न्यायविवरणम्
/ 7
←

Nyayavivaranam Sanskrit PDF & Online Reader (न्यायविवरणम्)

Nyayavivaranam (न्यायविवरणम्) by Madhvacharya (मध्वाचार्यः) — Sanskrit Text & PDF Download

📜 Last Proofread: 13 Sep 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 13 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
श्रीमन्न्यायविवरणम् (श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्) ॥ अथ प्रथमोऽध्यायः ॥ ॥ प्रथमः पादः ॥ चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे । नमो नारायणायाजशर्वशक्रादिवन्दित ॥ १ ॥ कृत्वा भाष्यानुभाष्येऽहमपि वेदार्थसत्पतेः । कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृत्तिं स्फुटम् ॥ २ ॥ करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम् । प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः ॥ ३ ॥ ॥ अथ जिज्ञासाधिकरणम् ॥ जीवव्यतिरिक्तेश्वरस्याभावात् तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति प्राप्ते ‘अथातो ब्रह्मजिज्ञासा’(ब्र.सू.१.१.१) इत्याह । ‘तद्विजिज्ञासस्व तद्ब्रह्म’ इति ‘ब्रह्म’शब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः । ‘अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेः(श्रुतेरिति) ॥ १ ॥ ॥ अथ जन्माधिकरणम् ॥ न जीव एवायं ब्रह्मशब्दः । ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेः ॥ २ ॥ ॥ अथ शास्त्रयोनित्वाधिकरणम् ॥ न च रुद्रादौ सममेतल्लक्षणम् । शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य(कारणस्य) ॥ ३ ॥ ॥ अथ समन्वयाधिकरणम् ॥ न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणम् । किन्तूपक्रमादलिक्षणः समन्वय एव ॥ ४ ॥ ॥ अथ ईक्षत्यधिकरणम् ॥ न च तस्यावाच्यत्वं श्रुत्यभिप्रायः । ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादि श्रुतिसहितानुभवस्य बलवत्वात् ॥ ५ ॥ ॥ अथ आनन्दमयाधिकरणम् ॥ न चावयवत्वविरोधः ‘नेह नानास्ति किञ्चन’ इति(इत्यादि) श्रुतेरवयवाद्यभेदात् ॥ ६ ॥ ॥ अथ अन्तस्थत्वाधिकरणम ॥ न च- ‘ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोऽनुक्लृप्तं वाचो वीर्यं तपसाऽन्वविन्दत् ।’ इत्यादि शब्दानामन्यविषयत्वम् । श्रुतिसन्देेहेऽनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेः ॥ ७ ॥ ॥ अथ छन्दोधिकरणम् (गायत्र्यधिकरणम्) ॥ अधिभूताध्यात्माधिवेदगतानामपि शब्दानाम् अचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु(चेतनजीवान्वयव्यतिरेकनित्यत्वेषु) विद्यमानेष्वपि भगवद्विषयत्वमेवानन्यथा सिद्धलिङ्गैः । ‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः’ इत्यादिशब्दसहितलिङ्गैश्च । सन्दिग्धश्रुतिलिङ्गाभ्याम् उक्ताभ्यामपि, असन्दिग्धयोः केवलयोरेव(केवलयोरपि) बलवत्वात् ॥ ८.११ ॥ ॥ अथ पादान्त्यप्राणाधिकरणम् ॥ न च चानन्यथासिद्धत्वमन्यत्र श्रुतिलिङ्गादेः । अन्यगतलिङ्गदीनामपि तद्गभगवदपेक्षया(तद्गतभगवदपेक्षया) युक्तेः ॥ १२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः ॥ ॥ द्वितीयः पादः ॥ ॥ अथ सर्वगतत्वाधिकरणम् ॥ बहुलिङ्गसहितश्रुतेरपि सावकाशायाः, निरवकाशश्रुत्यादीनामेव बलवत्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषु उक्त्वाऽऽदित्येऽनुक्तिरित्यादिलिङ्गं च । तथाऽपि निरवकाशा एतमेवेत्यवधारणादयः ॥ १ ॥ ॥ अथ अत्तृत्वाधिकरणम् ॥ सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्वम् । सन्दिग्धश्रुतिर्लिङ्गं चादितिशब्दोदितत्वं च ॥ २ ॥ ॥ अथ गुहाधिकरणम् ॥ द्विवचनश्रुतेरपि(द्विवचनश्रुतेरपि बलं) निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ॥ ३ ॥ ॥ अथ अन्तराधिकरणम् ॥ ‘सोहमस्मि’, ‘स एवाहमस्मि’ इत्याद्यभ्यासअर्थवादसहितबहुश्रुतिभ्योऽपि निरवकाशोपपत्तेरेव प्राबल्यम् ॥ ४ ॥ ॥ अथ अन्तर्याम्यधिकरणम् ॥ पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेः(यौगिकशरीरवत्वोपपत्तेः) विष्णोरपि ॥ ५ ॥ ॥ अथ अदृश्यत्वाधिकरणम् ॥ ‘अक्षरात् परतः परः’ इति श्रुतेरपि ‘नाक्षरात् सम्भवतीह विश्वं’ इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ॥ ६ ॥ ॥ अथ वैश्वानराधिकरणम् ॥ श्रुतिसाधारण्येऽपि विशेषश्रुत्यादेः निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्वनिरवकाशत्वबलात् निश्चयः ॥ ७ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ॥ ॥ तृतीयः पादः ॥ ॥ अथ द्युभ्वाधिकरणम् ॥ ‘प्राणानां ग्रन्थिरसि’। ‘रुद्रो वै लोकायतनम्’। ‘वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति’ । ‘सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकिनश्च विष्णावेवोताश्च प्रोताश्च भवन्ति’ इत्यादेः द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम् ॥ १ ॥ ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः’ इत्यत्रोक्तानां लिङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दलिङ्गबाहुल्यम् । ‘प्राणानां ग्रन्थिरसि रुद्रो माऽऽविशान्तकः’ । ‘प्राणेश्वरः कृत्तिवासाः पिनाकी’, ‘मनो वै रुद्र ओतं च प्रोतं च’, ‘रुद्रो वाव लोकाधारः’ इत्यादिकं शब्दबाहुल्यम् ॥ १ ॥ तेषामेव लिङ्गशब्दानां ‘प्राणानां ग्रन्थिरसि’ इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्वम् । तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम् ॥ १ ॥ ॥ अथ भूमाधिकरणम् ॥ ‘प्राणो वा आशाया भूयान्’, ‘विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान्नाम’ इत्यादेर्भूमशब्दोऽज्ञानां साधारणः ॥ २ ॥ ‘प्राणो वा आशाया भूयान्’ इत्युक्त्वा प्राणाद्भूयसोऽनुक्तिः ॥ २ ॥ प्राणस्य विष्णोः सकाशात् भूयस्त्वानुक्तिः । ‘च’शब्देन ‘एष तु वा अतिवदति’ इति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्च ॥ २ ॥ ॥ अथ अक्षराधिकरणम् ॥ विष्णोः चेतनप्रकृतेश्च अविनाशित्वसाम्याद् अक्षरशब्दः साधारणः ॥ ३ ॥ अत्तेत्युक्त्वा ‘न तदश्नाति किञ्चन’ इति विरुद्धता ॥ ३ ॥ सर्वाधारप्रकृत्याधारत्वं, विष्णोरन्यस्य विरुद्धम् । ‘पतिं विश्वस्यात्मेश्वरं’, ‘विश्वात्मानं परायणम्’ इत्यादिश्रुतेः । (अनशनोक्तिस्तु) अनशनत्वोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशता ॥ ३ ॥ ॥ अथ सदधिकरणम् ॥ कारणत्वसाम्यात् विष्णोरचेतनप्रकृतेश्च ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिसृष्टिस्थानं साधारणम् ॥ ४ ॥ ‘बहु स्यां प्रजायेय’ इत्यन्यस्य अन्यभावादृष्टिः ॥ ४ ॥ अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते ॥ ४ ॥ ॥ अथ दहराधिकरणम् ॥ लिङ्गं हृत्पद्मस्थितत्वं साधारणम् ॥ ५ ॥ ‘दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तिस्तदन्वेष्टव्यम्’ इत्यनेन, ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इत्यस्यान्वयाभावः ॥ ५ ॥ आकाशपक्ष एवान्वयाभावः । विष्णुपक्षे तु, योऽन्वेष्टव्यो भगवान्, तस्यान्तर्हृदये यावान् वाऽयमाकाशस्तावानाकाशः, तस्मिन् द्यावापृथिवी अन्तरेव समाहिते, स भगवान् अपहतपाप्मा(भगवानात्माऽपहतपाप्मेत्यन्वयः) इत्यन्वयः ॥ ५ ॥ ॥ अथ अनुकृत्यधिकरणम् ॥ ‘कथं नु तद्विजानीयाम्’ इत्यानुकूल्येन ग्रहणं कस्य? इति विचार्यमनुग्रहः ॥ ६ ॥ ‘तदेतदिति मन्यन्ते’, ‘कथं नु तद्विजानीयाम्’ इति ‘तेषां सुखं शाश्वतं नेतरेषाम्’ (शाश्वतमित्युक्त) इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः ॥ ६ ॥ यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपम् इति(तदेतत्तत्स्वरूपमिति) मन्यन्ते । अतः पूर्ववादविपरीतैव श्रुतिः । पूर्ववादोक्तयोजना तु भ्रम एव ॥ ६ ॥ ॥ अथ वामनाधिकरणम् ॥ ‘ऊर्ध्वं प्राणमुन्नयति’ इत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः । एवमेव ‘एष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते’ इत्यादिवाक्यात् भ्रमः ॥ ७ ॥ लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव । वामनश्रुतेरेवानकाश इति ईशानाशब्दोक्तो विष्णुरेव ॥ ७ ॥ ॥ अथ देवताधिकरणम् ॥ ॥ अथ अपशूद्राधिकरणम् ॥ ॥ अथ कम्पनाधिकरणम् ॥ वज्रशब्द उद्यतत्वलिङ्गं च तादृग्द्वयम् ॥ १० ॥ 8 ॥ वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यतत्वमिति ॥ १० ॥ 8 ॥ ॥ अथ ज्योतिरधिकरणम् ॥ आदित्यादिज्योतिष्ट्वम् उभयलोकसञ्चरणम् ‘आदित्येनैवायं ज्योतिषाऽऽस्ते’ इत्यवधारणमित्यादीनां परमात्मान्यवकाशाभावो बहुतादृक्त्वम् ॥ ११ ॥ 9 ॥ ‘अयं पुरुषः’ इति संसारी । आत्मशब्दोदित एव विष्णुः । अत आदित्यादिज्योतिष्ट्वं संसारिण एव । ‘आदित्येनैव’ इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि । लोकसञ्चरणं तु जीवमादाय तस्यैव अदुःखेन स्वातन्त्र्यात् ॥ ११ ॥ ॥ अथ आकाशाधिकरणम् ॥ पुनः शब्दाः ‘ईशानो वज्रो ज्योतिराकाशः’ इति ॥ ७ ॥ 10-12 ॥ ‘वै, नाम’ इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि ॥ १२ ॥ 11 ॥ ‘वै, नाम’ इति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम् , प्रसिद्धाकाशस्योक्तम् अनामरूपत्वं विरुद्धम् ॥ १२ ॥ ॥ अथ सुषुप्त्यधिकरणम् ॥ लिङ्गं स्वप्नादिदर्शनं कस्य इति ॥ १३ ॥ सुषुप्त्युत्क्रान्त्योः जीवेश्वरयोः भेदोक्तेरसङ्ग(त)त्वादि(असङ्गित्वादि) चेश्वरस्यैव इत्यर्थात् भेद एव भवति । जीवस्य तदयुक्तेरीशे सावकाशत्वाच्च ॥ १३ ॥ ॥ अथ ब्राह्मणाधिकरणम् ॥ शब्दो ब्राह्मण इति ॥ १४ ॥ ‘ब्राह्मण’शब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य(चतुर्मुखेन सह परमात्मनो) सह परमात्मनाऽभेदं विनाऽवकाशराहित्यद् अर्थाद् अभेदप्राप्तिरिति समस्तमेतत् ॥ १४ ॥ 12 ॥ पूर्वपक्षः ॥ ‘ब्रह्मणा= वेदेन गम्यते’ इति ‘ब्राह्मण’शब्दो विष्णावेव युज्यत इत्यर्थाद् ‘अज’शब्दोऽपि तस्मिन्नेव । चतुर्मुखस्य कर्मफलाभावायुक्तेः तयोर्भेदोऽर्थादापद्यत एव । उक्तिविरोधश्च तत्रैव । भेदश्रुतिबाहुल्यात् । तल्लिङ्गं स शब्दश्च चतुर्मुखेऽनवकाश इति(इति च) समस्तमेतत् ॥ १४ ॥ जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः ॥ १३ ॥ 11 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः ॥ ॥ चतुर्थः पादः ॥ ॥ अथ आनुमानिकाधिकरणम् ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 13 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine