॥ नाट्यशास्त्रम् ॥ ॥ भरतमुनिप्रणीतम् ॥
॥ अध्यायः १ ॥
. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ प्रथमोऽध्यायः . प्रणम्य शिरसा देवौ पितामहमहेश्वरौ . नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् .. १.. समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् . अनध्याये कदाचित्तु भरतं नाट्यकोविदम् .. २.. मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा . पप्रच्छुस्ते महात्मानो नियतेन्द्रियबुद्धयः .. ३.. योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः . नाट्यवेदः ब्रह्मन्नुत्पन्नः कस्य वा कृते .. ४.. कत्यङ्गः किम्प्रमाणश्च प्रयोगश्चास्य कीदृशः . सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि .. ५.. तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः . प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति .. ६.. भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः . श्रूयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः .. ७.. पूर्वं कृतयुगे विप्रा वृत्ते स्वायम्भुवेऽन्तरे . त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु .. ८.. ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते . ईर्ष्याक्रोधादिसंमूढे लोके सुखितदुःखिते .. ९.. देवदानवगन्धर्वयक्षरक्षोमहोरगैः . जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते .. १०.. महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः . क्रीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् .. ११.. न वेदव्यवहारोऽयं संश्राव्यः शूद्रजातिषु . तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् .. १२.. एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च . सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् .. १३.. ( नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु . वेदमन्यत्ततः स्रक्ष्ये सर्वश्राव्यं तु पञ्चमम् ..) धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं ससङ्ग्रहम् . भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् .. १४.. सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् . नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् .. १५.. एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् . नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् .. १६.. जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च . यजुर्वेदादभिनयान् रसानाथर्वणादपि .. १७.. वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना . एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना .. १८.. उत्पाद्य नाट्यवेदं तु ब्रह्मोवाच सुरेश्वरम् . इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् .. १९.. कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः . तेष्वयं नाट्यसञ्ज्ञो हि वेदः सङ्क्राम्यतां त्वया .. २०.. तच्छृत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम् . प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् .. २१.. ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम . अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि .. २२.. य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः . एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा .. २३.. श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः . त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ .. २४.. आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् . पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः .. २५.. शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा . जटिलम्बष्टकौ चैव तण्डुमग्निशिखं तथा .. २६.. सैन्धवं सपुलोमानं शाड्वलिं विपुलं तथा . कपिञ्जलिं वादिरं च यमधूम्रायणौ तथा .. २७.. जम्बुध्वजं काकजङ्घं स्वर्णकं तापसं तथा . कैदारिं शालिकर्णं च दीर्घगात्रं च शालिकम् .. २८.. कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा . बन्धुलं भल्लकं चैव मुष्ठिकं सैन्धवायनम् .. २९.. तैतिलं भार्गवं चैव शुचिं बहुलमेव च . अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् .. ३०.. ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा . मागधं सरलं चैव कर्तारं चोग्रमेव च .. ३१.. तुषारं पार्षदं चैव गौतमं बादरायणम् . विशालं शबलं चैव सुनामं मेषमेव च .. ३२.. कालियं भ्रमरं चैव तथा पीठमुखं मुनिम् . नखकुट्टाश्मकुट्टौ च षट्पदं सोत्तमं तथा .. ३३.. पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा . अग्निकुण्डाज्यकुण्डौ च वितण्ड्य ताण्ड्यमेव च .. ३४.. कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा . लाजं भयानकं चैव बीभत्सं सविचक्षणम् .. ३५.. पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च . विद्युज्जिह्वं महाजिह्वं शालङ्कायनमेव च .. ३६.. श्यामायनं माठरं च लोहिताङ्गं तथैव च . संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च .. ३७.. शङ्खवर्णमुखं शण्डं शङ्कुकर्णमथापि च . शक्रनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा .. ३८.. विद्युतं शातजङ्घं च रौद्रं वीरमथापि च . पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया .. ३९.. प्रयोजितं पुत्रशतं यथाभूमिविभागशः . यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः .. ४०.. भारतीं सात्वतीं चैव वृईत्तिमारभटीं तथा . समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः .. ४१.. परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया . अथाह मां सुरगुरुः कैशिकिमपि योजय .. ४२.. यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम . एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः .. ४३.. दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् . नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका .. ४४.. दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः . कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा .. ४५.. अशक्या पुरुषैः सा तु प्रयोक्तुं स्त्रीजनादृते . ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः .. ४६.. नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः . मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् .. ४७.. सौदामिनीं देवदत्तां देवसेनां मनोरमाम् . सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा .. ४८.. सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा . मागधीमर्जुनीं चैव सरलां केरलां धृतिम् .. ४९.. नन्दां सपुष्कलां चैव कलमां चैव मे ददौ . स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा .. ५०. . नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः . एवं नाट्यमिदं सम्यग्बुद्ध्वा सर्वैः सुतैः सह .. ५१.. स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् . उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः .. ५२.. नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् . एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः .. ५३. . महानयं प्रयोगस्य समयः प्रत्युपस्थितः . अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते .. ५४.. अत्रेदानीमयं वेदो नाट्यसञ्ज्ञः प्रयुज्यताम् . ततस्तस्मिन्ध्वजमहे निहतासुरदानवे .. ५५.. प्रहृष्टामरसङ्कीर्णे महेन्द्रविजयोत्सवे . पूर्वं कृता मया नान्दी ह्याशीर्वचसंयुता .. ५६.. अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता . तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः .. ५७.. सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका . ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः .. ५८.. प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै . प्रीतस्तु प्रथमं शक्रो दत्तवान्स्वं ध्वजं शुभम् .. ५९.. ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् . सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च .. ६०.. विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा . श्राव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती .. ६१.. शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः . तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् .. ६२.. अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा . दत्तवन्तः प्रहृष्टास्ते मत्सुतेभ्यो दिवौकसः .. ६३.. एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने . अभवन्क्षुभिताः सर्वे दैत्या ये तत्र सङ्गताः .. ६४.. विरूपाक्ष पुरोगांश्च विघ्नान्प्रोत्साह्य तेऽब्रुवन् . न क्षमिष्यामहे नाट्यमेतदागम्यतामिति .. ६५.. ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः . वाचश्चेष्टां स्मृतिं चैव स्तम्भयन्ति स्म नृत्यताम् .. ६६.. तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् . कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् .. ६७.. सहेतरैः सूत्रधारं नष्टसञ्ज्ञं जडीकृतम् .. ६८.. उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् .. सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्वृत लोचनः ..६९.. रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् . जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ..७०.. निहतेषु च सर्वेषुअ विघ्नेषु सह दानवैः . सम्प्रहृष्य ततो वाक्यमाहुः सर्वे दिवौकसः ..७१.. अहो प्रहरणं दिव्यमिदमासादितं त्वया . जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ..७२.. यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः . तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ..७३.. शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः . दृष्ट्वैव जर्जरं तेऽपि गमिष्यन्त्येवमेव तु ..७४.. एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् . रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ..७५.. प्रयोगे प्रस्तुते ह्येवं स्फीते शक्रमहे पुनः . त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ..७६.. दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् . उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ..७७.. निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने . अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ..७८.. ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः . कुरु लक्षणसम्पन्नं नाट्यवेश्म महामते ..७९.. ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् . सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ..८०.. प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः . सज्जं नाट्यगृहं देव तदेवेक्षितुमर्हसि ..८१.. ततः सह महेन्द्रेण सुरैः सर्वैश्च सेतरैः . आअगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् .. ८२.. दृष्ट्वा नाट्यगृहं ब्रह्मा प्राह सर्वान्सुरांस्ततः . अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः .. ८३.. रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमाः . लोकपालास्तथा दिक्षु विदिक्ष्वपि च मारुताः .. ८४.. नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे . वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः .. ८५.. वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः . आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ .. ८६..