श्रीव्यासयोगिचरितम्
/ 13
←

Shrivyasayogicaritam English (IAST) PDF & Online Reader (śrīvyāsayogicaritam)

Shrivyasayogicaritam (श्रीव्यासयोगिचरितम्) by सोमनाथकविः — English (IAST) Text & PDF Download

📜 Last Proofread: 15 Sep 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 15 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
श्रीव्यासयोगिचरितम् सोमनाथकविप्रणीतम् ॥ प्रथमोल्लासः ॥ ॥ श्रीगुरुभ्यो नमः ॥ अन्वेष्यान्वेष्टृतायां विहितविनिमयः स्वस्य च प्रत्नवाचामाकृत्या रुच्यरुच्याम्बुधिदुहितृदृशोर्गन्धयन्बन्धुभावम् । दंष्ट्रायष्टिप्रभाभिर्मुखमखिळदिशां तुत्थयन्नुत्थिताभि यो मीनो यमीनैः स भवतु भवतां चित्तकासारवासः ॥ १ ॥ बिभ्रद्वम्भ्रम्यमाणं शतमखमुखया लेखयाऽऽलेखमय्या भोगाभोगेन भोगीशितुरभिवलितं मन्दरामन्दमन्थम् । निर्यत्नं नूत्नरत्नाभरणमिव शिलानिष्ठुरे पृष्ठभागे निर्माथे वर्ष्मवाधैर्मम बहुळतमं शर्म निर्मातु कौर्मम् ॥ २ ॥ ग्रस्तामाभीलमुस्तां कलयतु भवतां कोऽपि कूटस्थदंष्ट्री दंष्ट्रा दण्डे यदीये वलयमविलयं विश्वविश्वम्भरायाः । वारां राशेरपारैर्मणिगणकिरणैः कर्बुरीभूतशोभं तक्या बहलक्ष्म्यां प्रकटयतितरां भ्रामरीं धामरीतिम् ॥ ३ ॥ सङ्गृण्हानस्य तस्याखिळमुनिसदसां तारवाचामनीचा माशंसामातितंसोरमररिपुपतेर्वक्षसः क्षोदखेदम् । कुर्वाणस्योग्रदंष्ट्रा किरणाविकिरणैः कुन्दनिन्दां प्रभिन्ता - मंहः सिंहस्य रंहो जनितजनिभयं स्तम्भतो जृम्भतो वः ॥ ४ ॥ सर्वं सर्वंसहाया बलिहृदि कलितं मानभङ्ग्याऽभिमानं कुर्वाणेनातिखर्वं चरणजलरुहा व्याप्तलोकेशलोकः । अन्तर्वत्नीर्वितानैरतनुतनुरुचां हासयन् भासमानै र्माला बालाहिकीः शं कलयतु कमलाकामनो वामनो वः ॥ ५ ॥ भासामाशासु राशिं विकचनवजपाविद्रुमद्रोहिणीनां तन्वन् राजन्यवन्यालवनमुकुलितां कीर्तिरेखामिव स्वाम् । पाणी मुक्ताक्षमालां दधदखिळभुवा प्रीणितब्रह्मवर्यो योगी भोगीन्द्र भासा दिशतु परशुना लाञ्छितो वाञ्छितं वः ॥ ६ ॥ उद्दण्ड चण्डिमानं भुजभुवि दधती दृप्तनक्तञ्चरस्त्रीगल्यामाङ्गल्यभूषामणिगणलहरीथालथल्यापहन्त्री । वक्रम्णा शक्रवृत्तेः कुपितपतिधुतां तापसीं तापसीनां प्रोद्धृत्याऽशास्यकीर्तिः शमयतु भवतां क्षत्रचूडारिपीडाम् ॥ ७ ॥ चेलं नीलाब्जनीलं दधदधरसुधाबान्धवोद्वन्धिहालाहेलासाहित्यरेवत्यधरदळपुटीचुम्बनाडम्बरैषी । वेलातीतारिहालाहलविलसितसद्बाहुवल्लीमतल्ली भीमो रामोऽभिरामो जयति निजरुचा वैरदश्शारदेन्दोः ॥ ८ ॥ उद्यत्सख्यामभिख्यां प्रविकसदतसीपिञ्छतापिञ्छभाभिः बिभ्राणोऽदभ्रकुञ्चीकुरवककळिकासञ्चरञ्चञ्चरीकः । दृप्यच्चाणूररेणूकरणनिपुणताध्वंसितांशंसकंस वित्ते नृत्तं विधत्तां विबुधविबुधितः वल्लभो वल्लवीनाम् ॥ ९ ॥ भूयाद्भूत्यै महत्यै परचुळकसटाकर्कशः कल्किवर्यो हेषाघोषैर्विहायः कुहरविसृमरैः भीषिताशेषलोकः । पण्ड पाषण्डपुंसां कलिकलिततमोराशिकोशीकृतानां खण्ड खण्डं प्रचण्डैः प्रखरतरखुरै रक्षिता यः क्षितिं वः ॥ १० ॥ प्रबन्धानां कीर्तिस्थितिरनुपमो नायकगुण स्तदा तस्याप्येते विदधति रसं ग्रन्थिलपदाः । प्रबन्धूणां किन्तु प्रतिहतमनालिम्पदयशः प्रपञ्चानेतॄणां करतळवदान्यत्वसरणिः ॥ ११ ॥ भावये मनसा व्यासं यः स्ववाचा सुधामुचा । यौधिष्ठिरीं क्षितौ कीर्तिं द्राघिष्ठां प्रत्यतिष्ठिपत् ॥ १२ ॥ गुणेषु नेतुः कुशलेषु सत्सु नृत्यन्ति वाचो नितरां कवीनाम् । कलाधिनाथस्य करोदयेषु तरङ्गरेखा इव सागराणाम् ॥ १३ ॥ भो भो मत्सरकुत्सितान् सुमतयो दुर्वैदुषीगर्विता नाकाशादवतारभागिन इवाहंयून् समाढ़ौक्य किम् । श्लाघाकम्पनमेकमेव शिरसः श्रीव्यासयोगीशितुः मेरूणां शतमर्हति क्षितितले विद्यासु विद्यावताम् ॥ १४ ॥ तोतिथिर्भवतु नः स तु कालिदासो यः क्षोणिभागमवतारयति स्म वाणीम् । पाथोजसीधुसुरभिं परमेष्ठिलोकाद्भागीरथीमिव भगीरथभूमिपालः ॥ १५ ॥ श्लाघामहे कविं बाणं यश्चक्रे मर्मणो भिदाम् । धन्वकोटिजुषि ज्यायां तिष्ठन्नेव विरोधिनाम् ॥ १६ । पुंसां केवलतर्कसारविफलीभूतात्मनां बिभ्रतां अब्रह्मण्यनिदानवैभवकलामम्भोजभूयोषितः । या यादृच्छिकवासपात्रमभवत्तस्यै दिशे भूरिशो मूर्ध्ना भीतिनतेन सम्प्रति नमस्कारं चमत्कुर्महे ॥ १७ ॥ पद्यानां सुकवेरदृष्टविषयानाग्रेडितानामपि प्रत्नानामिव भाति वागियमिति श्लाघापरान् केवलम् । चर्चादिक्रियया तथाऽभिनयतः साहित्यमर्मज्ञतां वैधेयान् विधिरेव तर्जयतु तान् ये भावनाकोविदाः ॥ १८ ॥ लोकालोकधरावधिर्न धरणी नाभ्रं मुहुः पुष्पवत्सञ्चारप्रमितं न वा चुलुकितः कुम्भीभुवाम्भोनिधिः । वाचा तादृशमद्य तस्य चरितं श्रीव्यासयोगीशितुः क्रोडीकर्तुमना भवाम्यहमहो को मे समस्साहसी ॥ १९ ॥ श्रीव्यासतापसमणेः चरितं निबन्धुं गण्यं महाकविभिरप्यहमारभेय । कार्येऽपि यूथपतिना कलभः प्रवृत्तिं प्रव्यातनोति हि मदेन परीतचेताः ॥ २० ॥ गर्वामि नैव वचसां मम पेशलत्वादङ्गीकरिष्यति जनोऽमुमिति प्रबन्धम् । एषोऽवतंसयति यद्यतिनायकस्य तस्यामितम्पचगुणं महितप्रभावम् ॥ २१ ॥ अन्तरायसलिलाचमनोद्यक्तर्णतालपवमानशिशूनि । तुन्दिलानि कुतुकानि गणानां कानिचिन्मनसि कन्दलयामः ॥ २२ ॥ नवनीतसुगन्धयो नखान्ता नवनीपाङ्कुरनन्दनीयशोभाः । कुशलं कलयन्तु गोपिकानां कुचवास्तव्य कुटुम्बितधुरीणाः ॥ २३ ॥ वात्सल्येन पयोनिधेः सुरभितं वक्षः प्रदेशं वह द्वयाचक्षाणमभङ्गुराङ्गमहसा वालाहिकीं प्रक्रियाम् । उद्दामां शुभसम्पदं निजजुषामुल्लोलकल्लोलय तेजस्तादृशमादिमं विजयते सेव्यं गणैर्योगिनाम् ॥ २४ ॥ वाणीनामजनिस्पृशां भगवतो माङ्गल्यतेजोनिधेः विज्ञातुः स्वयमेव तापसगणाः व्यासस्य सेवार्थिनः । पुञ्जीभूय पुरा कदाचिदखिलाः पुण्याकृतिस्पूर्तयः. प्राविक्षन् परिपावनीं बदरिकां प्रालेयरौलालयाः ॥ २५ ॥ नवनीरदनन्दनीयशोभे नरनारयणनामधेयचिह्ने । जगतां कुशला दीक्षमाणे महसी यत्र महत्तपो व्यधत्ताम् ॥ २६ ॥ तत्र ते सकलभुवनपरिपावनसलिलप्रभावं, गम्भीरिमदेशिकमिंव जलनिधीनां, नाभीकुहरमिव वसुन्धरायाः, वारिगर्तमिव दुरितमतङ्गजानां, मार्गस्थानमिव रसातलस्य, तिलकमणिमिव आर्यावर्तस्य, स्थलदर्पणमिव वनदेवतायाः, प्रथमाङ्कुरालवालमिवाकाशस्य, लावण्यरसगलनमिव दिग्वधूनां यशः पूरमिव शिशिरतायाः, मूलावलम्बमिव नैर्मल्यस्य, स्वादिमवरप्रदातारमिव सुधारसानाम्, उपादानमिवमानससर्गस्य, सूतिकासदनमिव सुपर्वभावस्य वासुदेवमिव वनमालापरिवृतं, कुण्डलीन्द्रमिव कुवलयधुरन्धरं, भोजभूपतिमिव विदर्भदेशोपलालितं, हिरण्यकशिपुमिव प्रल्हादकारणं, ब्रह्मसभाङ्गणमिव पद्मासनाधिष्ठितपरमहंसमण्डलं, मन्मथकेतुमिव मकरपरिमण्डितं, दनुजराजकमिव कविविलासलोलसङ्करं, दिवसावसानमिव धृतरक्तसन्ध्यकं, पशुपतिरथमिव भास्वचक्रपरिक्रमं तनुमपि अखिलावलोकनीयं, स्निग्धार्जुनपरिसरमपि · दर्शितधार्तराष्ट्रपक्षपातं पुण्डरीकसङ्कुलमपि निर्भयमृगाध्यासिततटम्, अनपायमपि भङ्गपरम्परानुविद्धं, क्वचिदुपरिपोर्पूर्यमाणबुद्बुदमुकुलनिकरसूचितचिरायमाणदूराघमर्षणनिमज्जनयतिकुलं, क्वचिदारभ्यमाणमृत्तिकाभिषेचननियममुनिजनपरिलोलनकलुषीकृतं, कचिदूर्मिकागणप्लवमानकुशाग्रतिलकुसुमानुमितगृहमेधिपितृदेवतातर्पणाञ्जलिसमाराधनं, कचित्परिशोध्यमाननवीनवल्कलवसनकाषायरसारुणितावतारसरणिपरिसरं क्वचित्प्रक्षाल्यमानतापसीजटापूलिकाविगलितविकसदिङ्गुदीतैलकणिकाकोरकचन्द्रकितं कचिदृषिमाणवकनिवहपूर्यमाणकमण्डुलुशतमुखघुमघुमारखमुखरिताशेषहरिन्मुखं, कचित्सहचरचं चूपुटसानुरागवितीर्णविमलबिसकिसलयचर्वणगर्ववन् मरालीकुलसमुदञ्चितकिलकिञ्चितं कचिद्वीचीडोलामरकतफलकायमानविशालकमलिनीपलाशसरसनिषण्णसारसनिकुरम्बं, मङ्गलगाधायमानमधुकरीझङ्कारं, धवलबहुलङ्कुमुदमुकुलच्छलेन धर्माङ्कुरकेदारतामिव दर्शयन्तम्, अन्तर्बिम्बिततटतरुणपल्लवकैतवेन निमज्जज्जनरागघस्मरतामिव दर्शयन्तम्, उत्कण्ठितशैवलवलयपरिवेषणमिषेण त्रिभुवनपवित्रीकरणबद्धकक्ष्यतामिव प्रकाशयन्तम्, अभ्रङ्कषवेतसशाखाकाण्डपटेन अशेषकलुषपेषणदक्षताबद्धकेतनपताकामिव प्रत्यक्षयन्तं, निरन्तरायशकुन्तवृन्दकोलाहलोन्मेषापदेशेन कैवल्यवितरणकृतबिरुदघोषतामिव द्योतयन्तम्, अप्रमेयप्रभावमतिमात्रपरिणाहमनाघ्रातसादृश्यमनालीढकलिदोषममर्याद्गुणवैभवमसममिव पारावारतस्योत्तरे तापससार्वभौमाः कूले दृशां गोचरयाम्बभूवुः ! महाश्रमं धाम वसुन्धरायाः च्युतं प्रमादादिव पद्मयोनेः ॥ सम्फुल्लां सल्लकीनां मृगपतिशिशवः प्रह्वयन्त्युच्चशाखामारुह्योपर्यधस्तात्तरुणकरटिनः सुग्रहार्थं जिघृक्षोः । कण्डूयन्ते कुरङ्गान् मृदुनिहितनखैद्वीपिनो मीलिताक्षान्यत्राहीनां मयूरा धुतगरुदनिलैरामिषं निर्वहन्ते ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 15 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine