श्रीमन्न्यायविवरणम्
(श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्)
॥ अथ प्रथमोऽध्यायः ॥
॥ प्रथमः पादः ॥
चेतनाचेतनजगन्नियन्त्रेऽशेषसंविदे ।
नमो नारायणायाजशर्वशक्रादिवन्दित ॥ १ ॥
कृत्वा भाष्यानुभाष्येऽहमपि वेदार्थसत्पतेः ।
कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृत्तिं स्फुटम् ॥ २ ॥
करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम् ।
प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः ॥ ३ ॥
॥ अथ जिज्ञासाधिकरणम् ॥
जीवव्यतिरिक्तेश्वरस्याभावात् तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति प्राप्ते ‘अथातो ब्रह्मजिज्ञासा’(ब्र.सू.१.१.१) इत्याह । ‘तद्विजिज्ञासस्व तद्ब्रह्म’ इति ‘ब्रह्म’शब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः । ‘अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेः(श्रुतेरिति) ॥ १ ॥
॥ अथ जन्माधिकरणम् ॥
न जीव एवायं ब्रह्मशब्दः । ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेः ॥ २ ॥
॥ अथ शास्त्रयोनित्वाधिकरणम् ॥
न च रुद्रादौ सममेतल्लक्षणम् । शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य(कारणस्य) ॥ ३ ॥
॥ अथ समन्वयाधिकरणम् ॥
न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणम् । किन्तूपक्रमादलिक्षणः समन्वय एव ॥ ४ ॥
॥ अथ ईक्षत्यधिकरणम् ॥
न च तस्यावाच्यत्वं श्रुत्यभिप्रायः । ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादि श्रुतिसहितानुभवस्य बलवत्वात् ॥ ५ ॥
॥ अथ आनन्दमयाधिकरणम् ॥
न चावयवत्वविरोधः ‘नेह नानास्ति किञ्चन’ इति(इत्यादि) श्रुतेरवयवाद्यभेदात् ॥ ६ ॥
॥ अथ अन्तस्थत्वाधिकरणम ॥
न च-
‘ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् ।
चतुर्होतारं प्रदिशोऽनुक्लृप्तं वाचो वीर्यं तपसाऽन्वविन्दत् ।’
इत्यादि शब्दानामन्यविषयत्वम् । श्रुतिसन्देेहेऽनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेः ॥ ७ ॥
॥ अथ छन्दोधिकरणम् (गायत्र्यधिकरणम्) ॥
अधिभूताध्यात्माधिवेदगतानामपि शब्दानाम् अचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु(चेतनजीवान्वयव्यतिरेकनित्यत्वेषु) विद्यमानेष्वपि भगवद्विषयत्वमेवानन्यथा सिद्धलिङ्गैः । ‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः’ इत्यादिशब्दसहितलिङ्गैश्च । सन्दिग्धश्रुतिलिङ्गाभ्याम् उक्ताभ्यामपि, असन्दिग्धयोः केवलयोरेव(केवलयोरपि) बलवत्वात् ॥ ८.११ ॥
॥ अथ पादान्त्यप्राणाधिकरणम् ॥
न च चानन्यथासिद्धत्वमन्यत्र श्रुतिलिङ्गादेः । अन्यगतलिङ्गदीनामपि तद्गभगवदपेक्षया(तद्गतभगवदपेक्षया) युक्तेः ॥ १२ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः ॥
॥ द्वितीयः पादः ॥
॥ अथ सर्वगतत्वाधिकरणम् ॥
बहुलिङ्गसहितश्रुतेरपि सावकाशायाः, निरवकाशश्रुत्यादीनामेव बलवत्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषु उक्त्वाऽऽदित्येऽनुक्तिरित्यादिलिङ्गं च । तथाऽपि निरवकाशा एतमेवेत्यवधारणादयः ॥ १ ॥
॥ अथ अत्तृत्वाधिकरणम् ॥
सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्वम् । सन्दिग्धश्रुतिर्लिङ्गं चादितिशब्दोदितत्वं च ॥ २ ॥
॥ अथ गुहाधिकरणम् ॥
द्विवचनश्रुतेरपि(द्विवचनश्रुतेरपि बलं) निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ॥ ३ ॥
॥ अथ अन्तराधिकरणम् ॥
‘सोहमस्मि’, ‘स एवाहमस्मि’ इत्याद्यभ्यासअर्थवादसहितबहुश्रुतिभ्योऽपि निरवकाशोपपत्तेरेव प्राबल्यम् ॥ ४ ॥
॥ अथ अन्तर्याम्यधिकरणम् ॥
पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेः(यौगिकशरीरवत्वोपपत्तेः) विष्णोरपि ॥ ५ ॥
॥ अथ अदृश्यत्वाधिकरणम् ॥
‘अक्षरात् परतः परः’ इति श्रुतेरपि ‘नाक्षरात् सम्भवतीह विश्वं’ इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ॥ ६ ॥
॥ अथ वैश्वानराधिकरणम् ॥
श्रुतिसाधारण्येऽपि विशेषश्रुत्यादेः निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्वनिरवकाशत्वबलात् निश्चयः ॥ ७ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ॥
॥ तृतीयः पादः ॥
॥ अथ द्युभ्वाधिकरणम् ॥
‘प्राणानां ग्रन्थिरसि’। ‘रुद्रो वै लोकायतनम्’। ‘वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति’ । ‘सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकिनश्च विष्णावेवोताश्च प्रोताश्च भवन्ति’ इत्यादेः द्युभ्वाद्यायतनत्वमज्ञानां साधारणं लिङ्गम् ॥ १ ॥
‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः’ इत्यत्रोक्तानां लिङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दलिङ्गबाहुल्यम् । ‘प्राणानां ग्रन्थिरसि रुद्रो माऽऽविशान्तकः’ । ‘प्राणेश्वरः कृत्तिवासाः पिनाकी’, ‘मनो वै रुद्र ओतं च प्रोतं च’, ‘रुद्रो वाव लोकाधारः’ इत्यादिकं शब्दबाहुल्यम् ॥ १ ॥
तेषामेव लिङ्गशब्दानां ‘प्राणानां ग्रन्थिरसि’ इत्यादीनां विष्णौ मुख्यवृत्तिरिति बलवत्वम् । तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम् ॥ १ ॥
॥ अथ भूमाधिकरणम् ॥
‘प्राणो वा आशाया भूयान्’, ‘विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान्नाम’ इत्यादेर्भूमशब्दोऽज्ञानां साधारणः ॥ २ ॥
‘प्राणो वा आशाया भूयान्’ इत्युक्त्वा प्राणाद्भूयसोऽनुक्तिः ॥ २ ॥
प्राणस्य विष्णोः सकाशात् भूयस्त्वानुक्तिः । ‘च’शब्देन ‘एष तु वा अतिवदति’ इति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्च ॥ २ ॥
॥ अथ अक्षराधिकरणम् ॥
विष्णोः चेतनप्रकृतेश्च अविनाशित्वसाम्याद् अक्षरशब्दः साधारणः ॥ ३ ॥
अत्तेत्युक्त्वा ‘न तदश्नाति किञ्चन’ इति विरुद्धता ॥ ३ ॥
सर्वाधारप्रकृत्याधारत्वं, विष्णोरन्यस्य विरुद्धम् । ‘पतिं विश्वस्यात्मेश्वरं’, ‘विश्वात्मानं परायणम्’ इत्यादिश्रुतेः । (अनशनोक्तिस्तु) अनशनत्वोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशता ॥ ३ ॥
॥ अथ सदधिकरणम् ॥
कारणत्वसाम्यात् विष्णोरचेतनप्रकृतेश्च ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिसृष्टिस्थानं साधारणम् ॥ ४ ॥
‘बहु स्यां प्रजायेय’ इत्यन्यस्य अन्यभावादृष्टिः ॥ ४ ॥
अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते ॥ ४ ॥
॥ अथ दहराधिकरणम् ॥
लिङ्गं हृत्पद्मस्थितत्वं साधारणम् ॥ ५ ॥
‘दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तिस्तदन्वेष्टव्यम्’ इत्यनेन, ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इत्यस्यान्वयाभावः ॥ ५ ॥
आकाशपक्ष एवान्वयाभावः । विष्णुपक्षे तु, योऽन्वेष्टव्यो भगवान्, तस्यान्तर्हृदये यावान् वाऽयमाकाशस्तावानाकाशः, तस्मिन् द्यावापृथिवी अन्तरेव समाहिते, स भगवान् अपहतपाप्मा(भगवानात्माऽपहतपाप्मेत्यन्वयः) इत्यन्वयः ॥ ५ ॥
॥ अथ अनुकृत्यधिकरणम् ॥
‘कथं नु तद्विजानीयाम्’ इत्यानुकूल्येन ग्रहणं कस्य? इति विचार्यमनुग्रहः ॥ ६ ॥
‘तदेतदिति मन्यन्ते’, ‘कथं नु तद्विजानीयाम्’ इति ‘तेषां सुखं शाश्वतं नेतरेषाम्’ (शाश्वतमित्युक्त) इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः ॥ ६ ॥
यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपम् इति(तदेतत्तत्स्वरूपमिति) मन्यन्ते । अतः पूर्ववादविपरीतैव श्रुतिः । पूर्ववादोक्तयोजना तु भ्रम एव ॥ ६ ॥
॥ अथ वामनाधिकरणम् ॥
‘ऊर्ध्वं प्राणमुन्नयति’ इत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः । एवमेव ‘एष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते’ इत्यादिवाक्यात् भ्रमः ॥ ७ ॥
लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव । वामनश्रुतेरेवानकाश इति ईशानाशब्दोक्तो विष्णुरेव ॥ ७ ॥
॥ अथ देवताधिकरणम् ॥
॥ अथ अपशूद्राधिकरणम् ॥
॥ अथ कम्पनाधिकरणम् ॥
वज्रशब्द उद्यतत्वलिङ्गं च तादृग्द्वयम् ॥ १० ॥ 8 ॥
वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यतत्वमिति ॥ १० ॥ 8 ॥
॥ अथ ज्योतिरधिकरणम् ॥
आदित्यादिज्योतिष्ट्वम् उभयलोकसञ्चरणम् ‘आदित्येनैवायं ज्योतिषाऽऽस्ते’ इत्यवधारणमित्यादीनां परमात्मान्यवकाशाभावो बहुतादृक्त्वम् ॥ ११ ॥ 9 ॥
‘अयं पुरुषः’ इति संसारी । आत्मशब्दोदित एव विष्णुः । अत आदित्यादिज्योतिष्ट्वं संसारिण एव । ‘आदित्येनैव’ इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि । लोकसञ्चरणं तु जीवमादाय तस्यैव अदुःखेन स्वातन्त्र्यात् ॥ ११ ॥
॥ अथ आकाशाधिकरणम् ॥
पुनः शब्दाः ‘ईशानो वज्रो ज्योतिराकाशः’ इति ॥ ७ ॥ 10-12 ॥
‘वै, नाम’ इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि ॥ १२ ॥ 11 ॥
‘वै, नाम’ इति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम् , प्रसिद्धाकाशस्योक्तम् अनामरूपत्वं विरुद्धम् ॥ १२ ॥
॥ अथ सुषुप्त्यधिकरणम् ॥
लिङ्गं स्वप्नादिदर्शनं कस्य इति ॥ १३ ॥
सुषुप्त्युत्क्रान्त्योः जीवेश्वरयोः भेदोक्तेरसङ्ग(त)त्वादि(असङ्गित्वादि) चेश्वरस्यैव इत्यर्थात् भेद एव भवति । जीवस्य तदयुक्तेरीशे सावकाशत्वाच्च ॥ १३ ॥
॥ अथ ब्राह्मणाधिकरणम् ॥
शब्दो ब्राह्मण इति ॥ १४ ॥
‘ब्राह्मण’शब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य(चतुर्मुखेन सह परमात्मनो) सह परमात्मनाऽभेदं विनाऽवकाशराहित्यद् अर्थाद् अभेदप्राप्तिरिति समस्तमेतत् ॥ १४ ॥ 12 ॥ पूर्वपक्षः ॥
‘ब्रह्मणा= वेदेन गम्यते’ इति ‘ब्राह्मण’शब्दो विष्णावेव युज्यत इत्यर्थाद् ‘अज’शब्दोऽपि तस्मिन्नेव । चतुर्मुखस्य कर्मफलाभावायुक्तेः तयोर्भेदोऽर्थादापद्यत एव । उक्तिविरोधश्च तत्रैव । भेदश्रुतिबाहुल्यात् । तल्लिङ्गं स शब्दश्च चतुर्मुखेऽनवकाश इति(इति च) समस्तमेतत् ॥ १४ ॥
जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः ॥ १३ ॥ 11 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः ॥
॥ चतुर्थः पादः ॥
॥ अथ आनुमानिकाधिकरणम् ॥