तर्कसङ्ग्रहः
/ 2
←

Tarkasangraha Kannada PDF & Online Reader (ತರ್ಕಸಙ್ಗ್ರಹಃ)

Tarkasangraha (तर्कसङ्ग्रहः) by Annambhatta (अन्नम्भट्टः) — Kannada Text & PDF Download

📜 Last Proofread: 09 Aug 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 09 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
अन्नम्भट्टलिखित तर्कसङ्ग्रह निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥ द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः ॥ १ ॥ तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥ २ ॥ रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः चतुर्विंशतिर्गुणाः ॥ ३ ॥ उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ ४ ॥ परमपरं चेति द्विविधं सामान्यम् ॥ ५ ॥ नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ६ ॥ समवायस्त्वेक एव ॥ ७ ॥ अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्याभावश्चेति ॥ ८ ॥ तत्र गन्धवती पृथिवी । सा द्विविधा नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् । तच्च नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥ ९ ॥ शीतस्पर्शवत्यः आपः । ता द्विविधाः नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥ १० ॥ उष्णस्पर्शवत्तेजः । तच्च द्विविधं नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुः औदर्यम् । आकरजं सुवर्णादि ॥ ११ ॥ रूपरहितः स्पर्शवान्वायुः । स द्विविधः नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः ॥ १२ ॥ शरीरान्तःसञ्चारी वायुः प्राणः । स च एकोऽप्युपाधिभेदात्प्राणापानादिसञ्ज्ञां लभते ॥ १३ ॥ शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यञ्च ॥ १४ ॥ अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ॥ १५ ॥ प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ॥ १६ ॥ ज्ञानाधिकरणमात्मा । स द्विविधः परमात्मा जीवात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥ १७ ॥ सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥ १८ ॥ चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरितकपिशचिन्न भेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ॥ १९ ॥ रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ॥ २० ॥ घ्राणग्राह्यो गुणो गन्धः । स द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ॥ २१ ॥ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ॥ २२ ॥ रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्र अपाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ॥ २३ ॥ एकत्वादिव्यवहारहेतुः सङ्ख्या । सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्राऽनित्यमेव ॥ २४ ॥ मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्तिः । तच्चतुर्विधम् । अनु महद्दीर्घं हृस्वं चेति ॥ २५ ॥ पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्तिः ॥ २६ ॥ संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥ २७ ॥ संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥ २८ ॥ परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टय मनोवृत्तिनी । ते द्विविधे दिक्कृते कालकृते च । दूरस्ते दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ॥ २९ ॥ आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ॥ ३० ॥ आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजोवृत्ति । तद्द्विविधं सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्नि संयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥ ३१ ॥ चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ॥ ३२ ॥ श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिः । स द्विविधः ध्वन्यात्मकः वर्णात्मकश्च । तत्र ध्वन्यात्मकः भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥ ३३ ॥ सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्च । तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते इदं रजतमिति ज्ञानम् । सैव प्रमेत्युच्यते । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्ताविदंरजतमिति ज्ञानम् । सैव अप्रमेत्युच्यते ॥ ३४ ॥ यथार्थनुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दाभेदात् ॥ ३५ ॥ असाधारणं कारणं करणम् । कार्यनियतपूर्ववृत्ति कारणम् । कार्यं प्रागभावप्रतियोगि ॥ ३६ ॥ कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥ ३७ ॥ तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारणं ज्ञानं निर्विकल्पकं यथेदं किञ्चित् । सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति ॥ ३८ ॥ प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः । घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः । चक्षुः संयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः संनिकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे विशेषणविशेष्यभावः संनिकर्षः घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं संनिकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं तत्करणमिन्द्रियं तस्मातिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ३९ ॥ अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञानमनुमितिः । व्याप्तिविशिष्टपक्षधर्मताज्ञानम् । यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः । यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४० ॥ अनुमानं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं स्वानुमितिहेतुः तथाहि स्वायमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निरिति । तदनन्तरं वह्निव्याप्यधुमवानयं पर्वत इति ज्ञानमुत्पद्यते अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते । तदेतत्स्वार्थानुमानम् । यत्तु स्वयं धुमाग्निमनुमाय परम्प्रतिबोधयितुं पञ्चावयव वाक्यं प्रयुज्यते तत्परार्थानुमानम् । यथा पर्वतो वह्निमान्धूमत्वाद्यो यो धूमवान्स वह्निमान्यथा महानसः तथा चायं तस्मात्तथेति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते ॥ ४१ ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवान् स वह्निमान् यथा महानस इत्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् ॥ ४२ ॥ स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥ ४३ ॥ लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रिद इति व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवद्यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥ ४४ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 09 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine