नैषधीयचरितम्
/ 87
←

Naishadhiyacaritam Sanskrit PDF & Online Reader (नैषधीयचरितम्)

Naishadhiyacaritam (नैषधीयचरितम्) by श्रीहर्षः — Sanskrit Text & PDF Download

📜 Last Proofread: 29 Sep 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 29 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
॥ नैषधीयचरितम् ॥ ॥ सर्गः 1 ॥ निपीय यस्य क्षितिरक्षिणः कथास्तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्त्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलः ॥ १.१ ॥ रसैः कथा यस्य सुधावधीरणी नलः स भूजानिरभूद्गुणाद्भुतः । सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥ १.२ ॥ पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा । कथं न सा मद्गिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ॥ १.३ ॥ अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवान्कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ॥ १.४ ॥ अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् । अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥ १.५ ॥ दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् । बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥ १.६ ॥ पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे । भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस्तपस्विताम् ॥ १.७ ॥ यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममञ्जिम । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ ॥ १.८ ॥ स्फुरद्धनुर्निस्वनतद्धनाशौगप्रगल्भवृष्टिव्ययितस्य सङ्गरे । निजस्य तेजःशिखिनः परश्शता वितेनुरिङ्गालमिवायशः परे ॥ १.९ ॥ अनल्पदग्धारिपुरानलोज्ज्वलैर्निजप्रतापैर्वलयज्ज्वलद्भुवः । प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः ॥ १.१० ॥ निवारिताष्तेन महीतलेऽखिले निरीतिभावं गमितेऽतिवृष्टयः । न तत्यजुर्नूनमनन्यविश्रमाः प्रतीपभूपालमृगीदृशां दृशः ॥ १.११ ॥ सितांशुवर्णैर्वयति स्म तद्गुणैर्महासिवेम्नः सहकृत्वरी बहुम् । दिगङ्गनाङ्गावरणं रणाङ्गणे यशःपटं तद्भटचातुरीतुरी ॥ १.१२ ॥ प्रतीपभूपैरिव किं ततो मिया विरुद्धधर्मैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारदृकारदृगप्यवर्तत ॥ १.१३ ॥ तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥ १.१४ ॥ अये दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । मृषां न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नृपः ॥ १.१५ ॥ विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः । अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरः स्थितम् ॥ १.१६ ॥ अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च । दधौ पटीयान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥ १.१७ ॥ अधोविधानात्कमलप्रवालयोः शिरुःसु दानादखिलक्षमाभुजाम् । पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥ १.१८ ॥ जगज्जयं तेन च कोशमक्षयं प्रणीतवाञ्शैशवशेषवानयम् । सखा रतीशस्य क्रतुर्यथा वनं वपुस्तथालिङ्गदथास्य यौवनम् ॥ १.१९ ॥ अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे । तदास्यदास्येऽपि गतोऽघिकारितां न शारदः पार्विकशर्वरीश्वरः ॥ १.२० ॥ किमस्य लोम्नां कपटेन कोटिभिर्विधिर्न लेखाभिरजीगणद्गुणान् । न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूषणशून्यबिन्दवः ॥ १.२१ ॥ अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता । उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता ॥ १.२२ ॥ स्वकेलिलेशस्मितनिन्दितेन्दुनो निजांशदृक्तर्जितपद्मसम्पदः । अतद्बयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥ १.२३ ॥ सरोरुहं तस्य दृशैव निर्जितं जिताः स्मितेनैव विधोरपि श्रियः । कुतः परं भव्यमहो महीयसी तदाननस्योपमितौ दरिद्रता ॥ १.२४ ॥ स्ववालभारस्य तदुत्तमाङ्गजैः समं चमर्येव तुलाभिलाषिणः । अनागसे शंसति बालचापलं पुनः पुनः पुच्छविलोलनच्छलात् ॥ १.२५ ॥ महीभ्र्तस्तस्य च मन्मथश्रिया निजस्य चित्तस्य च तं प्रतीच्छया । द्विधा नृपे तत्र जगत्त्रयीभुवां नतभ्रुवां मन्मथविभ्रमोऽभवत् ॥ १.२६ ॥ निमीलनभ्रंशजुषा दृशा भृशं निपीय तं यस्त्रिदशीभिरर्जितः । अमूस्तमभ्यासभरं विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः ॥ १.२७ ॥ अदस्तदाकर्णि फलाढ्यजीवितं दृशोर्द्वयं नस्तदवीक्षि चाफलम् । इति स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदात्मनः ॥ १.२८ ॥ विलोकयन्तीभिरजस्रभावना बलादमुं नेत्रनिमीलनेष्वपि । अलम्भि मर्त्याभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेषनिर्मितः ॥ १.२९ ॥ न का निशि स्वप्नगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम् । तदात्मताध्यातधवा रते च का चकार वा न स्वमनोभवोद्भवम् ॥ १.३० ॥ श्रियास्य योग्याहमिति स्वमीक्षितुं करे तमालोक्य सुरूपया धृतः । विहाय भैमीमप्दर्पया कया न दर्पणः श्वासमलीमसः कृतः ॥ १.३१ ॥ यथोह्यमानः खलु भोगभोजिना प्रसह्य वैरोचनिजस्य पत्तनम् । विदर्भजाया मदनस्तथा मनो नलावरुद्धं वयसैव वेशितः ॥ १.३२ ॥ नृपेऽनुरूपे निजरूपसम्पदां दिदेश तस्मिन्बहुशः श्रुतिं गते । विशिष्य सा भीमनरेन्द्रनन्दना मनोभवाज्ञैकवशंवदं मनः ॥ १.३३ ॥ उपासनामेत्य पितुः स्म रज्यते दिने दिने सावसरेषु बन्दिनाम् । पठत्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥ १.३४ ॥ कथाप्रसङ्गेषु मिथः सखीमुखात्तृणेऽपि तन्व्या नलनामनि श्रुते । द्रुतं विधूयान्यदभूयतानया मुदा तदाकर्णनसज्जकर्णया ॥ १.३५ ॥ स्मरात्परासोरनिमेषलोचनाद्विमेमि तद्भिन्नमुदाहरेति सा । जनेन यूनः स्तुवता तदास्पदे निदर्शनं नैषाधमभ्यषेचयत् ॥ १.३६ ॥ नलस्य पृष्टा निषधागता गुणान्मिषेण दूतद्विजबन्दिचारणाः । निपीय तत्कीर्तिकथामथानया चिराय तस्थे विमनायमानया ॥ १.३७ ॥ प्रियं प्रिया च त्रिजगज्जयिश्रियौ लिखाधिलीलागृहमित्तिकावपि । इति स्म सा कारुवरेण लेखितं नलस्य च स्वस्य च सख्यमीक्षते ॥ १.३८ ॥ मनोरथेन स्वपतीकृतं नलं निशि क्व सा न स्वपती स्म पश्यति ॥ अदृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम् ॥ १.३९ ॥ निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् । अदर्शि सङ्गोप्य कदाप्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥ १.४० ॥ अहो अहोभिर्महिमा हिमागमेऽप्यभिप्रपेदे प्रति तां स्मरार्दिताम् । तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभराम्बभूविरे ॥ १.४१ ॥ स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः श्रयन्तमन्तर्घटनागुणश्रियम् । कदाचिदस्या युवधैर्यलोपिनं नलोऽपि लोकादशृणोद्गुणोत्करम् ॥ १.४२ ॥ तमेव लब्ध्वावसरं ततः स्मरः शरीरशोभाजयजातमत्सरः । अमोघशक्त्या निजयेव मूर्तया तया विनिर्जेतुमियेष नैषधम् ॥ १.४३ ॥ अकारि तेन श्रवणातिथिर्गुणः क्षमाभुजा भीमनृपात्मजालयः । तदुच्चधैर्यव्ययसंहितेषुणा स्मरेण च स्वात्मशरासनाश्रयः ॥ १.४४ ॥ अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् । निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥ १.४५ ॥ अनेन भैमीं घटयिष्यतस्तथा विधेरवन्ध्येच्छतया व्यलासि तत् । अभेदि तत्तादृगनङ्गमार्गणैर्यदस्य पौष्पैरपि धैर्यकञ्चुकम् ॥ १.४६ ॥ किमन्यदद्यापि यदस्त्रतापितः पितामहो वारिजमाश्रयत्यहो । स्मरं तनुच्छायतया तमात्मनः शशाक शङ्के स न लङ्घितुं नलः ॥ १.४७ ॥ उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम् । त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥ १.४८ ॥ अपह्नुवानस्य जनाय यन्निजामधीरतामस्य कृतं मनोभुवा । अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला ॥ १.४९ ॥ स्मरोपतप्तोऽपि भृशं न स प्रभुर्विदर्भराजं तनयामयाचत । त्यजन्त्यमूञ्शर्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितव्रतम् ॥ १.५० ॥ मृषाविषादाभिनयादयं क्वचिज्जुगोप निःश्वासततिं वियोगजाम् । विलेपनस्याधिकचन्द्रभागताविभावनाच्चापललाप पाण्डुताम् ॥ १.५१ ॥ शशाक निह्नोतुमयेन तत्प्रियामयं बभाषे यदलीकवीक्षिताम् । समाज एवालपितासु वैणिकैर्मुमूर्च्छ यत्पञ्चममूर्च्छनासु च ॥ १.५२ ॥ अवाप सापत्रपतां स भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः । असंवरे शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥ १.५३ ॥ अलं नलं रोद्धुममी किलाभवन्गुणा विवेकप्रमुखा न चापलम् । स्मरः स रत्यामनिरुद्धमेव यत्सृजत्ययं सर्गनिसर्ग ईदृशः ॥ १.५४ ॥ अनङ्गचिह्नं स विना शशाक नो यदासितुं संसदि यत्नवानपि । क्षणं तदारामनिहारकैतवान्निषेवितुं देशमियेष निर्जनम् ॥ १.५५ ॥ अथ श्रिया भर्त्सितमत्स्यलाञ्छनः समं वयस्यैः स्वरहस्यवेदिभिः । पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः ॥ १.५६ ॥ अमी ततस्तस्य विभूषितं सितं जवेऽपि मानेऽपि च पौरुषाधिकम् । उपाहरन्नश्वमजस्रचञ्चलैः खुराञ्चलैः क्षोदितमन्दुरोदरम् ॥ १.५७ ॥ अथान्तरेणावटुगामिनाध्वना निशीथिनीनाथमहःसहोदरैः । निगालगाद्देवमणेरिवोत्थितैर्विराजितं केसरकेशरश्मिभिः ॥ १.५८ ॥ अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः । रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ १.५९ ॥ चलाचलप्रोथतया महीभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् । अलं गिरा वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् ॥ १.६० ॥ महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशः सितम् । रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमर्वतां रवेः ॥ १.६१ ॥ सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य च । स्फुटं चलच्चामरयुग्मचिह्ननैरनिह्नुवानं निजवाजिराजताम् ॥ १.६२ ॥ अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गुवल्गया । उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥ १.६३ ॥ स सिन्धुजं शीतमहःसहोदरं हरन्तमुच्चैःश्रवसः श्रियं हयम् । जिताखिलक्ष्माभृदनल्पलोचनस्तमारुरोह क्षितिपाकशासनः ॥ १.६४ ॥ निजा मयूखा इव तीक्ष्णदीधितिं स्फुटारविन्दाङ्कितपाणिपङ्कजम् । तमश्ववारा जवनाश्वयायिनं प्रकाशरूपा मनुजेशमन्वयुः ॥ १.६५ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 29 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine