ऋग्भाष्यम्
/ 7
←

Rigbhashyam Kannada PDF & Online Reader (ಋಗ್ಭಾಷ್ಯಮ್)

Rigbhashyam (ऋग्भाष्यम्) by Madhvacharya (मध्वाचार्यः) — Kannada Text & PDF Download

📜 Last Proofread: 15 Sep 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 15 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
श्रीमद्ऋग्भाष्यम् (मूलम् — ऋग्वेदसंहिता) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः)
📖 1.1 ▼
नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम् । सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥ १ ॥ ओमशेषगुणाधार इति नारायणोऽप्यसौ । पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः ॥ २ ॥ गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः । भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः ॥ प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः ॥ ३ ॥ स पूर्णत्वात् पुमान्नाम पौरुषे सूक्त ईरितः । स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च ॥ ४ ॥ स एव सर्वशब्दार्थः इत्याहोपनिषत् परा । ‘यो देवानाम्’ इति श्रुत्या देवनाम्नां विशेषतः । स्पष्टत्वात् तद्गतत्वेन अग्रणीत्वं यदग्नित्वमित्यग्रे नाम तद्भवेत् । (ऋग्भाष्यम्) यथैवाग्न्यादयः शब्दाः प्रवर्तन्ते जनार्दने । तथा निरुक्तिं वक्ष्यामो ज्ञानिनां ज्ञानसिद्धये ॥ ८ ॥ ॥ अग्निसूक्तम् ॥
📖 1.1 ▼
ओ३म् ॥ अग्निमीळेे पुरोहितं यज्ञस्य देवमृत्विजम् ॥ होतारं रत्नधातमम् ॥ १ ॥
📖 2.1 ▼
........अग्निशब्दोऽयमग्र एवाभिपूज्यताम् । अग््रयत्वमग्रनेतृत्वमत्तिमङ्गागनेतृताम् ॥ ९ ॥ आह तं स्तौम्यशेषस्य पूर्वमेव हितं प्रभुम् । ऋत्विङि्नयामकत्वेन यज्ञानामृत्विजं सदा ॥ १० ॥ द्योतनाद्विजयात् कान्त्या स्तुत्या व्यवहृतेरपि । गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः ॥ ११ ॥ अग्निसंस्थेन रूपेण यतोऽग्निर्होतृदेवता । इन्द्रियाग्निषु चार्थानां यद्धोता होतृनामकः ॥ रतिधारकोत्तमत्वात् स रत्नधातम ईरितः ॥ १२ ॥
📖 1.1 ▼
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत ॥ स देवा एह वक्षति ॥ २ ॥
📖 2.1 ▼
स पूर्वैर्नूतर्नैरेष्यैर्विज्ञानादृषिनामकैः । ईड्यो देवादिभिस्सर्वैस्स च देवानिहानयेत् ॥ १३ ॥ ॥
📖 1.1 ▼
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥ ३ ॥
📖 2.1 ▼
तेनैव रयिमाप्नोति वित्तं विद्याधनात्मकम् । दिवसे दिवसे नित्यं पुष्टिमेव न हीनताम् ॥ यशश्च पुत्रसंयुक्तं वीर्यवत्तममेव वा ॥ १४ ॥ ॥
📖 1.1 ▼
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥
📖 2.1 ▼
यं यज्ञं परितो भूत्वा रक्षसि त्वं सदैव च । विधिमार्गस्थितं देवान् स एवाप्नोत्यसंशयम् ॥ १५ ॥
📖 1.1 ▼
अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः ॥ देवो देवेभिरागमत् ॥ ५, १ ॥
📖 2.1 ▼
सोऽखिलग्रहणप्रज्ञः सद्गुणैः सन्ततोऽखिलम् । यमयत्यग््रयकीर्तीनाम् उत्तमो विबुधैः सह । आगन्ताऽखिलभक्तानां पूजास्वीकारतत्परः ॥ १६ ॥ ॥
📖 1.1 ▼
यदङ्ग दाशुषे त्वमग्ने भद्रङ्करिष्यसि ॥ तवेत्तत् सत्यमङ्गिरः ॥ ६ ॥
📖 2.1 ▼
यजमानाय यद्भद्रं कर्तुमिच्छसि सत्प्रिय । त्वच्चेष्टयैव कर्माणि वर्तयित्वा तदीहनम् ॥ १७ ॥ तवैव सत्यमङ्गानां रसयद्वह्निगो हरिः । अङ्गिरा अङ्गिरःपुत्रो यतोऽग्निरभवत् क्वचित् ॥ १८ ॥
📖 1.1 ▼
उप त्वाग्ने दिवेदिवे दोषावस्तर्धियावयम् ॥ नमो भरन्त एमसि ॥ ७ ॥
📖 2.1 ▼
वस्तर्दिनमहोरात्रमभीष्ट प्राणिनां सदा । अल्पा अपि वयं बुद्ध्या त्वामुच्चगुणमीश्वरम् । उपयाम मनःकर्मवाग्भिस्त्वन्नमसम्भराः ॥ १९ ॥
📖 1.1 ▼
राजन्तमध्वराणा ङ्गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥ ८ ॥
📖 2.1 ▼
देदीप्यमानं स्वे सद्मन्यध्वरेशं सदावृधम् । यथार्थज्ञानगोपं त्वामुपेमसि पितेव नः ॥ २० ॥
📖 1.1 ▼
स नः पितेव सूनवेऽग्ने सूपायनो भव ॥ सचस्वानस्स्वस्तये ॥ ९, २, १ ॥
📖 2.1 ▼
सूपाश्रयो भव त्वं च यद्वदौरससूनवे । रक्ष सन्ततसौख्याय सम्यक्सत्त्वाय वा सदा ॥ २१ ॥ ॥ मुनिस्तु सर्वविद्यानां भगवान् पुरुषोत्तमः । विशेषतश्च वेदानां ‘यो ब्रह्माणम्’ इति श्रुतिः ॥ ऋग्वेदादिकमस्यैव श्वसितं प्राह चापरा ॥ २२ ॥ ‘वाचो बभूवुरुशतीर्हयग्रीवात्’ इति स्फुटम् । वचो भागवतेऽप्यस्ति ब्रह्माण्डेऽपि तथा परम् ॥ २३ ॥ हयग्रीवादिमा विद्याः श्वसितत्वेन निःसृताः । ब्रह्मणा स्वीकृतास्ताश्च रुद्रशेषविपा अपि ॥ २४ ॥ दक्षाद्याः सनकाद्याश्च शक्राद्या मनवस्तथा । जगृहुस्ते च विश्वस्मिंश्चक्रुर्व्याप्तास्ततोऽखिलाः ॥ २५ ॥ उक्तं पद्मपुराणे च ‘कपिलो भगवानजः । प्रोवाच ब्रह्मणे विद्याः’ ‘हृदिस्थो बादरायणः ॥ २६ ॥ ओङ्कारपूर्विका विद्याः प्रेरयत्यखिलेष्वपि । सदैव ब्रह्मणे पूर्वम्’ इति सात्वतसंहिता ॥ २७ ॥ सकृन्निगदमात्रेण गृहीतं ब्रह्मणाऽखिलम् । अन्तर्गतस्य व्यासस्य प्रसादान्नित्यशक्तितः ॥ २८ ॥ तेन चानन्तशक्तित्वात् युुगपत् समुदीरितम् । प्रथमप्रतिपत्तृत्वान्मुनिर्ब्रह्माऽखिलस्य च ॥ २९ ॥ सुपर्णोऽखिलवेदानां पञ्चरात्रस्य नागरा । द्वितीयप्रतिपत्तृत्वान्मुनित्वे सम्प्रकीर्तितौ ॥ ३० ॥ यः पश्यति स्वयं वाक्यं स ऋषिस्तस्य कीर्तितः । अर्वाक्तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः ॥ ३१ ॥ यत्स्वयं प्रतिभातस्य संशयार्थं गुरोर्वचः । सुपर्णादेर्विरिञ्चस्य केवलं धर्मकारणम् ॥ ३२ ॥ ऋचामृषिस्ततः शक्रो यजुषां सूर्य एव च । सोमः साम्नां तृतीयास्ते प्रतिपत्तार ईरिताः ॥ ३३ ॥ अथर्वाङ्गिरसामग्निरेकर्षिश्चाप्यथर्वणाम् । इत्युक्ताः समुदायस्य सन्त्यन्ये च पृथक् पृथक् ॥ ३४ ॥ एतज्ज्ञानाददृष्टस्य फलस्याप्तिः स्फुटं भवेत् । द्रष्टॄणां तु चतुर्थानां ज्ञानादप्यैहिकं भवेत् ॥ ३५ ॥ ते चैकस्यापि बहवः स्युः सूक्तस्यर्च एव वा ॥ तस्यां तस्यामवस्थायां तत्तत्प्राप्तिविशेषतः ॥ ३६ ॥ तेषां वाक्यस्वरूपेण प्रार्थनादिषु पश्यति । विष्णुर्ब्रह्मा सुपर्णो वा तत्तद्योग्यार्थभेदतः ॥ ३७ ॥ सर्ववेदाभिमानित्वाच्छ्रीर्ब्रह्माणी च भारती । द्रष्ट्र्यश्च सर्वविद्यानां व्याख्यातो ब्रह्मणा मरुत् ॥ ३८ ॥ स्वभर्त्रनन्तरं द्रष्ट्र्यस्तेभ्यस्तन्नोदिता हिरुक् । ताः स्तुवन्ति हरिं नित्यं विद्याभिस्ते च सर्वशः ॥ ३९ ॥ छन्दस्त्वेन मुनित्वेन तासां स्मृतिरुदीरिता । स्मर्तव्यास्ते च सर्वेऽपि मुनित्वेन पृथक्पृथक् ॥ ४० ॥ गायत्री बृहती चैव ताः सर्वा गरुडस्तथा । ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टप् स्वाहेति चोच्यते ॥ ४१ ॥ गायत्री जगती चैव वारुणी रोहिणी तथा । अनुष्टुप् बृहती चैव तारा पङ्क्तिः शची तथा ॥ ४२ ॥ उष्णिक् सौरी जगत्यश्च सर्वदेवस्त्रियो मताः । विराण्मित्रावरुणयोर्भार्ये इति च कीर्तिते ॥ ४३ ॥ अतिछन्दांसि सर्वाणि सर्वदेव्यः प्रकीर्किताः । विराडिति च नामासां तास्ता ऊनाधिकेष्वपि ॥ ४४ ॥ निचृद् भुरिग् विरा सञ्ज्ञा प्रस्तारेत्यादि नाम च । बह्वीनामेकमानेन त्वेकं नाम च युज्यते ॥ सर्वाभिमानिता चैव तिसृणां तु यथाक्रमम् ॥ ४५ ॥ देवता सर्वविद्यानां स्वयं नारायणः प्रभुः । ऋते तत्र प्रसिद्धाश्च देवता श्रीस्तथाऽत्र च ॥ ४६ ॥ ऋते प्रसिद्धा ब्रह्मैव ततस्तेन क्रमेण च । पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः ॥ ४७ ॥ ब्रह्मवायू गिरौ वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ कामपुत्रमनुदक्षाङ्गिरस्सुताः ॥ ४८ ॥ तद्वच्छची रतिः सूर्यसोमधर्मादितत्स्त्रियः । प्रधानमरुतो वारिपतिरग्निश्च मारुताः ॥ ४९ ॥ निर्ऋतिः स्त्रियश्च सूर्यादेरश्विनावितरे तथा । अनन्तकोटिशतकदशार्धाद्यंशतः क्रमात् ॥ ५० ॥ ज्ञानभक्तिबलैश्वर्यपूर्वाखिलगुणैरपि । मुक्तावपि क्रमो ह्येष देवता उदिता इमाः ॥ ५१ ॥ इन्द्रावरा विशेषेण लिङ्गेनैव पृथक्पृथक् । देवतास्तत्र तत्र स्युरेष एव परो विधिः ॥ ५२ ॥ वेदादिवर्णपर्यन्तैर्मूर्तयः केशवस्य तु । समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक् । यथायोगं यथान्यायमन्यासामपि मूर्तयः ॥ ५३ ॥ ऋक्संहितायां स्वाध्याये निरुक्ते व्यासनिर्मिते । प्रवृत्ते चैतदखिलमुक्तं हि प्रभुणा स्वयम् ॥ ५४ ॥ ‘सर्वे वेदाश्च’ ‘नामानि’ ‘ता वा एता ऋचस्तथा । ‘इन्द्रं मित्रं वरुणम्’ इत्याद्यत्र प्रमा परा ॥ ५५ ॥ देवतातारतम्यं च सर्वोत्कृष्टं च केशवम् । ज्ञात्वैव मुच्यते ह्यस्मान्नान्यथा तु कथञ्चन ॥ ५६ ॥ इति पैङ्गिश्रुतिश्चाह दृश्यतेऽत्र च सर्वशः । ‘न ते महित्वम्’ इत्यादिनैश्वरानेव केवलान् । गुणान् विष्णोः श्रुतिर्ह्याह नैव दोषान् कथञ्चन ॥ ५७ ॥ ‘जाता परिबभूव’ इति मर्यादां ब्रह्मणोऽपि हि । ‘नैव रेमे बिभेद् ब्रह्मा ‘नासीत्’ इत्यादिकानपि ॥ ५८ ॥ दोषान् रुद्रे च तानेव ‘न मिनन्ति’ इति पूर्वकान् । ‘यं कामये तं तमुग्रं’ ‘रुद्राय धनुः’ इत्यपि ॥ ५९ ॥ ‘अस्य देवस्य’ ‘मा शिश्नदेवा अपि गुः’ इत्यपि । ‘घ्नञ्छिश्नदेवान्’ इत्याद्या दोषा बहव ईरिताः ॥ ६० ॥ ‘ततो वितिष्ठे योनिः’‘स एतावत्यहम्’ इत्यपि । अन्याश्रयत्वं देव्याश्च कथितं बहुशोऽपि हि । तदाश्रयत्वमन्येषामपि तत्रैव निश्चयात् ॥ ६१ ॥ ‘ब्रह्मैवाग्रे’ इति ह्युक्त्वा रुद्रादीनां ततो जनिः । उक्ता जातानि विश्वानि स पर्यभवदित्यपि । ‘यस्य च्छायामृतं मृत्युः’ इति चादरतोऽब्रवीत् ॥ ६२ ॥ अनन्तादवरेशाना तस्याः प्राणस्ततश्च वाक् । तस्या रुद्र उमा तस्मादिन्द्रस्तस्यास्ततोऽपरे । सौपर्णश्रुतिरित्याह सप्ताक्षितय इत्यपि ॥ ६३ ॥ वायुरस्मा उपामन्थद् विश्वदेवाय वायवे । विश्वैर्देवैः स इत्याद्याः प्रमा अत्रापरा अपि ॥ ६४ ॥ नारायणोऽदितिर्वायुर्वाणी रुद्र उमा विभुः । इतरे च क्रमाद्धीनाः शतांशाद्वायुतोऽवराः ॥ ६५ ॥ ‘अयं त एमि तन्वेति’ पूर्वा अन्या अपि स्फुटम् ॥ वायोराधिक्यमप्याहुः इन्द्रं सोमं हुताशनम् ॥ ६६ ॥ सूर्यं रुद्रमिमान्् पञ्च देवानेको महात्मनः । सृजत्यत्ति महान्प्राण इति चाह तुरश्रुतिः ॥ ६७ ॥ ‘वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । न यस्येन्द्रः’ इति ह्याह विष्णोरिन्द्रस्य हीनताम् ॥ ६८ ॥ ‘वेधा अजिन्वत्’ इत्यादि वचनं विष्णुनामतः । आनन्दश्रुतिरप्यस्य जीवतामेव दर्शयेत् ॥ ६९ ॥ आह सूर्यादपीन्द्रस्य वायोर्विष्णोरपीशताम् । ‘यः सूर्यं य उषसम्’ ‘म्रियन्ते पञ्च देवताः’ ॥ ७० ॥ ‘चक्षुषा द्यौश्चादित्यश्च’ ‘चक्षोः सूर्यो अजायत’ । ‘यमादित्यो न वेद’ इति पूर्वा श्रुतिरथापरा ॥ ७१ ॥ ‘विष्णोर्वातोऽजनिष्ट वातादिन्द्रस्ततो रविः । सोमश्चेति लयोऽप्येवं पूर्वे पूर्वे गुणाधिकाः’ ॥ ७२ ॥ ‘विष्णोः प्राणो अजनिष्ट प्राणादिन्द्रो रविर्विधुः । लयोऽप्येतादृशस्तेषां पूर्वः पूर्वो गुणाधिकः’ ॥ ७३ ॥ तुरश्रुतिश्च सौपर्णी पिङ्गश्रुतिरपीदृशी । अतः सर्वाधिको विष्णुर्निर्णीतः श्रुतिसञ्चयात् ॥ ७४ ॥ अतो दोषवचो यत्र तद्वाक्यमवरं वदेत् । निर्दोषतैव विष्णोस्तु क्रमान्मध्यगतेष्वपि ॥ ७५ ॥ ‘त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम्’ ॥ ७६ ॥ इति स्कान्दवचो यस्मादर्थभेदव्यपेक्षया । निर्दोषत्वं हरेर्वक्ति दोषमन्येष्वपि क्रमात् ॥ ७७ ॥ तारतम्यस्य विज्ञप्त्यै वचो दोषस्य चार्थवत् । ‘गुणाः श्रुताः’ इति ह्याह गुणैकनियतिं हरौ ॥ ७८ ॥ ‘निर्दोषगुणपूर्णश्च विष्णुरेको न चापरः । अपूर्णा दोषरहिता मायैका तद्वशैव च ॥ ७९ ॥ अदोषः प्रायशो ब्रह्मा दोषवन्तः क्रमात् परे’ । इति मान्यश्रुतिश्चाह भेदोऽर्थानां ततो मतः ॥ ८० ॥ रूढिमेव समाश्रित्य विभज्यार्थान् यथाक्रमम् । विदोषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत् ॥ ८१ ॥ पश्चादेव यथायोगमितरेष्वपि संनयेत् । ऋग्वेदसंहितायां च प्रभुणैवं समीरितम् ॥ ८२ ॥ पृथग्रूपाणि विष्णोस्तु देवतान्तरगाणि च । अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥ ८३ ॥ ‘नकिर्माकिः स्मसि’ इत्यादि प्रोक्ताऽधिक्यविवक्षया । ‘आधिक्येऽधिकम्’ इत्येव हरिणा सूत्रमीरितम् ॥ ८४ ॥ ‘कृत्वी हत्वी’ इति पूर्वाश्च ‘तृतीयोऽतिशये’ यतः । विश्लिष्टार्थे च विश्लिष्टमूनार्थे चोनमिष्यते । व्यत्ययोऽभेदकरणस्वातन्त्र्येषु समीरितः ॥ ८५ ॥ अभेदो हरिरूपाणां गुणानां च क्रियासु च । तस्यैवावयवानां च भेदः श्रीब्रह्मपूर्वकैः ॥ ८६ ॥ मुक्तैरपि जडैर्भेदः कैमुत्यादेव दृश्यते । ऋग्वेदसंहितायां च प्रोक्तमेतत्समस्तशः ॥ ८७ ॥ अभेदः स्वगुणाद्यैश्च मुक्तानामपि सर्वशः । भेदाभेदस्त्वभेदश्च गुणैः संसारिणामपि । जडानामंशतो भेदः समुदायेन चोभयम् ॥ ८८ ॥ मनुष्यगन्धर्वपितृगणकार्मिकतात्विकाः । देवाः शक्रः शिवो ब्रह्मा मुक्तौ सौख्यादिभिर्गुणैः ॥ ८९ ॥ शतायुतोत्तरा नित्यमन्योन्यप्रीतिसंयुताः । ’इति सिद्धान्तगं वाक्यं स्वयं भगवतेरितम् ॥ ९० ॥ स्वाध्यायस्तत्त्वविज्ञानं विष्णुभक्तिर्विरागता । निषिद्धकर्मसन्त्यागो विहितस्य सदा क्रिया ॥ ९१ ॥ सदा विष्णुस्मृतिश्चैव केवलं मोक्षसाधनम् । एतैर्विना न मोक्षः स्याद्भवेदेतैरपि ध्रुवम् ॥ ९२ ॥ ‘ऋषिच्छन्दोदैवतानि ज्ञात्वाऽर्थं चैव भक्तितः । स्वाध्यायेनैव मोक्षः स्याद्विरक्तस्य हरिस्मृतेः’ ॥ ९३ ॥ ‘जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥’ ९४ ॥ ‘तस्मान्नित्यं हरिं ध्यायन्कुर्यात् स्वाध्यायमञ्जसा ।’ ‘ऐहिकामुष्मिका भोगा रक्तस्यान्यस्तु मुच्यते ।’ इति स्वाध्यायवचनं स्वयं भगवतोदितम् ॥ ९५ ॥ स्वाध्यायात्तु प्रवचने सहस्रगुणितं फलम् । अर्थद्रष्टुः कोटिगुणं ततोऽनन्तं नियामके ॥ ९६ ॥ तर्कागमाभ्यां नियतिं यः करोत्यधिकं ततः । पूर्णं वेदाखिलद्रष्टुर्ब्रह्मणः फलमुच्यते ॥ । ९७ ॥ स्तुत्यधर्मस्य भेदेन पदाद्यादिस्वरे भिदा । साधारणो विधिस्त्वेष विशेषो यत्र यत्र च ॥ ९९ ॥ क्रमादेव तदन्येषामृष्यादीनां स्वयोग्यतः । विपर्ययार्थकथने विपरीतं तथा तमः ॥ १०० ॥ यावत्प्रयोजको ज्ञाने तावत्तावच्छुभाधिकः । तथैव विपरीतेऽपि स्मृतौ ज्ञाने च तत्समम् ॥ १०१ ॥ तमोनिरयमानुष्यस्वर्गमोक्षातिरेकतः । योग्यतातारतम्येन फलं सर्वेषु चोच्यते । इति प्रवृत्तवचनं विवेकेऽप्येतदीरितम् ॥ १०२ ॥ यादृशो योग्यतां यायात् स ज्ञेयोऽर्थस्तथा स्फुटम् । अनन्तनियमैर्युक्ता अनन्तार्थविशेषिणः । वेदा इति समासेन नियमोऽयं समीरितः ॥ १०३ ॥ ऋक्संहितागतं वाक्यमिति चान्यन्नियामकम् । तस्माद्वन्द्याश्च पूज्याश्च ब्रह्माद्या ज्ञानयोजकाः । गुरुत्वेन क्रमादेव विशेषेणैव केशवः ॥ १०४ ॥ आरभ्य स्वगुरुं यावद्विष्णुरेवोत्तरोत्तराः । क्रमान्निष्फलताऽन्यत्र गुरुतत्त्वे समीरिता ॥ १०५ ॥ एवं स्थितेऽग्निगं विष्णुमग्निनामानमेव च । मधुच्छन्दा ऋक्शतेन वाय्वादिगतमेव च । साग्न्यादिं स्तौति सद्भक्त्या तत्तन्नामानमेव च ॥ १०६ ॥ ॥ वायुसूक्तम् ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 15 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine