न्यासविंशतिः
/ 3
←

Nyasavimshati Tamil PDF & Online Reader (ந்யாஸவிம்ʼஶதி꞉)

Nyasavimshati (न्यासविंशतिः) by Vedanta Desika (वेदान्तदेशिकः) — Tamil Text & PDF Download

📜 Last Proofread: 10 Oct 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 10 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
न्यास विंशतिः सव्याखा श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं सत्त्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् । डम्भासूयादिमुक्तं जितविषयगणं दीर्घबन्धुं दयालुं स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥ १॥ अज्ञानध्वान्तरोधादघपरिहरणादात्मसाम्यावहत्वात् जन्मप्रध्वंसि जन्मप्रदगरिमतया दिव्यदृष्टिप्रभावात् । निष्प्रत्यूहानृशंस्यान्नियतरसतया नित्यशेषित्वयोगात् आचार्यः सद्भिरप्रत्युपकरणधिया देववत् स्यादुपास्यः ॥ २॥ सद्भुद्धिः साधु सेवी समुचितचरितस्तत्वबोधाभिलाषी शुश‍ृषुस्त्यक्तमानः प्रणिपतनपरः प्रश्नकालप्रतीषः । शान्तो दान्तोऽनसूयुः शरणमुपगतः शास्त्रविश्वासशाली शिष्य प्राप्तः परीक्षां कृतविदभिमतं तत्त्वतः शिक्ष्णणीयः ॥ ३॥ स्वाधीनाशेषसत्ता स्थितियतनफलं विद्धि लक्ष्मीशमेकं प्राप्यं नान्यं प्रतीया न च शरणतया कञ्चिदन्यं वृणीयाः । एतस्मादेव पुंसां भयमितरदपि प्रेक्ष्य मोज्झीस्तदऽज्ञां इत्येकान्तोपदेशः प्रथममिह गुरोरेकचित्तेन धार्यः ॥ ४॥ मोक्षोपायार्हतैवं भवति भवभृतां कस्यचित् क्वाऽपि काले तद्वद् भक्तिप्रपत्त्योरधिकृति नियमस्तादृशा स्यान्नियत्या । शक्ताशक्तादि तत्तत्पुरुषविषयतः स्थाप्यते तद्व्यवस्था यच्चाहुस्तद्विकल्पः सम इति कतिचित् तत् फलस्याविशेषात् ॥ ५॥ सानुक्रोशे समर्थे प्रपदनमृषिभिः स्मर्यतेऽभीष्टसिद्ध्यैः लोकेऽप्येतत् प्रसिद्धं न च विमतिरिह प्रेख़्श्यते क्वाऽपि तन्त्रे । तस्मात् कैमुत्य सिद्धं भगवति तु भरन्यासविद्यानुभावम् धर्मस्थेयाः च पूर्वे स्वकृतिषु बहुधा स्थापयांचक्रुरेवम् ॥ ६॥ शास्त्रप्रमाण्यवेदी ननु विधिविषये निर्विशङ्कोऽधिकारी विश्वासस्याङ्गभावे पुनरिह विदुषा किं महत्वं प्रसाध्यम् । मैवं घोरापराधरिः सपदि गुरुफले न्यासमात्रेण लभ्ये शङ्का पार्ष्णि ग्रहार्हा शमयितुमुचिता हेतुभिस्तत्तदर्है ॥ ७॥ नेहाभिक्रान्ति नाशो न च विमतिरिह प्रत्यवायो भवेदिति उक्तं कैमुत्य नीत्या प्रपदनविषये योजितं शास्त्रविद्भिः । तस्मात् क्षेत्रे तदर्ह सुविदितसमयैर्देशिकैः सम्यगुप्तं मन्त्राख्यं मुक्तिबीजं परिणति वशतः कल्पते सत्फलाय ॥ ८॥ न्यासः प्रोक्तोऽतिरिक्तं तप इति कथितः स्वध्वरश्चास्य कर्ता अहिर्बुध्न्योप्यन्ववादीदगणि दिविषदामुत्तमं गुह्यमेतत् । साक्षान्मोक्षाय चासौ श्रुत इह तु मुधा बाध शङ्का गुणाढ्ये तन्निष्टो ह्यन्यनिष्ठान् प्रभुरतिशयितुं कोटिकोट्यंशतोऽपि ॥ ९॥ नानाशब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यक् न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात् । आख्या रूपादिभेदः श्रुत इतरसमः किञ्च भिन्नोऽधिकारः शीघ्रप्राप्त्यादिभिः स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ॥ १०॥ यत्किञ्चिद्रक्षणीयं तदवन निपुणे न्यस्यतोऽकिञ्चनस्य प्रस्पष्टं लोकदृष्ट्याऽप्यवगमित इह प्रार्थनादङ्गयोगः । तस्मात् कर्माङ्गकत्वं व्यपनयति परापेक्षणाभाववादः साङ्गे त्वष्टाङ्गयोगव्यवहृति नयतः षड्विधत्वोपचारः ॥ ११॥ पञ्चाप्यङ्गान्यभिज्ञाः प्रणिजगुरविनाभाव भाञ्चि प्रपत्तेः कैश्चित् संभावितत्वं यदिह निगदितं तत् प्रपत्त्युत्तरं स्यात् । अङ्गेष्वङ्गित्ववादः फलकथनमिह द्वित्रिमात्रोक्तयश्च प्राशस्त्यं तत्र तत्र प्रणिदधति ततः सर्ववाक्यैककण्ठ्यम् ॥ १२॥ रक्षोपेक्षा स्वसाह्य प्रणयवति भरन्यास आज्ञादि दक्षे दृष्टा नाऽत्र प्रपत्ति व्यवहृतिरिह तन्मेलने लक्षणं स्यात् । var तन्मेलनं गेहागत्यदि मात्रे निपततु शरणागत्यभिख्योपचारात् यद्वानेकार्थभावाद्भवति च विविधः पालनीयत्वहेतुः ॥ १३॥var यद्वा नैकार्थं, हि आत्मात्मीयस्वरूपन्यसनमनुगतं यावदर्थं मुमुख़्शोः तत्त्वज्ञानात्मकं तत् प्रथममथ विधेः स्यादुपाये समेतम् । कैङ्कर्याख्ये पुमर्थेऽप्यनुषजति तदप्यर्थना हेतुभावात् स्वाभीष्टानन्यसाध्यावधिरिह तु भरन्यासभागोऽङ्गिभूतः ॥ १४॥ न्यसादेशेषु धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियोक्ता कार्पण्यम् वाऽङ्गमुक्तं भजनवदितरापेक्षणं वाऽप्यपोढम् । दुःसाधेच्छोद्यमौ वा क्वचिदुपशमितवन्यसंमेलने वा ब्रह्मास्त्रन्याय उक्तस्तदिह न विहतो धर्म आज्ञादि सिद्धः ॥ १५॥ आदेष्टुं स्वप्रपत्तिं तदनुगुणगुणाद्यन्वितं स्वं मुकुन्दो मामित्युक्त्वैकशब्दं वदति तदुचितं तत्र तात्पर्यमूह्यम् । तत्प्राप्य प्रापकैक्यं सकलफलदतां न्यासतोऽन्यानपेक्षाम् प्राधान्याद्यं च किञ्चित् प्रथयति स परं श्रीसखे मुक्त्युपाये ॥ १६॥ स्वाभीष्टप्राप्तिहेतुः स्वयमिह पुरुषैः स्वीकृतः स्यादुपायः शास्त्रे लोके च सिद्धः स पुनरुभयथा सिद्धसाध्यप्रभेदात् । सिद्धोपायस्तु मुक्तौ निरवधिकदयः श्रीसखः सर्वशक्तिः साध्योपायस्तु भक्तिर्न्यसनमिति पृथक् तद्वशीकारसिद्ध्यै ॥ १७॥ अत्यन्ताकिञ्चनोऽहं त्वदपचरणतः सन्निवृत्तोऽद्य नाथ त्वत्सेवैकान्तधीः स्यां त्वमसि शरणमित्यध्यवस्यामि गाढम् । त्वम् मे गोपायिता स्यास्त्वयि निहितभरओऽस्म्येवमित्यर्पितात्मा यस्मै स न्यस्तभारः सकृदथ तु सदा न प्रयस्येत् तदर्थम् ॥ १८॥ var सकृदिति तु त्यक्त्वोपायानपायानपि परमजहन्मध्यमां स्वार्हवृत्तिम् प्रायश्चित्तं च योग्यं विगतऋणततिर्द्वन्द्ववात्यां तितिक्षुः । भक्तिज्ञानादिवृद्धिं परिचरणगुणान् सत्समृद्धिं च युक्तां var युक्त्या नित्यं याचेदनन्यस्तदपि भगवतस्तस्य यद्वाऽऽप्तवर्गात् ॥ १९॥ आज्ञा कैङ्कर्यवृत्तिष्वनघ गुरुजनप्रक्रिया नेमिवृत्तिः स्वार्हानुज्ञातसेवा विधिषु च शकने यावदिष्तं प्रवृत्तः । कर्मप्रारब्धकार्यं प्रपदनमहिमध्वस्तशेषं द्विरूपं भुक्त्वा स्वाभीष्टकाले विशति भगवतः पादमूलं प्रपन्नः ॥ २०॥ श्रुत्या स्मृत्यादिभिश्च स्वयमिह भगवद्वाक्यवर्गैश्च सिद्धां स्वातन्त्र्ये पारतन्त्र्येऽप्यनितरगतिभिः सद्भिरास्थीयमानाम् । वेदान्ताचार्य इत्थं विविधगुरुजनग्रन्थसंवादवत्या विंशत्या न्यासविद्यां व्यवृणुत सुधियां श्रेयसे वेङ्कटेशः ॥ २१॥ संसारावर्तवेगप्रशमनशुभदृग्देशिक प्रेक्षितोऽहं संत्यक्तोऽन्यैर् उपायैरनुचितचरितेष्वद्य शान्ताभिसन्धिः । निःशङ्कस्तत्वदृष्ट्या निरवधिकदयं प्रार्थ्य संरक्षकं त्वां var प्राप्य न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ॥ २२॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ न्यासविंशति व्याख्या श्रीमन्निगमान्तमहादेशिकेः स्वयमनुगृहीता न्यासविंशति व्याख्या श्रीः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ श्रुतिस्मृत्यादितात्पर्यं निरूढा न्यासविंशतिः । स्वय व्याक्रियतेऽस्माभिः दिङ्मात्रेण सदिच्छया ॥ NOTE: In this commentary, there are many boldface entries (from the main stotra) which are placed inside flower/curly brackets in the encoded text. as text in bold font - for easy identification. This is not visible in the processed Devanagari file or in other scripts. प्रपत्त्याद्यपरपर्यायां (var प्रपत्यपरपर्यायां ) न्यासविद्यां सञ्जिघृक्षुः प्रथमं तत्त्ज्ञानादिमुखेन तदघिकार- हेनुभूतमाचार्यसंग्रहणमाह (var सञ्जिवृक्षुः तत्त्वज्ञानादि . . . संग्रहणमाह) -- सिद्धम् इति । एतेषामाचायगुणानां प्रमाणानि ``तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं'' इत्यादीनि (var इत्यादीनि द्रष्टव्यानि ।) । श्रोत्रियं - श्रुतवेदान्तम् । समयानियतया - यथाकालं प्रवृत्तया; यद्वा धर्मज्ञसमयव्यवरिथतया । जितविषयगणं - स्ववशेन्द्रियवर्गम् । सम्यक् ज्ञानार्थतया गुर्वभिगमनेऽपि स्वेच्छया प्रवर्तमनस्य (var प्रवृत्तस्य) नियमांशमात्रे विधिरिति ज्ञापनार्थम् (var विधिज्ञापनार्थं) ईप्सेत् इति ``सन् प्रयोग:'' ॥ १॥ ``आचार्यवान् पुरुषो वेद'', `` आचायीद्धैव विदिता विद्या साधिष्ठं ६ रापत् '', ``आचार्यवत्तया मुक्तौ'' (var प्रापत् `` आचार्यवत्तया मोक्षमामनन्ति ... मुक्तौ इत्याद्यनुसरतः आचार्यवरेण सिद्धे, 'देवमिव) इत्यादिप्रमाणानुसारतः आचार्यवरणे सिद्धे, ``आचार्यदेवो भव'', ``देवमिवाचार्यमुपासीत'' इत्यादिविहितं तत्सेवनमाह - अज्ञानष्वान्त इति । अत्र उक्ता हेतवः आचार्ये भगवति च अन्वीयन्ते ।जन्मप्रध्वंसिजन्म - विद्याजन्म । ``ब्रह्मव्दियाप्रदानस्य देवैरपि न शक्यते । प्रतिप्रदानमथवा दद्याच्छाक्तित आदरात् ॥ '' इय्यभिप्रेय अप्रत्युपकरणधिया इत्युक्तम् ॥ २॥ सम्यगुपसन्नें सच्छिष्ये `` तस्मै स विद्वान्'' इत्यादिविहितमचार्यकृत्यमाह - सद्बुद्धिः इति । अभिमतं - मोक्षोपयुक्तमर्थजातम् (var इदं न दृश्यते) ॥ ३॥ मुक्तिकामस्य मूलमन्त्राद्यभिभिधेयतया शिक्षणीयेऽथ प्रधानांशं, तस्य च नित्यानु- सन्धेयत्वमाह (var मूलमन्त्राद्यभिप्रेततया शिक्षणीये प्रधान्ंशं तस्य नित्यत्वं चाह ) - स्वाधीन इति ॥ ४॥ ईदृशोपदेशलब्धसम्यग्ज्ञानस्य पुरुषस्य ``अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्'', `` मामेकं शरणं व्रज'' इत्यादिभिरपवर्गोपायतया विहितयोः भक्तिप्रपत्त्योः अधिकारिव्यवस्थामाह (var अधिकारव्यवस्था) - मोक्षोपय इति ॥ ५॥ इत्थमधिकारिभेदात् गुरुलघुविकल्पसंभवेऽपि प्रपत्तिप्रभावे दुर्ब्बुद्धीन् प्रयाययति -- सानुक्रोश इति । वानरवायसराक्षसद्रौपदीगजेन्द्रसुमुखत्रिशङ्कुशुनश्शेफाद्युपख्यनैः इति शेषः । धर्मस्थेयाः - विबादगोचरधर्मनिर्णेतारः । पूर्वे - भगवद्यामुनादयः ॥ ६॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 10 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine