रामायणम्
/ 216
←

Ramayanam Tamil PDF & Online Reader (ராமாயணம்)

Ramayanam (रामायणम्) by महर्षिवाल्मीकिः — Tamil Text & PDF Download

📜 Last Proofread: 22 Oct 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 22 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १ ॥ को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ २ ॥ चारित्रेण च को युक्तः सर्वभूतेषु को हितः । विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥ ३ ॥ आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ ४ ॥ एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ ५ ॥ श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः । श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ ६ ॥ बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥ ७ ॥ इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥ ८ ॥ बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः । विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥ ९ ॥ महोरस्को महेष्वासो गूढजत्रुररिन्दमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥ १० ॥ समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः ॥ ११ ॥ धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥ १२ ॥ रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ १३ ॥ सर्वशास्त्रार्थतत्त्वज्ञ स्मृतिमान्प्रतिभानवान् । सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥ १४ ॥ सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः । आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः ॥ १५ ॥ स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १६ ॥ विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १७ ॥ धनदेन समस्त्यागे सत्ये धर्म इवापरः । तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ॥ १८ ॥ ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ॥ १९ ॥ तस्याभिषेकसम्भारान्दृष्ट्वा भार्याथ कैकयी । पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ॥ २० ॥ स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥ २१ ॥ स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ २२ ॥ तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥ २३ ॥ सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः । सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ २४ ॥ पौरैरनुगतो दूरं पित्रा दशरथेन च । शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ॥ २५ ॥ ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः । चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ २६ ॥ रम्यमावसथं कृत्वा रममाणा वने त्रयः । देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् ॥ २७ ॥ चित्रकूटं गते रामे पुत्रशोकातुरस्तदा । राजा दशरथः स्वर्गं जगाम विलपन्सुतम् ॥ २८ ॥ मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः । नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः । स जगाम वनं वीरो रामपादप्रसादकः ॥ २९ ॥ पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः । निवर्तयामास ततो भरतं भरताग्रजः ॥ ३० ॥ स काममनवाप्यैव रामपादावुपस्पृशन् । नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥ ३१ ॥ रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह ॥ ३२ ॥ विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह । सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा ॥ ३३ ॥ अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् । खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ ३४ ॥ वसतस्तस्य रामस्य वने वनचरैः सह । ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ॥ ३५ ॥ तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ ३६ ॥ ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ ३७ ॥ निजघान रणे रामस्तेषां चैव पदानुगान् । रक्षसां निहतान्यासन्सहस्राणि चतुर्दश ॥ ३८ ॥ ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः । सहायं वरयामास मारीचं नाम राक्षसम् ॥ ३९ ॥ वार्यमाणः सुबहुशो मारीचेन स रावणः । न विरोधो बलवता क्षमो रावण तेन ते ॥ ४० ॥ अनादृत्य तु तद्वाक्यं रावणः कालचोदितः । जगाम सहमारीचस्तस्याश्रमपदं तदा ॥ ४१ ॥ तेन मायाविना दूरमपवाह्य नृपात्मजौ । जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥ ४२ ॥ गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् । राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ॥ ४३ ॥ ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् । मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ॥ ४४ ॥ कबन्धं नाम रूपेण विकृतं घोरदर्शनम् । तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥ ४५ ॥ स चास्य कथयामास शबरीं धर्मचारिणीम् । श्रमणीं धर्मनिपुणामभिगच्छेति राघव । सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ ४६ ॥ शबर्या पूजितः सम्यग्रामो दशरथात्मजः । पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥ ४७ ॥ हनुमद्वचनाच्चैव सुग्रीवेण समागतः । सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ ४८ ॥ ततो वानरराजेन वैरानुकथनं प्रति । रामायावेदितं सर्वं प्रणयाद्दुःखितेन च । वालिनश्च बलं तत्र कथयामास वानरः ॥ ४९ ॥ प्रतिज्ञातं च रामेण तदा वालिवधं प्रति । सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ ५० ॥ राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् । पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ॥ ५१ ॥ बिभेद च पुनः सालान्सप्तैकेन महेषुणा । गिरिं रसातलं चैव जनयन्प्रत्ययं तदा ॥ ५२ ॥ ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः । किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ ५३ ॥ ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः । तेन नादेन महता निर्जगाम हरीश्वरः ॥ ५४ ॥ ततः सुग्रीववचनाद्धत्वा वालिनमाहवे । सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ ५५ ॥ स च सर्वान्समानीय वानरान्वानरर्षभः । दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ ५६ ॥ ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली । शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ ५७ ॥ तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् । ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ५८ ॥ निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ५९ ॥ पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ६० ॥ अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् । मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया ॥ ६१ ॥ ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ ६२ ॥ सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ ६३ ॥ ततः सुग्रीवसहितो गत्वा तीरं महोदधेः । समुद्रं क्षोभयामास शरैरादित्यसंनिभैः ॥ ६४ ॥ दर्शयामास चात्मानं समुद्रः सरितां पतिः । समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ ६५ ॥ तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे । अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ ६६ ॥ कर्मणा तेन महता त्रैलोक्यं सचराचरम् । सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ ६७ ॥ तथा परमसन्तुष्टैः पूजितः सर्वदैवतैः । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ ६८ ॥ देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् । पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥ ६९ ॥ नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः । रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ७० ॥ प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । निरायमो अरोगश्च दुर्भिक्षभयवर्जितः ॥ ७१ ॥ न पुत्रमरणं केचिद्द्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ७२ ॥ न वातजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः । न चाग्रिजं भयं किञ्चिद्यथा कृतयुगे तथा ॥ ७३ ॥ अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः । गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ॥ ७४ ॥ राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः । चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति ॥ ७५ ॥ दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ७६ ॥ इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् । यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ ७७ ॥ एतदाख्यानमायुष्यं पठन्रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ ७८ ॥ पठन्द्विजो वागृषभत्वमीयात्स्यात्क्षत्रियो भूमिपतित्वमीयात् । वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ ७९ ॥ नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिः ॥ १ ॥ यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ २ ॥ स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥ ३ ॥ स तु तीरं समासाद्य तमसाया महामुनिः । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥ ४ ॥ अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ ५ ॥ न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥ ६ ॥ एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥ ७ ॥ स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ॥ ८ ॥ तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ॥ ९ ॥ तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः ॥ १० ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 22 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine