शरणागतिदीपिका
/ 2
←

Sharanagatidipika English (IAST) PDF & Online Reader (śaraṇāgatidīpikā)

Sharanagatidipika (शरणागतिदीपिका) by Vedanta Desika (वेदान्तदेशिकः) — English (IAST) Text & PDF Download

📜 Last Proofread: 12 Oct 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 12 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
शरणागति दीपिका श्रीः ॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ पद्मापतेः स्तुतिपदेन विपच्यमानं पश्यन्त्विह प्रपदनप्रवणा महान्तः । मद्वाक्य संवलितमप्यजहत्स्वभावं मान्यं यतीश्वरमहानससम्प्रदायम् ॥ १॥ नित्यं श्रिया वसुधया च निषेव्यमाणं निर्व्याजनिर्भरदयाभरितं विभाति । वेदान्तवेद्यमिह वेगवती समीपे दीपप्रकाश इति दैवतमद्वितीयम् ॥ २॥ दीपस्त्वमेव जगतां दयिता रुचिस्ते दीर्घं तमः प्रतिनिवर्त्यमिदं युवाभ्याम्। स्तव्यं स्तवप्रियमतः शरणोक्तिवश्यं var स्तवप्रियतमं स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥ ३॥ var भवन्तमिह वाञ्छति, भवन्तमभिवाञ्छति पद्माकरादुपगता परिषस्वजे त्वां वेगा सरिद्विहरणा कलशाब्धिकन्या । आहुस्तदाप्रभृति दीपसमावभासं आजानतो मरकतप्रतिमं वपुस्ते ॥ ४॥ स्वामिन् गभीरसुभगं श्रमहारि पुंसां माधुर्यरम्यमनघं मणिभङ्गदृश्यम् । वेगान्तरे वितनुते प्रतिबिम्बशोभां var वेगान्तरेऽपि तनुते लक्ष्मी सरः सरसिजाश्रयमङ्गकं ते ॥ ५॥ आविश्य धारयसि विश्वममुष्य यन्ता शेषी श्रियःपतिरशेषतनुर्निदानम् । इत्यादि लक्षणगणैः पुरुषोत्तमं त्वां जानाति यो जगति सर्वविदेष गीतः ॥ ६॥ विश्वं शुभाश्रयवदीश वपुस्त्वदीयं सर्वा गिरस्त्वयि पतन्ति ततोऽसि सर्वः । सर्वं च वेदविधयस्त्वदनुग्रहार्थाः सर्वाधिकस्त्वमिति तत्त्वविदस्तदाहुः ॥ ७॥ ज्ञानं बलं नियमनक्षमताऽथ वीर्यं शक्तिश्च तेज इति ते गुणषट्कमाद्यम् । सर्वातिशायिनि हिमोपवनेश यस्मिन् अन्तर्गतो जगदिव त्वयि सद्गुणौघः ॥ ८॥ दीपावभासदयया विधिपूर्वमेतत् विश्वं विधाय निगमानपि दत्तवन्तम् । शिष्यायिताः शरणयन्ति मुमुक्षवस्त्वां आद्यं गुरुं गुरुपरम्परयाऽधिगम्यम् ॥ ९॥ var गुरुपरम्परयाऽभिगम्यम् सत्ता स्थिति प्रयतनप्रमुखैरुपात्तम् स्वार्थं सदैव भवता स्वयमेव विश्वम् । दीपप्रकाश तदिह त्वदवाप्तये त्वां अव्याजसिद्धमनपायमुपायमाहुः ॥ १०॥ भोग्यं मुकुन्द गुणभेदमचेतनेषु भोक्तृत्वमात्मनि निवेश्य निजेच्छयैव । var भोक्तृत्वमात्मसु पाञ्चालिकाशुकविभूषणभोगदायी var पाञ्चालिकांशुकविभीषण, पाञ्चालिकांशुकविभूषण सम्राडिवात्मसमया सह मोदसे त्वम् ॥ ११॥ त्वां मातरं च पितरं सहजं निवासं सन्तः समेत्य शरणं सुहृदं गतिं च । निःसीमनित्यनिरवद्यसुखप्रकाशं दीपप्रकाशसविभूतिगुणं विशन्ति ॥ १२॥ जन्तोरमुष्य जनने विधि शम्भु दृष्टौ रागादिनेव रजसा तमसा च योगः । द्वैपायनप्रभृतयस्त्वदवेक्षितानां सत्त्वं विमुक्ति नियतं भवतीत्युशन्ति॥ १३॥ कर्मस्वनादि विषमेषु समो दयालुः स्वेनैव कॢप्तमपदेशमवेक्षमाणः । var कॢप्तमुपदेशमपेक्षमाणः स्वप्राप्तये तनुभृतां त्वरसे मुकुन्द स्वाभाविकं तव सुहृत्त्वमिदं गृणन्ति ॥ १४॥ निद्रायितान् निगमवर्त्मनि चारुदर्शी var चोरदर्शी, पारदर्शी प्रस्थानशक्तिसहितान् प्रतिबोध्य जन्तून् । var रहितान् जीर्ण स्तनन्धयजडान्धमुखानिवास्मान् var मुखानिवान्यान् नेतुं मुकुन्द यतसे दयया सह त्वम् ॥ १५॥ var सहत्वम् भक्तिः प्रपत्तिरथवा भगवंस्तदुक्तिः तन्निष्ठ संश्रय इतीव विकल्प्यमानम् । यं कंचिदेकमुपपादयता त्वयैव var यत्किंचित् त्रातास्तरन्त्यवसरे भविनो भवाब्धिम् ॥ १६॥ नानाविधैरकपटैरजहत्स्वभावैः अप्राकृतैर्निजविहारवशेन सिद्धैः । आत्मीयरक्षणविपक्षविनाशनार्थैः var विनाशनार्हैः संस्थापयस्यनघ जन्मभिराद्यधर्मम् ॥ १७॥ निम्नोन्नतानि निखिलानि पदानि गाढं मज्जन्ति ते महिम सागरशीकरेषु । नीरन्ध्रमाश्रयसि नीचजनांस्तथापि शीलेन हन्त शिशिरोपवनेश्वर त्वम् ॥ १८॥ काशीवृकान्धकशरासनबाणगङ्गा- संभूतिनामकृतिसंवदनाद्युदन्तैः । var संवननाद्युदन्तैः स्वोक्त्यम्बरीष भयशापमुखैश्च शम्भुं तन्निघ्नमीक्षितवतामिह कः शरण्यः ॥ १९॥ क्वासौ विभुः क्व वयमित्युपसत्ति भीतान् जन्तून् क्षणात् त्वदनुवृत्तिषु योग्ययन्ती । var त्वदनुभूतिषु संप्राप्तसद्गुरुतनोः समये दयालोः आत्मावधिर्भवति शिक्षितधीः क्षणं ते ॥ २०॥ var संस्कृतधीः, संस्कृतिरीक्षणं ते योग्यं यमैश्च नियमैश्च विधाय चित्तं सन्तो जितासनतया स्ववशासु वर्गाः । प्रत्याहृतेन्द्रियगणाः स्थिरधारणास्त्वां ध्यात्वा समाधियुगलेन विलोकयन्ति ॥ २१॥ पद्माभिरामवदनेक्षणपाणिपादं दिव्याद्युधाभरणमाल्य् विलेपनं त्वाम् । योगेन नाथ शुभमाश्रयमात्मवन्तः सालम्बनेन परिचिन्त्य न यान्ति तृप्तिम् ॥ २२॥ var शान्तिं मानातिलङ्घि सुखबोधमहाम्बुराशौ मग्नास्त्रिसीमरहिते भवतः स्वरूपे । तापत्रयेण विहतिं न भजन्ति भूयः var सन्तः संसारघर्मजनितेन समाधिमन्तः ॥ २३॥ धीसंस्कृतान् विदधतामिह कर्मभेदान् शुद्धं जिते मनसि चिन्तयतां स्वमेकम् । त्वत्कर्मसक्तमनसामपि चापरेषां सूते फलान्यभिमतानि भवान् प्रसन्नः ॥ २४॥ उद्बाहुभावमपहाय यथैव खर्वः प्रांशुं फलार्थमभियाचति योगिचिन्त्य । var प्रांशु फलं समभियाचति एवं सुदुष्करमुपायगणं विहाय स्थाने निवेशयति तस्य विचक्षणस्त्वाम् ॥ २५॥ var विचक्षणं नित्यालसार्हमभयं निरपेक्षमन्यैः विश्वाधिकारमखिलाभिमतप्रसूतिम् । शिक्षाविशेषसुभगं व्यवसाय सिद्धाः var सुलभं सत्कुर्वते त्वयि मुकुन्द षडङ्गयोगम् ॥ २६॥ त्वत्प्रातिकूल्यविमुखाः स्फुरदानुकूल्याः कृत्वा पुनः कृपणतां विगतातिशङ्काः । स्वामिन् भव स्वयमुपाय इतीरयन्तः त्वय्यर्पयन्ति निजभारमपारशक्तौ ॥ २७॥ अर्थान्तरेषु विमुखान् अधिकारहानेः श्रद्धाधिकांस्त्वदनुभूति विलम्बभीतान् । var श्रद्धाधनात् दीप प्रकाश लभसे सुचिरात् कृतीव var कृती त्वं न्यस्तात्मनस्तव पदे निभृतान् प्रपन्नान् ॥२८॥ मन्त्रैरनुश्रवमुखेष्वधिगम्यमानैः var अनुगम्यमानैः स्वाध् क्रियासमुचितैर्यदिवाऽन्यवाक्यैः। नाथ त्वदीय चरणौ शरणं गतानां नैवायुतायुतकलाप्यऽपरैरवाप्या ॥ २९॥ दत्ताः प्रजा जनकवत् तव देशिकेन्द्रैः पत्याऽभिनन्द्य भवता परिणीयमानाः । मध्ये सतां महितभोगविशेषसिद्ध्यै माङ्गल्यसूत्रमिव बिभ्रति किङ्करत्वम् ॥ ३०॥ var मङ्गल्यसूत्रमिव दिव्ये पदे नियतकिङ्करताधिराज्यं दातुं त्वदीय दयया विहिताभिषेकाः । var प्राप्तुं त्वयैव, दातुं त्वयैव आदेहपातमनघाः परिचर्यया ते युञ्जानचिन्य युवराजपदं भजन्ति ॥ ३१॥ त्वां पाञ्चरात्रिकनयेन पृथग्विधेन वैखानसेन च पथा नियताधिकराः । संज्ञाविशेषनियमेन समर्चयन्तः प्रीत्या नयन्ति फलवन्ति दिनानि धन्याः ॥ ३२॥ वर्णाश्रमादिनियतक्रमसूत्रबद्धाः var वर्णाश्रमादिनियमस्थिरसूत्रबन्धा भक्त्या यथार्ह विनिवेशितपत्रपुष्पा । मालेव कालविहिता हृदयङ्गमा त्वां आमोदयत्यनुपरागधियां सपर्या ॥ ३३॥ ब्रह्मा गिरीश इतरेऽप्यमरा य एते निर्धूय तान् निरयतुल्यफलप्रसूतीन् । प्राप्तुं तवैव पदपद्मयुगं प्रतीताः पातिव्रतीं त्वयि वहन्ति परावरज्ञाः ॥ ३४॥ var भजन्ति नाथ त्वदिष्टविनियोगविशेषसिद्धं शेषत्वसारमनपेक्ष्य निजं गुणज्ञाः । var शेषत्वसारमनुपेक्ष्य भक्तेषु ते वरगुणार्णव पारतन्त्र्यात् दास्यं भजन्ति विपणिव्यवहारयोग्यम् ॥ ३५॥ सद्भिस्वदेकशरणैर्नियतं सनाथाः var नियताः सर्पादिवत् त्वदपराधिषु दूरयाताः । धीरास्तृणीकृतविरिञ्चपुरन्दराद्याः कालं क्षिपन्ति भगवन् करणैरवन्ध्यैः॥ ३६॥ वागादिकं मनसि तत् पवने स जीवे भूतेष्वयं पुनरसौ त्वयि तैः समेति । साधारणोत्क्रमणकर्मसमाश्रितानां यन्त्रा मुकुन्द भवतैव यथा यमादेः ॥ ३७॥ सव्यान्ययोरयनयोर्निशि वासरे वा सङ्कल्पितायुरवधीन् सपदि प्रपन्नान् । हार्दः स्वयं निजपदे विनिवेशयिष्यन् नाडीं प्रवेशयसि नाथ शताधिकां त्वम् ॥३८॥ अर्चिर्दिनं विशदपक्ष उदक्प्रयाणं संवत्सरो मरुदशीतकरः शशाङ्कः । सौदामनी जलपतिर्वलजित्प्रजेशः इत्यातिवाहिक् सखो नयसि स्वकीयान् ॥ ३९॥ त्वच्छेषवृत्त्यनुगुणैर्महितैर्गुणौघैः var सहिते गुणौघैः, सहितैर्गुणौघैः आविर्भवत्ययुतसिद्ध निजस्वरूपे । त्वल्लक्षणेषु नियतेष्वपि भोगमात्रे साम्यं भजन्ति परमं भवता विमुक्ताः ॥ ४०॥ इत्थं त्वदेकशरणैरनघैरवाप्ये त्वत्किङ्करत्वविभवे स्पृहयाऽपराध्यन् । आत्मा ममेति भगवन् भवतैव गीता var (to next line) गीतान् प्राचो निरीक्ष्य, गीताः प्रायो निरीक्ष्य वाचो निरीक्ष्य भरणीय इह त्वयाऽहम् ॥ ४१॥ var इति पद्मा मह् प्रभृतिभिः परिभुक्तभूम्नः का हानिरत्र मयि भोक्तरि ते भवित्री । दुष्येत् किमङ्घ्रितटिनी तव देव सेव्या दुर्वारतर्षचपलेन शुनाऽवलीढा ॥ ४२॥ सत्वानि नाथ विविधान्यभिसञ्जिघृक्षोः var विविधान्यपि सञ्जिघृक्षोः संसारनाट्यरसिकस्य तवाऽस्तु तृप्त्यै । प्रत्यक्पराङ्मुखमतेरसमीक्ष्य कर्तुः प्राचीनसज्जनविडम्बनभूमिका मे ॥ ४३॥ कर्तव्यमित्यनुकलं कलयाम्यकृत्यं स्वामिन्नकृत्यमिति कृत्यमपि त्यजामि । var स्वामिन्नकृत्यमिव अन्यद्व्यतिक्रमणजातमनन्तमर्थ- स्थाने दया भवतु ते मयि सार्वभौमी ॥ ४४॥ var वहतु यं पूर्वमाश्रितजनेषु भवान् यथावत् धर्मं परं प्रणिजगौ स्वयमानृशंस्यम् । संस्मारितस्त्वमसि तस्य शरण्यभावात् नाथ त्वदात्तसमया ननु मादृशार्थम् ॥ ४५॥ त्राणं भवेति सकृदुक्तिसमुद्यतानां तैस्तैरसह्यवृजिनैरुदरंभरिस्ते । सत्यापिता शतमखात्मजशङ्करादौ नाथ क्षमा न खलु जन्तुषु मद्विवर्जम् ॥ ४६॥ कर्मादिषु त्रिषु कथां कथमप्यजानन् var कथमित्यजानन् कामादिमेदुरतया कलुषप्रवृत्तिः । var कामादिमांसलतया साकेतसंभवचराचरजन्तुनीत्या var जन्तुरीत्या वीक्ष्यः प्रभो विषयवासितयाऽप्यहं ते ॥ ४७॥ ब्रह्माण्डलक्षशतकोटिगणाननन्तान् एकक्षणे विपरिवर्त्य विलज्जमानाम् । मत्पापराशिमथने मधुदर्पहन्त्रीं शक्तिं नियुङ्क्ष्व शरणागतवत्सल त्वम् ॥ ४८॥ आस्तां प्रपत्तिरिह देशिकसाक्षिका मे var साक्षिकं सिद्धा तदुक्तिरनघा त्वदपेक्षितार्था । var त्वदवेक्षितार्था न्यस्तस्य पूर्वनिपुणैस्त्वयि नन्विदानीं पूर्णे मुकुन्द पुनरुक्त उपाय एषः ॥ ४९॥ var पूर्णो
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 12 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine