न्यायसुधा
/ 294
←

Nyayasudha English (IAST) PDF & Online Reader (nyāyasudhā)

Nyayasudha (न्यायसुधा) by Jayatirtha (जयतीर्थः) — English (IAST) Text & PDF Download

📜 Last Proofread: 26 Aug 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 26 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
श्रीमन्न्यायसुधा (मूलानुव्याख्यानम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) (टीका — श्रीजयतीर्थः)
📖 4.1.मङ्गलाचरणम् ▼
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे । जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमोऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये ॥ १ ॥ येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्वं परम् । ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गग स्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् ॥ २ ॥ व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थितिः व्यावृत्तिश्च विपक्षतोऽथ विषये सक्तिर्नवै बाधिते । नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे भूयात् तत्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ॥ ३ ॥ भवति यदनुभावादेडमूकोऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः । सकलवचनचेतोदेवता भारती सा मम वचसि निधत्तां सन्निधिं मानसे च ॥ ४ ॥ रमानिवासोचितवासभूमिः सन्न्यायरत्नावलिजन्मभूमिः । वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद् विभूत्यै ॥ ५ ॥ पदवाक्यप्रमाणज्ञान् प्रतिवादिमदच्छिदः । श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून् मम ॥ ६ ॥ श्रीमदानन्दतीर्थार्यसन्मनः सरसीभुवि । अनुव्याख्याननलिने चञ्चरीकति मे मनः ॥ ७ ॥ न शब्दाब्धौ गाढा नच निगमचर्चासु चतुराः नच न्याये प्रौढा नच विदितवेद्या अपि वयम् । परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्ना मान्याः स्मः किमपि च वदन्तोऽपि महताम् ॥ ८ ॥
📖 4.1.अनुव्याख्यानस्य मङ्गलश्लोकस्य च अवतरणिका ▼
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रम् असाधुनिबन्धान्धतमसावगुण्ठितत्वेन अप्रणीतमिव मन्यमानो भगवानानन्दतीर्थमुनिः यथाचार्याभिप्रायमस्य भाष्यं विधाय अनुभाष्यमपि करिष्यन् विलीनप्रकृतितया स्वयमन्तरायविधुरोऽपि अनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारपरम्परादिनाऽवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति – नारायणमिति ।
📖 3.1 ▼
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १ ॥
📖 4.1.श्लोकान्वयोपपादनम् ▼
अत्र नारायणं सन्नमामीत्यन्वयः । उत्तमपुरुषप्रयोगादेवाहमिति लभ्यते । सम् इति भक्त्याद्यतिशयसाहित्यलक्षणां प्रणामस्य सम्यक्तामाह । तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् । निखिलेत्यादीनां तु प्रणामकर्मणा नारायणेन विशेषणतया सम्बन्धः । प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसा एव । तत्राऽर्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् ।
📖 4.1.नारायणस्य नम्यत्वोपपादनम् ▼
अथवा कुतो नारायणस्य नम्यत्वम् ? तथात्वेऽपि कुतोऽन्यासु देवतासु सतीषु तस्यैव नमनम् इत्यत्रोक्तम् अशेषविशेषतोऽपि वन्द्यमिति । विशिष्यते वस्त्वु एभिरिति विशेषा असाधारणधर्माः, अशेषाश्च ते विशेषाश्च । अपिरभिव्याप्तौ । यावन्तो वन्द्यत्वनिमित्तभूता धर्माः, तेभ्यो विशेषेभ्योऽपि हेतुभ्यो वन्द्यम् । तथाऽशेषाद् वन्द्यत्वेन समाशङ्कितात् पद्मापद्मभवादेर्जगतो विशेषोऽतिशयोऽशेषविशेषः सर्वोत्तमत्वम्, ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति । एतदुभयं कथं नारायणस्येत्यतोऽभिहितं निखिलेत्यादि । त्रिविधा हि देवता वन्द्या भवति । विशिष्टा, अधिकृता, इष्टा चेति । नहि देवतावन्दनं व्यसनितया क्रियते, किन्तु विघ्नविघातादिप्रयोजनापेक्षितया । विशिष्टैव देवता तस्येष्टे । अधिकृता च स्वविषयग्रन्थप्रबोधादिकं सम्पादयति । वन्दनं खलु भक्त्याद्युपेतमेव सफलम् । तच्चेष्टायामेव देवतायामुपपद्यत इति । तत्र वैशिष्ट्योपपादनाय निखिलपूर्णगुणैकदेहम्, निर्दोषम्, अस्योद्भवादिदमिति विशेषणत्रयम् । निखिला निःशेषाः, पूर्णाः प्रत्येकमप्यनवधिकाः, गुणा आनन्दादयः, एकशब्दः केवलार्थः, त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः । निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः । अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुद्धिसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्योद्भव उत्पत्तिरादिरस्येत्युद्भवादि जन्माद्यष्टकम्, तद् यथासम्भवं ददातीत्युद्भवादिदः, तम् । अस्येति सम्बन्धमात्रे षष्ठी अशेषविशेषतोऽपीत्येतदस्योद्भवादिदमित्यनेनापि सम्बद्ध्यते, वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति । अधिकृतत्वप्रदर्शनाय – आप्यतममप्यखिलैः सुवाक्यैरिति । अपिशब्दो वन्द्यत्वे हेतुसमुच्चयार्थः । अभिव्याप्तौ वा । अपौरुषेयत्वेन तन्मूलत्वेन वाऽनाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि, तैरखिलैराप्याप्यतमम्, अतिशयेन प्रतिपाद्यम् । यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः, हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् । न स्यात् । तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यवात् । अस्य पुनरनन्यार्थतयाऽखिलवेदादिवेद्यत्वात् । तथाविधमेव चाधिकृतमुच्यत इत्याशयवता “आप्यतमम्” इति “अखिलैः” इति चोक्तम् । इष्टत्वप्रदर्शनं सदाप्रियतमंममेति । अत्रापि पूर्ववत् सदापदस्य तमपश्च प्रयोजनमवधेयम् ।
📖 4.1.नारायणस्य लक्षणानि ▼
यद्वा नानिर्धारितस्वरूपस्य प्रणामो युक्तः । नचान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते । तत्र निखिलेत्यनेन निखिलगुणत्वम्, पूर्णगुणत्वम्, स्वतो गुणैकदेहत्वं चेति विवक्षाभेदेन त्रीणि लक्षणान्युदितानि । निर्दोषमित्यनेनैकम् । आप्यतममित्यनेन वेदादिमुख्यार्थत्वम्, अखिलवेदाद्यर्थत्वं चेति द्वयम् । अस्येत्यनेनाष्टौ अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तम्, अशेषाद् विशेषेण वन्द्यमिति । सदेत्यनेन परमप्रेमयोग्यत्वम् । तस्यानानुभाविकत्वादसम्भवमाशङ्क्य सदा ममेत्युक्तम् अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति । अपिशब्दो लक्षणसमुच्चये ।
📖 4.1.नारायणस्य शास्त्रैकसमधिगम्यत्वम् ▼
अथवा निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्य इत्यतः सुवाक्यैराप्यमित्युक्तम् । ननु वेदाद्येकदेशेऽन्यथाऽप्युच्यते । न । तत्प्रतीतेरपरामर्शपूर्वकत्वादित्याशयेनाखिलैः इत्युदितम् । तर्हि धर्माद्यसिद्धिः स्यात्, तस्य प्रमाणान्तरागोचरत्वात् । मैवम् । अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वादित्याशयवताऽऽप्यतममित्यभिहितम् । अपिशब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः । सकलजगन्निमित्तकारणत्वादिहेतुभिरप्युक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तम् - अस्येति ।
📖 4.1.नारायणस्य जगज्जन्मादिकारणत्वानुपपत्तिपरिहारः ▼
यद्वा नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः । तदभावे ज्ञानादिगुणाभावः । उभयथाऽपि जगज्जन्मादिकारणत्वासम्भव इत्याशङ्कयोक्तम् – निखिलपूर्णगुणैकदेहम्, निर्दोषमिति । देहवत्त्वाज्ज्ञानादिगुणपूर्णः, तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति ।
📖 4.1.नारायणशब्दार्थकथनम् ▼
अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्केतिकः, घटादिशब्द इव वा रूढिमात्रप्रवृत्तः, किन्तु विशिष्टगुणानप्याचष्ट इति ज्ञापयन् तदर्थमनेन कथयति । एतदपि स्तुत्यर्थमित्यवगन्तव्यम् । तथाहि - अरा दोषाः, तद्विरुद्धत्वाद् गुणा नाराः, तदयनत्वान्नारायणः । अराणामयनं न भवतीति वा । उपकारित्वादिना नराणामिमे नारा वेदादय, प्रतिपाद्यतया तदयनत्वाद् वा । नराणामिदं नारमुद्भवादि, दातृतया तस्यायनत्वाद् वा । नरसमूहो नारम्, वन्द्यतया तदयनत्वाद् वा । नराणामधिपतिर्नारो मुख्यवायुः, परमप्रेमास्पदतया तस्यायनत्वाद् वेति यथाक्रममवगन्तव्यम् ।
📖 4.1.सङ्क्षेपतः अध्यायचतुष्टयार्थकथनम् ▼
अथवा श्रोतृबुद्ध्यनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतोऽनेनाऽचष्टे । विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति । तत्र सदा वन्द्यमिति प्रथमसूत्रार्थोक्तिः । मनोवृत्तेस्तत्प्रवणता हि वन्दनम् । जिज्ञासाऽपि तद्विशेष एव । तस्य जीवादिव्यावृत्तये यद् ब्रह्मेत्युक्तं तस्यार्थः निखिलेति । तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् । तदाह – अस्येति । तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता । तत्कथनम् आप्यतममिति । प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीयेऽभिहितः । तमाह – निर्दोषमिति । एवं ब्रह्मस्वरूपे सिद्धेऽधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्यामखिलवेदार्थश्रवणादि तृतीये निरूपितम् । तस्यायं सङ्ग्रहः – अशेषविशेषतोऽपि प्रियतमम्, आप्यतममिति । ल्यब्लोपनिमित्ता पञ्चमी । अशेषान् विषयविशेषान् विहाय ज्ञातव्यतममिति । “इयदामननात्" इत्याद्यर्थसूचनम् — ममेति । प्रसन्नं च तत्, यादृशं पुमर्थं प्रयच्छति तत्स्वरूपनिरूपणं चतुर्थेऽभिहितम् । तदभिधानम् आप्यतममिति । आप्तिमात्रस्य नित्यसिद्धत्वात् तमपा तां विशिनष्टिीति ।
📖 4.1.गुरुप्रणामः, ग्रन्थारम्भप्रतिज्ञा च ▼
नारायणप्रणामस्येव गुरुप्रणामस्याप्यभिमतसिद्ध्यङ्गतया कार्यारम्भेऽवश्यमनुष्ठेयत्वात् तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं समर्थयमानः प्रतिजानीते - तमेवेति ।
📖 3.1 ▼
तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव २
📖 4.1.श्लोकार्थः उपपादनं च ▼
तं = पूर्वप्रणतं नारायणमेव, अन्वपि = पुनरपि, प्रणम्य = भक्त्याद्युपेततालक्षणेन प्रकर्षेण नत्वाऽहं परमाख्यविद्याया ब्रह्ममीमांसारूपाया व्याख्यां करोमीति सम्बन्धः । वर्तमानसामीप्याद् वर्तमानव्यपदेशः । सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद् वा । ननु प्रणतस्य पुनः प्रणामः किमर्थः ? नहि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति । भावे वा पूर्व श्लोक एव बहुशः सन्नमामीति वक्तव्यम् । मैवम् । गुरुत्वेनात्र प्रणामाचरणात् । कथं नारायणस्य गुरुत्वमित्यत आह - शास्त्रप्रभवमिति । शास्त्रशब्देन प्रकृतत्वाद् ब्रह्ममीमांसाशास्त्रम्, वेदादिकं चोच्यते । प्रभवत्युत्पद्यते प्रथममुपलभ्यते वा यस्मात् स प्रभवः । यथासम्भवं शास्त्रस्य प्रभवः शास्त्रप्रभवः, तम् । यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव । प्रकृतशास्त्रसम्प्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह – जगद्गुरूणामिति । जगत एतच्छास्त्रप्रवक्तॄणां ब्रह्मादीनामञ्जसा मुख्यतया, नतु वयोधिकत्वादिमात्रेण गुरुम् । अस्य शास्त्रस्य प्रवक्तारमिति यावत् । प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते – विशेषत इति । गुरुमिति वर्तते । विशेषत इति साक्षादुपदेष्टृत्वेन, नतु जगत इव परम्परया । अत्र यदि शास्त्रप्रभवमित्याद्येवोच्येत, तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् । तदर्थं तमेवेत्युक्तम् । नचैवं पृथक्प्रणामानुपपत्तिः । निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् । शिष्यशिक्षायै चैतद् ग्रन्थे निवानम् । शिष्याणां चास्ति गुरुदेवताभेदः । तदपेक्षयैव जगद्रुरूणामित्युक्तम् । अन्यथा “विशेषतो मे” इत्युक्तमयुक्तं स्यात् ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 26 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine