रघुवंशम्
/ 22
←

Raghuvamsham English (IAST) PDF & Online Reader (raghuvaṃśam)

Raghuvamsham (रघुवंशम्) by Kalidasa (कालिदासः) — English (IAST) Text & PDF Download

📜 Last Proofread: 07 Sep 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 07 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
वागर्थाव् इव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर् दुस्तरं मोहाद् उडुपेनास्मि सागरम् ॥ मन्दः कवियशः प्रार्थी गमिष्याम्य् उपहास्यताम् । प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः ॥ अथ वा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ सोऽहम् आजनमशुद्धानाम् आफलोदयकर्मणाम् । आसमुद्रक्षितीशानाम् आनाकरथवर्त्मनाम् ॥ यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रभोधिनाम् ॥ त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषुणां प्रजायै गृहमेन्धिनाम् ॥ शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्ध्हके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णम् आगत्य चापलाय प्रचोदितः ॥ तं सन्तः श्रोतुम् अर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्य् अग्नौ विशुद्धिः श्यामिकापि वा ॥ वैवसतो मनुर् नाम माननीयो मनीषिणाम् । आसीन् महीक्षिताम् आद्यः प्रणवश् छन्दसाम् इव ॥ तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुर् इन्दुः क्षीरनिधाव् इव ॥ व्यूढोरस्को वृषस्कन्धः शालप्रांशुर् महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ सर्वातिरितसारेण सर्वतेजोऽभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुर् इवात्मना ॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ[ः] आरम्भसदृशोदयः ॥ भीमकान्तैर् नृपगुणैः स भभूवोपजीविनाम् । अधृष्यश् चाभि गम्यश् च याधोरत्नैर् इवार्णवः ॥ रेखामात्रम् अपि क्षुण्णाद् आ मनोर् वर्त्मनः परम् । न व्यतीयुः प्रजास् तस्य नियन्तुर् नेमिवृत्तयः ॥ प्रजानाम् एव भूत्य् अर्थं स ताब्य्हो बलिम् अग्रहीत् । सहस्रगुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः ॥ सेना परिच्छदस् तस्य द्वयम् एवार्थसाधनम् । शास्त्रेष्व् अकुण्ठिता बुद्धिर् मौर्वी धनुषि चातता ॥ तस्य संवृतमन्त्रस्य गूधाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ जुगोपात्मानम् अत्रस्तो भेजे धर्मम् अनातुरः । अगृध्नुर् आददे सोऽर्थम् असक्तः सुखम् अन्वभूत् ॥ ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव ॥ अनाकृष्टस्य विषयैर् विद्यानां पारदृश्वनः । तस्य धर्मरतेर् आसीद् वृद्धत्वं जरसा विना ॥ प्रजानां विनयाधानाद् रक्षणाद् भरणाद् अपि । स पिता पितरस् तासां केवलं जन्महेतवः ॥ स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये । अप्य् अर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ दुधोह गां स यज्ञाय सस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर् भुवनद्वयम् ॥ न किलानुययुस् तस्य राजानो रक्षितुर् यशः । व्यावृत्त यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ द्वेष्योऽपि संमतः शिष्टस् तस्यार्तस्य यथौषधम् । त्वाज्यो दुष्टः प्रियोऽप्य् आसीद् अङ्गुलीवोरगक्षता ॥ तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन् परार्थैकफला गुणाः ॥ स वेलावप्रवलयां परिखीकृतसागराम् । अनन्याशासनाम् उर्वीं शशासैकपुरीम् इव ॥ तस्य दाक्षिण्यरुढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्य् आसीद् अध्वरस्येव दक्षिणा ॥ कलत्रवन्तम् आत्मानम् अवरोधे महत्य् अपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ तस्याम् आत्मानुरूपायाम् आत्मजन्मसमुत्सुकः । विलम्बितफलैः कालं स निनाय मनोरथैः ॥ सन्तानार्थाय विधये स्वभुजाद् अवतारिता । तेन धूर् जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमाम् । इच्छता सन्ततिं न्यस्ता तेन मन्त्रिषु कोसला ॥ अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दम्पती वसिष्ठस्य गुरोर् जग्मतुर् आश्रमम् ॥ स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनम् आस्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताव् इव ॥ मा भूद् आश्रमपीडेति परिमेयपुरःसरौ । अनुभावविशेषात् तु सेनापरिवृताव् इव ॥ सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर् वातैर् आधूतवनराजिभिः ॥ मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ परपराक्षिसादृश्यम् अदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ श्रेणीबन्धाद् वितन्वद्भिर् अस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्राधैः क्वचिद् उन्नमिताननौ ॥ पवनस्यानुकूलत्वात् प्रार्थनासिद्धिशंसिनः । रजोभिस् तुरगोत्कीर्णैर् अस्पृष्टालवेष्टनौ ॥ सरसीष्व् अरविन्दानां वीचिविक्षोभशीतलम् । आमोदम् उपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ ग्रामेष्व् आत्मविषृटेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्ताव् अर्घ्यानुपदम् आशिषः ॥ हैयङ्गवीनम् आदाय घोषवृद्धान् उपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ काप्य् अभिख्या तयोर् आसीद् व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर् योगे चित्राचन्द्रम्सोर् इव ॥ तत् तद् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः । सायं संयमिनस् तस्य महर्षेर् महिषीसखः ॥ स दुष्प्रापयशाः प्रापद् आश्रमं श्रान्तवाहनः । सायं संयमिनस् तस्य महर्षेर् महिषीसखः ॥ वनान्तराद् उपावृत्तैः समित्कुशफलहरैः । पूर्यमाणम् अदृश्याग्निप्रत्युद्यातैस् तपस्विभिः ॥ आकीर्णम् ऋषिपत्नीनाम् उटजद्वाररोधिभिः । अपत्यैर् इव नीवारभागधेयोचितैर् मृगैः ॥ सेकान्ते मुनिकन्याभिस् तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहङ्गानाम् आलवालाम्बुपायिनाम् ॥ आतपातयसङ्क्शिप्तनीवारासु निषादिभिः । मृगैर् वर्तितरोमन्थम् उटजाङ्गनभूमिषु ॥ अभ्युत्थिताग्निपिशुनैर् अतिथीन् आश्रमोन्मुखान् । पुनानं पवनोद्धूतैर् धूमैर् आहुतिगन्धिभिः ॥ अथ यन्तारम् आदिष्य धुर्यान् विश्रमयेति सः । ताम् अवारोपयत् पत्नीं रथाद् अवततार च ॥ तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणाम् अर्हते चक्रुर् मुनयो नयचक्षुषे ॥ विधेः सायन्तनस्यान्ते स ददर्श तपोन्धिम् । अन्वासितम् अरुन्धत्या स्वाहयेव हविर्भुजम् ॥ तयोर् जगृहतुः पादान् राजा राज्ञी च मागधी । तौ गुरुर् गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ तम् आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ अथ्; आथर्वनिधेस् तस्य विजितारिपुरः पुरः । अर्थ्याम् अर्थपतिर् वाचम् आददे वदतां वरः ॥ उपपन्नं ननु शिवं सप्तस्व् अङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिहर्ता त्वम् आपदाम् ॥ तव मन्त्रकृतो मन्त्रैर् दूरात् प्रासमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्तलक्षभिदः शराः ॥ हविर् आवर्जितं होतस् त्वया विधिवद् अग्निषु । वृष्टिर् भवति सस्यानाम् अवग्रहविशोषिणाम् ॥ पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन् मदीयाः प्रजास् तस्य हेतुस् त्वद्ब्रह्मवर्चसम् ॥ त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥ किं तु वध्वां तवैतस्याम् अदृष्टसदृशप्रजम् । न माम् अवति सद्वीपा रत्नसूर् अपि मेदिनी ॥ नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासङ्ग्रहतत्पराः ॥ मत्परं दुर्लभं मत्वा नूनम् आवर्जितं मया । पयः पूर्वैः स्वनिःश्वासैः कवोष्णम् उपभुज्यते ॥ सोऽहम् इज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश् चाप्रकाशस् च लोकालोक इवाचलः ॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ तया हीनं विधातर् मां कथं पश्यन् न दूयसे । सिक्तं स्वयम् इव स्नेहाद् वन्ध्यम् आश्रमवृक्षकम् ॥ असह्यपीडं भगवन्न् ऋणम् अन्त्यम् अवेहि मे । अरुन्तुदम् इवालानम् अनिर्वाणस्य दन्तिनः ॥ तस्मान् मुच्ये यथा तात संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रम् ऋषिस् तस्थौ सुप्तमीन इव ह्रदः ॥ सोऽपश्यत् प्रणिधानेन सन्ततेः स्तम्भकारणम् । भावितात्मा भुवो भर्तुर् अथैनं प्रत्यबोधयत् ॥ पुरा शक्रम् उपस्थाय तवोर्वीं प्रति यास्यतः । आसीत् कल्पतरुच्छायाम् आश्रिता सुरभिः पथि ॥ धर्मलोपभयाद् राज्ञीम् ऋतुस्नाताम् इमां स्मरन् । प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ॥ अवजानासि मां यस्माद् अतस् ते न भविष्यति । मत्प्रसूतिम् अनाराध्य प्रजेति त्वां शशाप सा ॥ स शापो न त्वया राजन् न च सारथिना श्रुतः । नदत्य् आकाशङ्गायाः स्रोतस्य् उद्दामदिग्गजे ॥ ईप्सितं तदवज्ञानाद् विद्धि सार्गलम् आत्मनः । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः । भुजङ्गपिहितद्वारं पातालम् अधितिष्ठति ॥ सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सप्त्नीकः प्रीता कामदुघा हि सा ॥ इति वादिन एवास्य होतुर् आहुतिसाधनम् । अनिन्द्या नन्दिनी नाम धेनुर् आववृते वनात् ॥ ललाटोदयम् आभुग्नं पल्लवस्निग्धपाटला । बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥ भुवं कोष्णेन कुण्शोध्नी मेध्येनावभृथाद् अपि । पस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ रजःकणैः खुरोद्धूतैः स्पृशद्भिर् गात्रम् अन्तिकात् । तीर्थाभिषेकजां शुद्धिम् आदधाना महीक्षितः ॥ तां पुण्यदर्शनां दृष्त्वा निमित्तज्ञस् तपोनिधिः । याज्यम् आशंसितावन्ध्य प्रार्थनं पुनर् अब्रवीत् ॥ अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ वन्यवृत्तिर् इमां शश्वद् (?) आत्मानुगमनेन गाम् । विद्याम् अभ्यसनेनेव प्रसादयितुम् अर्हसि ॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिम् आचरेः । निषण्णायां निषीदास्यां पीताम्भसि पिबेर् अपः ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 07 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine