तैत्तिरीयोपनिषत्
ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।
प्रथमा शीक्षावल्ली
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १॥ इति प्रथमोऽनुवाकः ॥
शिक्षाशास्त्रार्थसङ्ग्रहः
ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।
साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १॥
इति द्वितीयोऽनुवाकः ॥
संहितोपासनम्
सह नौ यशः । सह नौ ब्रह्मवर्चसम् ।
अथातः सꣳहिताया उपनिषदम् व्याख्यास्यामः ।
पञ्चस्वधिकरणेषु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।
ता महासꣳहिता इत्याचक्षते । अथाधिलोकम् ।
पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् ।
आकाशः सन्धिः ॥ १॥
वायुः सन्धानम् । इत्यधिलोकम् । अथाधिज्यौतिषम् ।
अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः ।
वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् ।
आचार्यः पूर्वरूपम् ॥ २॥
अन्तेवास्युत्तररूपम् । विद्या सन्धिः ।
प्रवचनꣳसन्धानम् ।
इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
पितोत्तररूपम् । प्रजा सन्धिः । प्रजननꣳसन्धानम् ।
इत्यधिप्रजम् ॥ ३॥
अथाध्यात्मम् । अधराहनुः पूर्वरूपम् ।
उत्तराहनूत्तररूपम् । वाक्सन्धिः । जिह्वासन्धानम् ।
इत्यध्यात्मम् । इतीमामहासꣳहिताः ।
य एवमेता महासꣳहिता व्याख्याता वे`द ।
सन्धीयते प्रजया पशुभिः ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ४॥
इति तृतीयोऽनुवाकः ॥
मेधादिसिद्ध्यर्था आवहन्तीहोममन्त्राः
यश्छन्दसामृषभो विश्वरूपः ।
छन्दोभ्योऽध्यमृतात्सम्बभूव ।
स मेन्द्रो मेधया स्पृणोतु ।
अमृतस्य देव धारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरिविश्रुवम् ।
ब्रह्मणः कोशोऽसि मेधया पिहितः ।
श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १॥
कुर्वाणाऽचीरमात्मनः । वासाꣳसि मम गावश्च ।
अन्नपाने च सर्वदा । ततो मे श्रियमावह ।
लोमशां पशुभिः सह स्वाहा ।
आमायन्तु ब्रह्मचारिणः स्वाहा ।
विमाऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
प्रमाऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
दमायन्तु ब्रह्मचारिणः स्वाहा ।
शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २॥
यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा ।
तं त्वा भग प्रविशानि स्वाहा ।
स मा भग प्रविश स्वाहा ।
तस्मिन् सहस्रशाखे । निभगाऽहं त्वयि मृजे स्वाहा ।
यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् ।
एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा ।
प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व ॥ ३॥
इति चतुर्थोऽनुवाकः ॥
व्याहृत्युपासनम्
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
तासामुहस्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।
मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ।
भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् ।
सुवरित्यसौ लोकः ॥ १॥
मह इत्यादित्यः । आदित्येन वाव सर्वेलोक महीयन्ते ।
भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।
मह इति चन्द्रमाः । चन्द्रमसा वाव
सर्वाणि ज्योतीꣳषि महीयन्ते । भूरिति वा ऋचः ।
भुव इति सामानि ।
सुवरिति यजूꣳषि ॥ २॥
मह इति ब्रह्म । ब्रह्मणा वाव सर्वेवेदा महीयन्ते ।
भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः ।
मह इत्यन्नम् । अन्नेन वाव सर्वे प्राण महीयन्ते ।
ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः ।
ता यो वेद ।
स वेद ब्रह्म । सर्वेऽस्मैदेवा बलिमावहन्ति ॥ ३॥
इति पञ्चमोऽनुवाकः ॥
मनोमयत्वादिगुणकब्रह्मोपासनया स्वाराज्यसिद्धिः
स य एषोऽन्तहृदय आकाशः ।
तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः ।
अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः ।
यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले ।
भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १॥
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् ।
आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति ।
आकाशशरीरं ब्रह्म ।
सत्यात्म प्राणारामं मन आनन्दम् ।
शान्तिसमृद्धममृतम् ।
इति प्राचीन योग्योपास्व ॥ २॥ इति षष्ठोऽनुवाकः ॥
पृथिव्याद्युपाधिकपञ्चब्रह्मोपासनम्
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ।
अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।
आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।
अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः ।
चक्षुः श्रोत्रं मनो वाक् त्वक् ।
चर्ममाꣳस स्नावास्थि मज्जा ।
एतदधिविधाय ऋषिरवोचत् ।
पाङ्क्तं वा इदꣳसर्वम् ।
पाङ्क्तेनैव पाङ्क्तग् स्पृणोतीति ॥ १॥ इति सप्तमोऽनुवाकः ॥
प्रणवोपासनम्
ओमिति ब्रह्म । ओमितीदꣳसर्वम् ।
ओमित्येतदनुकृतिर्हस्म वा अप्योश्रावयेत्याश्रावयन्ति ।
ओमिति सामानि गायन्ति । ॐꣳशोमिति शस्त्राणि शꣳसन्ति ।
ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ।
ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति ।
ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ।
ब्रह्मैवोपाप्नोति ॥ १॥ इत्यष्टमोऽनुवाकः ॥
स्वाध्यायप्रशंसा
ऋतं च स्वाध्यायप्रवचने च ।
सत्यं च स्वाध्यायप्रवचने च ।
तपश्च स्वाध्यायप्रवचने च ।
दमश्च स्वाध्यायप्रवचने च ।
शमश्च स्वाध्यायप्रवचने च ।
अग्नयश्च स्वाध्यायप्रवचने च ।
अग्निहोत्रं च स्वाध्यायप्रवचने च ।
अतिथयश्च स्वाध्यायप्रवचने च ।
मानुषं च स्वाध्यायप्रवचने च ।
प्रजा च स्वाध्यायप्रवचने च ।
प्रजनश्च स्वाध्यायप्रवचने च ।
प्रजातिश्च स्वाध्यायप्रवचने च ।
सत्यमिति सत्यवचा राथी तरः ।
तप इति तपोनित्यः पौरुशिष्टिः ।
स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ।
तद्धि तपस्तद्धि तपः ॥ १॥ इति नवमोऽनुवाकः ॥
ब्रह्मज्ञ्यानप्रकाशकमन्त्रः
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ।
द्रविणꣳसवर्चसम् । सुमेध अमृतोक्षितः ।
इति त्रिशङ्कोर्वेदानुवचनम् ॥ १॥ इति दशमोऽनुवाकः ॥
शिष्यानुशासनम्
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति ।
सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् ।
कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥
देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव ।
पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।
यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि ।
यान्यस्माकꣳसुचरितानि । तानि त्वयोपास्यानि ॥ २॥
नो इतराणि । ये के चास्मच्छ्रेयाꣳसो ब्राह्मणाः ।
तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् ।
अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् ।
भिया देयम् । संविदा देयम् ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३॥
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् ।
तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ।
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् ।
तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः ।
एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् ।
एवमु चैतदुपास्यम् ॥ ४॥ इत्येकादशऽनुवाकः ॥
उत्तरशान्तिपाठः
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।
सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।
आवीन्माम् । आवीद्वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १॥ इति द्वादशोऽनुवाकः ॥
॥ इति शीक्षावल्ली समाप्ता ॥
द्वितीया ब्रह्मानन्दवल्ली
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
उपनिषत्सारसङ्ग्रहः
ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता ।
सत्यं ज्ञानमनन्तं ब्रह्म ।
यो वेद निहितं गुहायां परमे व्योमन् ।
सोऽश्नुते सर्वान् कामान्सह । ब्रह्मणा विपश्चितेति ॥
तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः ।
वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी ।
पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः ।
स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः ।
अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः ।
अयमात्मा । इदं पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १॥ इति प्रथमोऽनुवाकः ॥
पञ्चकोशोविवरणम्
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीꣳश्रिताः ।
अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः ।
अन्नꣳहि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।
सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते ।
अन्नꣳहि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।
अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते ।
अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ।
तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः ।
तेनैष पूर्णः । स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।
तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः ।
अपान उत्तरः पक्षः । आकाश आत्मा ।
पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १॥
इति द्वितीयोऽनुवाकः ॥