पादुकासहस्रम्
/ 20
←

Padukasahasram Telugu PDF & Online Reader (పాదుకాసహస్రమ్)

Padukasahasram (पादुकासहस्रम्) by Vedanta Desika (वेदान्तदेशिकः) — Telugu Text & PDF Download

📜 Last Proofread: 12 Oct 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 12 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
श्रीरङ्गनाथपादुकासहस्रम् श्रीः । श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः । श्रीमते निगमान्तमहादेशिकाय नमः । पादुकासहस्रस्य अनुक्रमणिका पद्धति क्रमांक सूची (श्लोकसङ्ख्या) १. प्रस्तावपद्धतिः (२०) २. समाख्यापद्धतिः (१०) ३. प्रभावपद्धतिः (७०) ४. समर्पणपद्धतिः (२०) ५. प्रतिप्रस्थानपद्धतिः (२०) ६. अधिकारपरिग्रहपद्धतिः (४०) ७. अभिषेकपद्धतिः (३०) ८. निर्यातनापद्धतिः (३०) ९. वन्दिवैतालिकपद्धतिः (१०) १०. श‍ृङ्गारपद्धतिः (१०) ११. सञ्चारपद्धतिः (६०) १२. पुष्पपद्धतिः (३०) १३. परागपद्धतिः (३०) १४. नादपद्धतिः (१००) १५. रत्नसामान्यपद्धतिः (५०) १६. बहुरत्नपद्धतिः (५०) १७. पद्मरागपद्धतिः (३०) १८. मुक्तापद्धतिः (५०) १९. मरतकपद्धतिः (२०) २०. इन्द्रनीलपद्धतिः (३०) २१. बिम्बप्रतिबिम्बपद्धतिः (२०) २२. काञ्चनपद्धतिः (२०) २३. शेषपद्धतिः (१०) २४. द्वन्द्वपद्धतिः (२०) २५. सन्निवेशपद्धतिः (२०) २६. यन्त्रिकापद्धतिः (१०) २७. रेखापद्धतिः (१०) २८. सुभाषितपद्धतिः (१०) २९. प्रकीर्णकपद्धतिः (८०) ३०. चित्रपद्धतिः (४०) ३१. निर्वेदपद्धतिः (२०) ३२. फलपद्धतिः (३८) श्रीरङ्गनाथ दिव्यमणिपादुकाभ्यां नमः । श्रीमते रामानुजाय नमः । श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ १. प्रस्तावपद्धतिः (२०) सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः । जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥ १.१॥ १॥ भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् । यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥ १.२॥ २॥ वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्ती- माम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् । पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तु- स्त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥ १.३॥ ३॥ दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना पादन्यासं प्रथममनया भारती यत्र चक्रे । var मनघा योगक्षेमं सकलजगतां त्वय्यधीनं स जान- न्वाचं दिव्यां दिशतु वसुधाश्रोत्रजन्मा मुनिर्मे ॥ १.४॥ ४॥ नीचेऽपि हन्त मम मूर्धनि निर्विशेषं तुङ्गेऽपि यन्निवेशते निगमोत्तमाङ्गे । प्राचेतसप्रभृतिभिः प्रथमोपगीतं स्तोष्यामि रङ्गपतिपादुकयोर्युगं तत् ॥ १.५॥ ५॥ धत्ते मुकुन्दमणिपादुकयोर्निवेशा- द्वल्मीकसम्भवगिरां समतां ममोक्तिः । गङ्गाप्रवाहपतितस्य कियानिव स्या- द्रथ्योदकस्य यमुनासलिलाद्विशेषः ॥ १.६॥ ६॥ विज्ञापयामि किमपि प्रतिपन्नभीतिः प्रागेव रङ्गपतिविभ्रमपादुके त्वाम् । वक्तुं क्षमाः सदसती विगताभ्यसूयाः var व्यङ्क्तुं सन्तः स्पृशन्तु सदयैर्हृदयैः स्तुतिं ते ॥ १.७॥ ७॥ अश्रद्दधानमपि नन्वधुना स्वकीये स्तोत्रे नियोजयसि मां मणिपादुके त्वम् । देवः प्रमाणमिह रङ्गपतिस्तथात्वे तस्यैव देवि पदपङ्कजयोर्यथा त्वम् ॥ १.८॥ ८॥ यदाधारं विश्वं गतिरपि च यस्तस्य परमा तमप्येका धत्से दिशि वरगतिं तस्य रुचिराम् । var दिशसि च गतिं कथं सा कंसारेर्द्रुहिणहरदुर्बोधमहिमा कवीनां क्षुद्राणां त्वमसि मणिपादु स्तुतिपदम् ॥ १.९॥ ९॥ श्रुतप्रज्ञासम्पन्महितमहिमानः कतिकति स्तुवन्ति त्वां सन्तः श्रुतिकुहरकण्डूहरगिरः । अहं त्वल्पस्तद्वदिह बहु च जल्पामि तदपि var त्वल्पस्तद्वद्यदिह त्वदायत्तं रङ्गक्षितिरमणपादावनि विदुः ॥ १.१०॥ १०॥ यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो var यदेषां महिम्नः का हानिस्तव मम तु सम्पन्निरवधिः । शुना लीढा कामं भवतु सुरसिन्धुर्भगवती तदेषा किम्भूता स तु सपदि सन्तापरहितः ॥ १.११॥ ११॥ मितप्रेक्षालाभक्षणपरिणमत्पञ्चषपदा मदुक्तिस्त्वय्येषा महितकविसंरम्भविषये । न कस्येयं हास्या हरिचरणधात्रि क्षितितले मुहुर्वात्याधूते मुखपवनविस्फूर्जितमिव ॥ १.१२॥ १२॥ निःसन्देहनिजापकर्षविषयोत्कर्षोऽपि हर्षोदय- प्रतूहक्रमभक्तिवैभवभवद्वैयात्यवाचालितः । var प्रत्यूढ रङ्गाधीशपदत्रवर्णनकृतारम्भैर्निगुम्भैर्गिरां नर्मास्वादिषु वेङ्कटेश्वरकविर्नासीरमासीदति ॥ १.१३॥ १३॥ रङ्गक्ष्मापतिरत्नपादु भवतीं तुष्टूषतो मे जवा- ज्जृम्भन्तां भवदीयशिञ्जितसुधासन्दोहसन्देहदाः । श्लाघाघूर्णितचन्द्रशेखरजटाजङ्घालगङ्गापय- स्त्रासादेशविश‍ृङ्खलप्रसरणोत्सिक्ताः स्वयं सूक्तयः ॥ १.१४॥ १४॥ हिमवन्नलसेतुमध्यभाजां भरताभ्यर्चितपादुकावतंसः । var हिमवदचल अतपोधनधर्मतः कवीनामखिलेष्वस्मि मनोरथेष्वबाह्यः ॥ १.१५॥ १५॥ अनिदम्प्रथमस्य शब्दराशेरपदं रङ्गधुरीणपादुके त्वाम् । गतभीतिरभिष्टुवन् विमोहात्परिहासेन विनोदयामि नाथम् ॥ १.१६॥ १६॥ वृत्तिभिर्बहुविधाभिराश्रिता वेङ्कटेश्वरकवेः सरस्वती । अद्य रङ्गपतिरत्नपादुके नर्तकीव भवतीं निषेवताम् ॥ १.१७॥ १७॥ अपारकरुणाम्बुधेस्तव खलु प्रसादादहं विधातुमपि शक्नुयां शतसहस्रिकां संहिताम् । तथापि हरिपादुके तव गुणौघलेशस्थिते- रुदाहृतिरियं भवेदिति मिताऽपि युक्ता स्तुतिः ॥ १.१८॥ १८॥ अनुकृतनिजनादां सूक्तिमापादयन्ती मनसि वचसि च त्वं सावधाना मम स्याः । निशमयति यथाऽसौ निद्रया दूरमुक्तः परिषदि सह लक्ष्म्या पादुके रङ्गनाथः ॥ १.१९॥ १९॥ त्वयि विहिता स्तुतिरेषा पदरक्षिणि भवति रङ्गनाथपदे । तदुपरि कृता सपर्या नमतामिव नाकिनां शिरसि ॥ १.२०॥ २०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे प्रस्तावपद्धतिः प्रथमा ॥ २. समाख्यापद्धतिः (१०) वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् । var पादुकाम् च ताम् यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥ २.१॥ २१॥ var यथार्थशठजित्संज्ञा द्रविडोपनिषन्निवेशशून्यानपि लक्ष्मीरमणाय रोचयिष्यन् । var द्रमिडो ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः ॥ २.२॥ २२॥ नियतं मणिपादुके दधानः स मुनिस्ते शठकोप इत्यभिख्याम् । त्वदुपाश्रितपादजातवंशप्रतिपत्यै परमाततान रूपम् ॥ २.३॥ २३॥ मुनिना मणिपादुके त्वया च प्रथिताभ्यां शठकोपसंज्ञयैव । द्वितयं सकलोपजीव्यमासीत्प्रथमेन श्रुतिरन्यतस्तदर्थः ॥ २.४॥ २४॥ आकर्ण्य कर्णामृतमात्मवन्तो गाथासहस्रं शठकोपसूरेः । मञ्जुप्रणादां मणिपादुके त्वां तदेकनामानमनुस्मरन्ति ॥ २.५॥ २५॥ यः सप्तपर्वव्यवधानतुङ्गां शेषत्वकाष्ठामभजन्मुरारेः । var स सप्त तस्यापि नामोद्वहनात् त्वयाऽसौ लघूकृतोऽभूच्छठकोपसूरिः ॥ २.६॥ २६॥ शय्यात्मना मधुरिपोरसि शेषभूता पादाश्रयेण च पुनर्द्विगुणीकृतं तत् । भूयोऽपि भागवतशेषतया तदेव व्यङ्क्तुं पदावनि शठारिपदं बिभर्षि ॥ २.७॥ २७॥ पद्येन देवि शठकोपमुनिस्तवासी- त्तस्यापि नामवहनान्मणिपादुके त्वम् । शेषीबभूव युवयोरपि शेषशायी शेषं त्वशेषमपि शेषपदे स्थितं वः ॥ २.८॥ २८॥ विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोः कुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा । नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात् ते प्राचीनानां श्रुतिपरिषदां पादुके पूर्वगण्या ॥ २.९॥ २९॥ शठकोप इति समाख्या तव रङ्गधुरीणपादुके युक्ता । सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती ॥ २.१०॥ ३०॥ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे समाख्यापद्धतिर्द्वितीया ॥ ३. प्रभावपद्धतिः (७०) वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् । उन्नतानामवनतिर्नतानां यत्र चोन्नतिः ॥ ३.१॥ ३१॥ निश्शेषमम्बरतलं यदि पत्रिका स्या- त्सप्तार्णवी यदि समेत्य मषी भवित्री । वक्ता सहस्रवदनः पुरुषः स्वयं चे- ल्लिख्येत रङ्गपतिपादुकयोः प्रभावः ॥ ३.२॥ ३२॥ वेदोपबृंहणकुतूहलिना निबद्धं विश्वम्भराश्रुतिभवेन महर्षिणा यत् । व्यासेन यच्च मधुसूदनपादरक्षे द्वे चक्षुषी त्वदनुभावमवेक्षितुं नः ॥ ३.३॥ ३३॥ प्रत्यक्षयन्ति परिशुद्धधियो यथाव- द्रामायणे रघुपुरन्दरपादरक्षे । शश्वत्प्रपञ्चितमिदम्परयैव वृत्त्या सङ्क्षेपविस्तरदशासु तवानुभावम् ॥ ३.४॥ ३४॥ अल्पश्रुतैरपि जनैरनुमीयसे त्वं रङ्गेशपादु नियतं निगमोपगीता । सारं तदर्थमुपबृंहयितुं प्रणीतं रामायणं तव महिम्नि यतः प्रमाणम् ॥ ३.५॥ ३५॥ तिष्ठन्तु श्रुतयस्ततोऽपि महितं जागर्ति तत्पादुके तत्तादृक्प्रथनाय तावकगुणग्रामाय रामायणम् । यस्यासीदरविन्दसम्भववधूमञ्जीरशिञ्जारव- स्पर्धादुर्धरपादबद्धभणतिर्वल्मीकजन्मा कविः ॥ ३.६॥ ३६॥ var फणिति भक्तिप्रह्वपुरप्रभञ्जनजटावाटीसनीडस्फुर- च्चूडारग्वधवासनापरिमलस्त्याने स्तुमः पादुके । रङ्गक्षोणिभृदङ्घ्रिपद्मयुगलीपूर्णप्रपत्तेः फलं निश्चिन्वन्ति विपश्चितः शमधना नित्यं यदुत्तंसनम् ॥ ३.७॥ ३७॥ मातर्माधवपादुके तव गुणान्कः स्तोतुमस्तोकधीः कोटीरेषु यदर्पणप्रणयिनां सेवाक्षणे स्वर्गिणाम् । अन्योन्यं क्षिपतामहम्प्रथमिकासम्मर्दकोलाहलं विष्वक्सेनविहारवेत्रलतिकाकम्पश्चिराल्लुम्पति ॥ ३.८॥ ३८॥ योषिद्भूतदृषन्त्यपोढशकटस्थेमानि वैमानिक- स्रोतस्विन्युपलम्भनानि भसितोदञ्चत्परीक्षिन्ति च । दूत्यादिष्वपि दुर्वचांसि पदयोः कृत्यानि मत्वेव य- var दुर्वचानि द्धत्ते तत्प्रणयं तदेव चरणत्राणं वृणे रङ्गिणः ॥ ३.९॥ ३९॥ var त्तद्वत्तत्प्रणयं वन्दे तन्मधुकैटभारिपदयोर्मित्रं पदत्रद्वयं यत्तद्भक्तिभरानतेन शिरसा यत्र क्वचित् बिभ्रति । द्वित्रब्रह्मविनाडिकावधिपदव्यत्यासशङ्काभर- त्रासोत्कम्पदशाविसंस्थुलधृतिस्त्रैविष्टपानां गणः ॥ ३.१०॥ ४०॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 12 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine