तैत्तिरीयोपनिषद्भाष्यम्
/ 4
←

Taittiriyopanishadbhashyam Sanskrit PDF & Online Reader (तैत्तिरीयोपनिषद्भाष्यम्)

Taittiriyopanishadbhashyam (तैत्तिरीयोपनिषद्भाष्यम्) by Madhvacharya (मध्वाचार्यः) — Sanskrit Text & PDF Download

📜 Last Proofread: 17 Sep 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 17 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
तैत्तिरीयोपनिषद्भाष्यम् (मूलम् — तैत्तिरीयोपनिषत्) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) ॥ शिक्षावल्ली ॥
📖 1.1 ▼
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥
📖 2.1 ▼
सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम् । सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥
📖 1.1 ▼
ॐ शिक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ २ ॥
📖 2.1 ▼
वरणीयो वर्णः । स्वरतेस्तु स्वरः । मानात् त्राता मात्रा । बलरूपः । समश्च सर्वरूपेषु । सन्ततश्च ।
📖 1.1 ▼
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहितायाः उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासंहिता इत्याचक्षते ॥ ३ ॥
📖 2.1 ▼
नारायणादिरूपाणि लोकादिषु च पञ्चसु ।
📖 1.1 ▼
अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः । वायुः सन्धानम् । इत्यधिलोकम् ॥ ४ ॥ अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् ॥ ५ ॥ अथाधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् ॥ ६ ॥ अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननं सन्धानम् । इत्यधिप्रजम् ॥ ७ ॥ अथाध्यात्मम् । अधराहनुः पूर्वरूपम् । उत्तराहनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासंहिताः । य एवमेता महासंहिता याख्याता वेद । सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ८ ॥ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात् सम्बभूव । समेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधयाऽपिहितः । श्रुतं मे गोपाय ॥ ९ ॥ आवहन्ती वितन्वाना । कुर्वाणा चीरमात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा ॥ १० ॥ आ मा यन्तु ब्रह्मचारिणः स्वाहा । वि मा यन्तु ब्रह्मचारिणः स्वाहा । प्र मा यन्तु ब्रह्मचारिणः स्वाहा । दमा यन्तु ब्रह्मचारिणः स्वाहा । शमा यन्तु ब्रह्मचारिणः स्वाहा । यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन् सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा ॥ ११ ॥ यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरा यन्तु ब्रह्मचारिणः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ १२ ॥
📖 2.1 ▼
यो विश्वरूपो भगवांश्च्छन्दसामधिपो हरिः । छन्दोभ्योऽमृतरूपेभ्यस्सुव्यक्तस्तदुपासनात् ॥ मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते ॥ इति च ।
📖 1.1 ▼
भूर्भुवः स्वरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ॥ १३ ॥
📖 2.1 ▼
भूरादिव्याहृतीभिस्तु वाच्यं मूर्तिचतुष्टयम् । अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः ॥ वासुदेवो महोनामा त्वनिरुद्धश्शिरो मतः । भूर्नामाथ भुवोनामा बाहू प्रद्युम्न ईरितः ॥ सङ्कर्षणस्सुवर्नामा पादौ तस्य महात्मनः । अनन्योऽप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते ॥ निर्विशेषोऽपि भगवान् सङ्ख्यामात्रविशेषतः ॥ १३ ॥
📖 1.1 ▼
भूरिति वा अयं लोकः । भुवः इत्यन्तरिक्षम् । सुवरित्यसौ लोकः । मह इत्यादित्यः । आदित्येन वा व सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ १४ ॥
📖 2.1 ▼
लोकज्योतिःप्राणवेदेष्वेकस्स पुरुषोत्तमः । प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥ महीयते महति च स्वयं स भगवान् हरिः । पूज्यपूजकभेदोऽत्र नैव कश्चिदपीष्यते ॥ नामप्रवृत्तिहेतुत्वान्नाम लोकादिकं हरेः । अयं समीपस्थतया त्वसौ प्राणे स्थितत्वतः ॥ ईक्षणादन्तरिक्षं चाथादित्यस्थोऽदितेस्सुतः । अग्निरग्नौ स्थितत्वाच्च वायुर्वयति यज्जगत् ॥ चन्द्र आह्लादरूपत्वादृगर्च्यत्वाज्जनार्दनः । यजुर्याज्यस्वरूपत्वात् साम चासौ समत्वतः ॥ बृहत्वात् ब्रह्म वेदानां समुदायेऽखिले स्थितः । तत्सम्बन्धाद्वेदराशिर्ब्रह्मशब्देन कीर्तितः ॥ प्रकृष्टनयनात् प्राणोऽपानोऽवाङ्नयनाद्धरिः । विविधं नयनाद् व्यानस्सोऽन्नं सर्वोपजीव्यतः ॥ एवं षोडशरूपोऽसौ चतुरात्मा व्यवस्थितः । महाचमसनामासौ यस्मादतिचमत्कृतिः ॥ माहाचमस्यस्तज्ज्ञानी ब्रह्मा सम्परिकीर्तितः । एवं षोडशरूपाणां ज्ञानयोग्यश्चतुर्मुखः ॥ स एव ब्रह्मवित् तस्मात् पूज्यते मुक्तिगोऽपि सन् । सर्वदेवैरतितरां यस्सम्यक् षोडशात्मवित् ॥ इति व्याहृतितत्त्वे ।
📖 1.1 ▼
स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो वि वर्तते । व्यपोह्य शीर्षकपाले ॥ १५ ॥
📖 2.1 ▼
य एष हृदयाकाशस्त्वनिरुद्धस्तु तद्गतः । प्रद्युम्नस्तालुमध्यस्थो लम्बिन्यामिन्द्रनामकः ॥ व्याख्यस्सुपर्णरूपत्वात् केशान्ते वर्तते तु यः । सङ्कर्षणस्सुपर्णात्मा वासुदेवो व्यपस्स्मृतः ॥ यस्माद्व्यपगतस्थाता जगति प्रलये विभुः । अशीर्षककपालोसौ कपालादुपरि स्थितः ॥ १५ ॥
📖 1.1 ▼
भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत् ततो भवति ॥ १६ ॥ आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्ति समृद्धममृतम् । इति प्राचीनयोग्योपास्व ॥ १७ ॥
📖 2.1 ▼
अनिरुद्धस्तु भूर्नामा हुताशे संव्यवस्थितः । प्रद्युम्नो भगवान् वायौ भुव इत्येव कीर्तितः ॥ सङ्कर्षणस्सुवर्नामा सूर्ये तिष्ठति केशवः । महोनामा वासुदेवो ब्रह्मणिस्थश्चतुर्मुखे ॥ स वासुदेवस्स्वाराज्यं व्याप्यास्मिन् मनसस्पतौ । अनिरुद्धे च संव्याप्तः ततो वागादिनां पतिः ॥ वागादिषु स्थितो नित्यं भवत्येष जनार्दनः । स्वव्यापी च जगद्व्यापी नित्यैश्वर्यात् स ईश्वरः ॥ आकाशवद्व्याप्तदेहस्सत्यात्मा गुणपूर्तितः । वायोर्विशेषरमको बलानन्दस्वरूपवान् ॥ ज्ञानानन्दस्वरूपोऽसौ शान्तिनामा सुखोन्नतेः । अन्तगत्वात् स्वतः पूर्तेस्समृद्धं तत् प्रकीर्तितम् ॥ इत्युपास्व प्राथमिको योग्यस्त्वं मदुपासने । प्राधान्यादिति पूर्वं हि प्राह विष्णुश्चतुर्मुखम् ॥ इति ब्रह्मसारे ॥
📖 1.1 ▼
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म मांसं स्नावास्थिमज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ॥ १८ ॥
📖 2.1 ▼
पृथिव्याद्यं पाङ्क्तषट्कं पाङ्क्तेनैव स्वयं हरिः । नारायणादिरूपेण बलयत्यञ्जसा प्रभुः ॥ इत्युवाच स्वयं विष्णुर्वेदद्रष्टा गुणाधिकः ॥ इति तत्त्वसंहितायाम् ॥
📖 1.1 ▼
ॐ इति ब्रह्म । ॐ इतीदं सर्वम् । ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयेत्या श्रावयन्ति । ओमिति सामानि गायन्ति । ओग्ंशोमिति शस्त्राणि शग्ंसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ॥ १९ ॥
📖 2.1 ▼
ॐनामा भगवान् विष्णुरधिकोच्चगुणत्वतः । यद्यद्रूपं भगवतस्तदिदं सर्वमेव च ॥ ओमेवाधिकपूर्णत्वात् तस्माद्यज्ञेषु चर्त्विजः । ओमित्येव स्वकर्माणि कुर्वन्त्युद्दिश्य केशवम् ॥ अधिकोच्च शृणुष्वेति हरिमध्वर्युराह हि । अधिकोच्च महाधाम सूच्च देवेति चादरात् ॥ प्रति प्रति गृणात्येनं शंरूपात्युच्चशावन । इत्याह होता शस्त्रेषु तथैवान्येऽपि चर्त्विजः ॥ एवं स्वऽध्यायकृच्चाह ब्रह्मप्राप्त्यर्थमञ्जसा । एवं जानन्त एते तु प्राप्नुवन्त्येव तत्परम् ॥ इति च ॥ १९ ॥
📖 1.1 ▼
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च च स्वाध्यायप्रवचने च । दमश्च च स्वाध्यायप्रवचने च । शमश्च च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च ॥ २० ॥
📖 2.1 ▼
ऋतं च स्वाध्यायप्रवचने च कर्तव्यानि । प्रवचनं व्याख्यानम् । यथार्थज्ञानमृतम् । तत्पूर्वकं यथार्थवचनं करणं च सत्यम् ।
📖 1.1 ▼
सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ २१ ॥
📖 2.1 ▼
सत्ये तपसि वा चीर्णे सर्वकर्म कृतं भवेत् । स्वाध्याये च प्रवचने ह्यन्तर्भावो विशेषतः ॥ इति च ॥
📖 1.1 ▼
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणग्ं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ २२ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 17 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine