ऋतुसंहारम्
/ 3
←

Ritusamharam Sanskrit PDF & Online Reader (ऋतुसंहारम्)

Ritusamharam (ऋतुसंहारम्) by Kalidasa (कालिदासः) — Sanskrit Text & PDF Download

📜 Last Proofread: 12 Sep 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 12 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
॥ ऋतुसंहारम् ॥ ॥ १ । अथ ग्रीष्मः ॥ प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसञ्चयः । दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालः समुपागतःनिदाघकालोऽयमुपागतः प्रिये ॥ १ ॥ निशाः शशाङ्कक्षतनीलराजयः क्व चिद् विचित्रं जलयन्त्रमन्दिरम् । मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥ २ ॥ सुवासितं हर्म्यतलं मनोरमं var मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु । सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥ नितम्बबिम्बैः सुदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ ४ ॥ नितान्तलाक्षारसरागलोहितैर् नितम्बिनीनां चरणैः सुनूपुरैः । पदे पदे हंसरुतानुकारिभिर् जनस्य चित्तं क्रियते समन्मथम् ॥ ५ ॥ पयोधराश्चन्दनपङ्कचर्चितास् तुषारगौरार्पितहारशेखराः । नितम्बदेशाश्चलहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ६ ॥ समुद्गतस्वेदचिताङ्गसन्धयो विमुच्य वासांसि गुरूणि साम्प्रतम् । स्तनेषु तन्वंशुकमुन्नतस्तना निवेशयन्ति प्रमदाः सयौवनाः ॥ ७ ॥ सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पितैः । सवल्लकीकाकलिगीतनिःस्वनैः प्रबुध्यतेविबोध्यते सुप्त इवाद्य मन्मथः ॥ ८ ॥ सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः विलोक्य निर्यन्त्रणमुत्सुकश्चिरं निशाक्षये याति ह्रियेव पाण्डुताम् ॥ ९ ॥ असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही । न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥ १० ॥ मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः । वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥ ११ ॥ सविभ्रमैः सस्मितजिह्मवीक्षितैर् विलासवत्यो मनसि प्रसङ्गिनाम्प्रवासिनाम् । अनङ्गसन्दीपनमाशु कुर्वते यथा प्रदोषाः शशिचारुभूषणाः ॥ १२ ॥ रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः । अवाङ्मुखो जिह्मगतिः श्वसन् मुहुः फणी मयूरस्य तले निषीदति ॥ १३ ॥ तृषा महत्या हतविक्रमोद्यमः श्वसन् मुहुर्भूरिविदारिताननः । न हन्त्यदुरेऽपि गजान् मृगाधिपो विलोलजिह्वश्चलिताग्रकेसरः ॥ १४ ॥ विशुष्ककण्ठाहतशीकराम्भसो गभस्तिभिर्भानुमतोऽभितापिताः । प्रवृद्धतृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥ १५ ॥ हुताग्निकल्पैः सवितुर्मरीचिभिः कलापिनः क्लान्तशरीरचेतसः । न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥ १६ ॥ सभद्रमुस्तं परिपाण्डुकर्दमं सरः खनन्नायतपोत्रमण्डलैः प्रदीप्तभासो रविणा वितापितोरवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूतलम् ॥ १७ ॥ विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात् सरसोऽभितापितः । उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥ १८ ॥ समुद्धृताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसं परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १९ ॥ रविप्रभोद्भिन्नशिरोमणिप्रभो विलोलजिह्वाद्वयलीढमारुतः । विषाग्निसूर्यातपतापितः फणीहुताग्निसूर्यातपतापितः न हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥ सफेनलालावृतवक्त्रसम्पुटं विनिर्गतालोहितजिह्वमुन्मुखम्विनिःसृता । तृषाकुलं निःसृतमद्रिगह्वराद् गवेषमाणं महिषीकुलं जलम् ॥ २१ ॥ पटुतरदवदाहोत्प्लुष्टशष्पप्ररोहाः परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः । दिनकरपरितापक्षीणतोयाः समन्ताद् विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥ २२ ॥ श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् । भ्रमति गवययूथः सर्वतस्तोयमिच्छञ् शरभकुलमजिह्मं प्रोद्धरत्यम्बुकूपात् ॥ २३ ॥ विकचनवकुसुम्भस्वच्छसिन्दूरभासा प्रबलपवनवेगोद्धूतवेगेन तूर्णम् । तरुविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥ २४ ॥ ध्वनति पवनविद्धः var पवनवृद्धः पर्वतानां दरीषु स्फुटति पटुनिनादः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन क्षपयतिग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥ २५ ॥ बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् । परिणतदलशाखानुत्पतत्याशूत्पतन् प्रांशु वृक्षाद् भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥ २६ ॥ गजगवयमृगेन्द्रा वह्निसन्तप्तदेहाः सुहृद इव समेता द्वन्द्वभावं विहाय । हुतवहपरिखेदादाशु निर्गत्य कक्षाद् विपुलपुलिनदेशां निम्नगां संविशन्ति ॥ २७ ॥ कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुजालःसेव्यचन्द्रांशुहारः । व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीतैर्हर्म्यपृष्ठे सुखेन ॥ २८ ॥ ॥ इति ग्रीष्मः ॥ ॥ २ । अथ वर्षा ॥ सशीकराम्भोधरमत्तकुञ्जरस् तडित्पताकोऽशनिशब्दमर्दलः । समागतो राजवदुद्धतद्युतिर् घनागमः कामिजनप्रियः प्रिये ॥ १ ॥ नितान्तनीलोत्पलपत्रकान्तिभिः क्वचित् प्रभिन्नाञ्जनरागसंनिभैःराशिसंनिभैः । क्वचित् सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥ २ ॥ तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं बहुवारिवर्षिणोनववारिवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥ बलाहकाश्चाशनिशब्दभीषणाः var मर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् । सुतीक्ष्णधारापतनोग्रसायकैस् तुदन्ति चेतो नितराम्प्रसभं प्रवासिनाम् ॥ ४ ॥ प्रभिन्नवैदूर्यनिभैस्तृणान्कुरैः समाचिता प्रोत्थितकन्दलीदलैः । विभाति कण्ठे वररत्नभूषिताशुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥ ५ ॥ सदा मनोज्ञं सुरतोत्सवोत्सुकं var स्वनदुत्सवोत्सुकं विकीर्णविस्तीर्णकलापशोभितम् । सविभ्रमालिङ्गनचुम्बनाकुलम्ससम्भ्रमालिङ्गनचुम्बनाकुलम् प्रवृद्धनृत्यम्प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥ ६ ॥ निपातयन्त्यः परितस्तटद्रुमान् प्रवृद्धवेगैः सलिलैरनिर्मलैः । स्त्रियः प्रदुष्टा इव जातविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७ ॥ तृणोद्गमैरुद्धतकोमलाङ्कुरैश् var तृणोत्करैरुद्गतकोमलाङ्कुरैश् चितानि नीलैर्हरिणीमुखक्षतैः । वनानि रम्याणिवैन्ध्यानि हरन्ति मानसं विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥ ८ ॥ विलोलनेत्रोत्पलशोभिताननैर् मृगैः समन्तादुपजातसाध्वसैः । समाचिता सैकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः ॥ ९ ॥ सुतीक्ष्णमुच्चैरसतां var अभीक्ष्णमुच्चैर्ध्वनतां पयोमुचां घनान्धकारीकृतशर्वरीष्वपि । तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥ १० ॥ पयोधरैर्भीमगभीरनिःस्वनैर् var नैस् ध्वनद्भिरुद्वेजितचेतसोतडिद्भिरुद्वेजितचेतसो भृशम् । कृतापराधानपि योषितः प्रियान् परिष्वजन्ते शयने निरन्तरम् ॥ ११ ॥ विलोचनेन्दीवरवारिबिन्दुभिर् निषिक्तबिम्बाधरचारुपल्लवाः । निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥ १२ ॥ विपाण्डवं var विपाण्डुरं कीटरजस्तृणान्वितं भुजङ्गवद् वक्रगतिप्रसर्पितम् । ससाध्वसैर्भेककुलैर्विलोकितंनिरीक्षितं प्रयाति निम्नाभिमुखं नवोदकम् ॥ १३ ॥ प्रफुल्लपत्त्रां var विपन्नपुष्पां नलिनीं समुत्सुकां विहाय भृङ्गाः श्रुतिहारिनिःस्वनाः । पतन्ति मूढाः शिखिनां प्रनृत्यतां कलापचक्रेषु नवोत्पलाशया ॥ १४ ॥ वनद्विपानां नवतोयदस्वनैर् मदान्वितानां ध्वनतां मुहुर्मुहुः । कपोलदेशा विमलोत्पलप्रभाः सभृङ्गयूथैर्मदवारिभिश्चितः ॥ १५ ॥ आतोयनम्राम्बुदचुम्बितोपलाः var सतोयनम्राम्बुदचुम्बितोपलाः समाचिताः प्रस्रवणैः समन्ततः । प्रवृत्तनृत्यैः शिखिभिः समाकुलाः समुत्सुकत्वं जनयन्ति भूधराः ॥ १६ ॥ कदम्बसर्जार्जुनकेतकीवनम् विकम्पयंस्तत्कुसुमाधिवासितः । सशीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥ १७ ॥ शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः । स्तनैः सहारैर्वदनैः ससीधुभिः स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ॥ १८ ॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्रयन्ति । नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गमाः ॥ १९ ॥ प्रक्षिप्तः तडिल्लताः शक्रधनुर्विभूषिताः पयोधरास्तोयभरावलम्बिनः । स्त्रियः स्वकाञ्चीमणिकुण्डलोज्ज्वलास्त्रियश्चकाञ्चीमणिकुण्डलोज्ज्वला हरन्ति चेतो युगपत् प्रवासिनाम् ॥ २० ॥ मालाः कदम्बनवकेसरकेतकीभिर् आयोजितः शिरसि बिभ्रति योषितोऽद्य । कर्णान्तरेषु ककुभद्रुममञ्जरीभिः श्रोत्रानुकूलरचितानवतंसकांश्चैच्छानुकूलरचितानवतंसकांश्च ॥ २१ ॥ कालागरुप्रचुरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः । श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात् प्रविशन्ति नार्यः ॥ २२ ॥ कुवलयदलनीलैरुन्नतैस्तोयनम्रैर् मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः । अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः पथिकजनवधूनां तद्वियोगक्षतानाम्तद्वियोगाकुलानाम् ॥ २३ ॥ मुदित इव कदम्बैर्जातपुष्पैः समन्तात् पवनचलितशाखैः शाखिभिर्नृत्यतीव । हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकः शान्ततापोछिन्नतापो वनान्तः ॥ २४ ॥ शिरसि बकुलमालां मालतीभिः समेतां कुसुमितनवपुष्पैर्यूथिकाकुङ्मलैश्च । विकचनवकदम्बैः कर्णपूरं वधूनां रचयति जलदौघः कान्तवत् काल एषः ॥ २५ ॥ दधति कुचयुगाग्रैरुन्नतैर्हारयष्टिं var पृथुकुचाग्रैरुन्नतैर्हारयष्टिं प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः । नवजलकणसेकादुन्नतांनवजलकणसेकादुद्गतां रोमराजिं त्रिवलिवलितशोभांललितवलिविभङ्गैर् मध्यदेशैश्च नार्यः ॥ २६ ॥ नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम् । जनितसुरभिगन्धःजनितरुचिरगन्धः केतकीनां रजोभिर् अपहरति नभस्वान् प्रोषितानां मनांसि ॥ २७ ॥ जलभरनमितानामश्रयोऽस्माकमुच्चैर् अयमिति जलसेकैस्तोयदास्तोयनम्राः । अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥ २८ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 12 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine