनदेशवृत्ति । सामान्यादिचतुष्टये जातिर्नास्ति ।
📖 तर्कसङ्ग्रहः ▼
॥ नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ६ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
विशेषं विभजते नित्येति । पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि ।
📖 तर्कसङ्ग्रहः ▼
॥ समवायस्त्वेक एव ॥ ७ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
समवायस्य भेदो नास्तीत्याह समवायस्त्विति ।
📖 तर्कसङ्ग्रहः ▼
॥ अभावश्चतुर्विधः- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावश्चेति ॥ ८ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
अभावं विभजते प्रागभावेति ।
📖 तर्कसङ्ग्रहः - द्रव्यलक्षणप्रकरणम् ▼
॥ तत्र गन्धवती पृथिवी । सा द्विविधा, नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् । तच्च नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥ १ ॥
📖 तर्कसङ्ग्रहदीपिका - द्रव्यलक्षणप्रकरणम् ▼
तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह तत्रेति । नाम्ना पदार्थसङ्कीर्तनमुद्देशः । उद्देशक्रमे च सर्वत्रेच्छैवं नियामिका । ननु सुरभ्यसुरभ्यवतवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः । न च तत्र गब्धप्रतीत्यनुपपत्तिरिति वाच्यम् । अवयवदन्धस्यैव तत्र प्रतीतिसम्भवेन चित्रगन्धानङ्गीकारात् किं चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् न । गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् । ननु जलादावपि गन्धप्रतीतिरिति चेत् न । अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् । ननु कालस्य सर्वाधारतया सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेत् न । सर्वाधारताप्रयोजकभिन्नसम्बन्धेन लक्षणत्वस्य विवक्षितत्वात् । पृथिवीं विभजते सा द्विविधेति । नित्यत्वं ध्वंसाप्रतियोगित्वम् । अनित्यत्वं ध्वंसप्रतियोगित्वम् । प्रकारान्तरेण विभजते पुनरिति । आत्मनो भोगायतनं शरीरम् । यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् । सुखदुःखसाक्षात्कारो भोगः । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् । शरीरेन्द्रियभिन्नो विषयः । एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषयः इति तत्तल्लक्षणं बोध्यम् । पार्थिवशरीरं दर्शयति शरीरमिति । इन्द्रियं दर्शयति इन्द्रियमिति । गन्धग्राहकमिति प्रयोजनम् । घ्राणमिति सञ्ज्ञा । नासाग्रेत्याश्रयोक्तिः । एवमुत्तरत्र ज्ञेयम् । पार्थिवविषयं दर्शयति मृत्पाषाणादीति ।
📖 तर्कसङ्ग्रहः ▼
॥ शीतस्पर्शवत्यः आपः । ता द्विविधाः, नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥ २ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
अपां लक्षणमाह शीतेति । उत्पन्नविनष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं विवक्षितम् । शीतं शिलातलम् इत्यादौ जलसम्बन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः । अन्यत्सर्वं पूर्वरीत्या व्याख्येयम् ।
📖 तर्कसङ्ग्रहः ▼
॥ उष्णस्पर्शवत् तेजः । तच्च द्विविधं, नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनः त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः, भौमदिव्यौदर्याकरजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ॥ ३ ॥
📖 तर्कसङ्ग्रहदीपिका ▼
तेजसो लक्षणमाह उष्णस्पर्शवदिति । उष्णं जलम् इति प्रतीतेस्तेजःसंयोगानुविधायित्वान्नातिव्याप्तिः । विषयं विभजते भौमेति । ननु "सुवर्णं पार्थिवं" पीतत्वाद्गुरुत्वात् हरिद्रावत् इति चेत् न । अत्यन्तानलसंयोगे सति घृतादौ द्र्वत्वनाशदर्शनेन, जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्सुवर्णस्य अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः । तस्योष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात् सुवर्णं तैजसमिति सिद्शम् ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 28 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine