॥ वैयाकरणसिद्धान्तकौमुदी ॥ ॥ भट्टोजिदीक्षितविरचिता ॥
(1)हलन्त्यम् 1-3-3
हल् (मा.सू.-14) इति सूत्रेऽन्त्यमित्स्यात् ।
(2)आदिरन्त्येन सहेता 1-1-71
अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च सञ्ज्ञा स्यात् । । इति हल्सञ्ज्ञायाम् । । उपदेशेऽन्त्यं हलित्स्यात् । । उपदेश आद्योच्चारणम् । । ततः अण् अच् इत्यादिसञ्ज्ञासिद्धौ । ।
(3)उपदेशेऽजनुनासिक इत् 1-3-2
उपदेशेऽनुनासिकोऽजित्सञ्ज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः सञ्ज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् । । नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः प्रत्याहारशब्देन व्यवह्रियन्ते । ।
(4)ऊ३कालोऽज्झ्रस्वदीर्घप्लुतः 1-2-27
उश्च ऊश्च ऊ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्ह्रस्वदीर्घप्लुतसञ्ज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा । ।
(5)उच्चैरुदात्तः 1-2-29
ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसञ्ज्ञः स्यात् । आ ये । ।
(6)नीचैरनुदात्तः 1-2-30
स्पष्टम् । । अ(अ)र्वाङ् । ।
(7)समाहारः स्वरितः 1-2-31
उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसञ्ज्ञः स्यात् । ।
(8)तस्यादित उदात्तमर्धह्रस्वम् 1-2-32
ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा ।
क्व१ वोऽश्र्वाः । रथानां न ये२राः । । श(अ)तच(स्व)क्रं(अ) यो(अ)(स्व)3 ह्यः । । इत्यादिष्वनुदात्तः । । अ(अ)ग्निमी(स्व)ळे इत्यादावुदात्तश्रुतिः । । स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा । ।
(9)मुखनासिकावचनोऽनुनासिकः 1-1-8
मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसञ्ज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । लृवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् । ।
(10)तुल्यास्यप्रयत्नं सवर्णम् 1-1-9
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसञ्ज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञ्ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । । जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा - स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि । ।
(11)अ अ । 8-4-68
इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं सम्पूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथा च सूत्रम् । ।
(12)पूर्वत्रासिद्धम् । 8-2-1
अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्र्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति । ।
खयां यमाः खयः XकXपौ विसर्गः शर एव च ।
एते श्र्वसानुप्रदाना अघोषाश्च विवृण्वते । ।
कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः ।
अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः । ।
वर्गेष्वाद्यानां चतुर्णां पञ्ञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्क्नीः । चख्ख्नतुः । अग्ग्निः । घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्र्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्ञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसञ्ज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ःढ़द्य;ष्माणः । अचः स्वराः । :कः पाविति इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अमः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः । । ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् (वा)। । अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते । ।
(13)नाऽऽज्झलौ 1-1-10
आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् । । तथा हि । ।
(14)अणुदित्सवर्णस्य चाप्रत्ययः 1-1-69
प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य सञ्ज्ञा स्यात् । अत्राण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् ।
अ इत्यष्टादशानां सञ्ज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवं लृकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः सञ्ज्ञाः स्युरिति नापादनीयम् । नाज्झलौ (सू-13) इति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्र्वपाभिः इत्यत्र हो ढः (सू - 324) इति ढत्वं न भवति । अनुनासिकाननुनासिकाभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः सञ्ज्ञा । ।
(25)तपरस्तत्कालस्य 1-1-70
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव सञ्ज्ञा स्यात् । तेन अत्इत् उत् इत्यादयः षण्णां सञ्ज्ञा,ऋदिति द्वादशानाम् । ।
(16)वृद्धिरादैच् 1-1-1
आदैच्च वृद्धिसञ्ज्ञः स्यात् । ।
(17)अदेङ्गुणः 1-1-2
अदेङ् च गुणसञ्ज्ञः स्यात् । ।
(18)भूवादयो धातवः 1-3-1
क्रियावाचिनो भ्वादयो धातुसञ्ज्ञाः स्युः । ।
(19)प्राग्रीश्र्वरान्निपाताः 1-4-56
इत्यधिकृत्य । ।
(20)चादयोऽसत्वे 1-4-57
अद्रव्यार्थाश्चादयो निपातसञ्ज्ञाः स्युः । ।
(21)प्रादयः 1-4-58
अद्रव्यार्थाः प्रादयस्तथा । ।
(22)उपसर्गाः क्रियायोगे 1-4-59
(23)गतिश्च 1-4-60
प्रादयः क्रियायोगे उपसर्गसञ्ज्ञा गतिसञ्ज्ञाश्च स्युः । । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः । ।
(24)न वेति विभाषा 1-1-44
निषेधविकल्पयोर्विभाषा सञ्ज्ञा स्यात् । ।
(25)स्वं रूपं शब्दस्याशब्दसञ्ज्ञा 1-1-68
शब्दस्य स्वं रूपं सञ्ज्ञि शब्दशास्त्रे या सञ्ज्ञा तां विना । ।
(26)येन विधिस्तदन्तस्य 1-1-72
विशेषणं तदन्तस्य सञ्ज्ञा स्यात् स्वस्य च रूपस्य । । । समासप्रत्ययविधौ प्रतिषेधः (वा)। । उगिद्वर्णग्रहणवर्जम् (वा)। ।
(27)विरामोऽवसानम् 1-4-110
वर्णानामभावोऽवसानसञ्ज्ञः स्यात् । ।
(28)परः संनिकर्षः संहिता 1-4-109
वर्णानामतिशयितः सन्निधिः संहितासञ्ज्ञः स्यात् । ।
(29)सुप्तिङन्तं पदम् 1-4-14
सुबन्तं तिङन्तं च पदसञ्ज्ञं स्यात् । ।
(30)हलोऽनन्तराः संयोगः 1-1-7
अज्भिरव्यवहिता हलः संयोगसञ्ज्ञाः स्युः । ।
(31)ह्रस्वं लघु 1-4-10
(32)संयोगे गुरु 1-4-11
संयोगे परे ह्रस्वं गुरुसञ्ज्ञं स्यात् । ।
(33)दीर्घं च 1-4-12
दीर्घं च गुरुसञ्ज्ञं स्यात् । ।
--------------------------------------------------------------------------------
(47)इको यणचि 6-1-77
इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्यः इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्य इति जाते । ।
(48)अनचि च 8-4-47
अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् । ।
(49)स्थानिवदादेशोऽनल्विधौ 1-1-56
आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य अनचि च 48 इति द्वित्वनिषेधो न शङ्क्योऽनल्विधाविति इति तन्निषेधात् । ।
(50)अचः परस्मिन्पूर्वविधौ 1-1-57
अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिद्भावे प्राप्ते । ।
(51)न पदान्तद्विर्वचनवरेयलोपस्वरसर्वणानुस्वारदीर्घजश्चर्विधिषु 1-1-58
पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः । ।
(52)झलां जश् झशि 8-4-53
स्पष्टम् । इति धकारस्य दकारः । ।
(53)अदर्शनं लोपः 1-1-60
प्रसक्तस्यादर्शनं लोपसञ्ज्ञं स्यात् । ।
(54)संयोगान्तस्य लोपः 8-2-23
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते । । यणः प्रतिषेधो वाच्यः (वा)। । यणो मये द्वे वाच्यो (वा) । । मय इति पञ्ञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि । । एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ।
(55)नादिन्याक्रोशे पुत्रस्य 8-4-48
पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् ? तत्वकथने द्विर्वचनं भवत्येव । पुत्रादिनी सर्पिणी । । । तत्परे च (वा)। पुत्रादिनी त्वमसि पापे । । वा हतजग्धयोः (वा)। । पुत्रहती । पुत्त्रहती । पुत्रजग्धी । पुत्त्रजग्धी । ।
(56)त्रिप्रभृतिषु शाकटायनस्य 8-4-50