मुण्डकोपनिषद्भाष्यम्
/ 2
←

Mundakopanishadbhashyam Telugu PDF & Online Reader (ముణ్డకోపనిషద్భాష్యమ్)

Mundakopanishadbhashyam (मुण्डकोपनिषद्भाष्यम्) by Madhvacharya (मध्वाचार्यः) — Telugu Text & PDF Download

📜 Last Proofread: 17 Oct 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 17 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
मुण्डकोपनिषद्भाष्यम् (मूलम् — मुण्डकोपनिषत्) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः)
📖 1.1 ▼
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १ ॥
📖 2.1 ▼
आनन्दमजरं नित्यमजमक्षयमच्युतम् । अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥
📖 1.1 ▼
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २ ॥ शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥ तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति । परा चैवापरा च ॥ ४ ॥ तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥
📖 2.1 ▼
‘ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ॥’ इति परमसंहितायाम् । ‘ऋग्भिर्हौत्रेण(ऋग्भिर्होत्रेण) शंसन्ति तथौद्गात्रैः(तथोद्गात्रे) स्तुवन्ति ये । विष्णुमेव (च) तथा तस्मै यजुर्भिरपि जुह्वति ॥ स्तुवन्त्यथर्वणैश्चैनं सेतिहासपुराणकैः । न विष्णुसदृशं किञ्चित् परमं वाऽपि मन्वते ॥ सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः ॥’ ‘वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥’
📖 1.1 ▼
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥ यस्सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ॥ ९ ॥
📖 2.1 ▼
एतद्ब्रह्म चतुर्मुखः ॥
📖 1.1 ▼
तदेतत् सत्यम् । मन्त्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥
📖 2.1 ▼
तदेतत्सत्यं भगवान् । तत्कामाः कर्माण्याचरथ । तदा साऽपि परविद्या । अन्यथा ‘प्लवा ह्येते अदृढा यज्ञरूपाः’ । भगवद्विषयत्वेन कृते एष वः पुण्यः सुकृतो ब्रह्मलोकः । परब्रह्मलोकः ।
📖 1.1 ▼
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २ ॥ यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३ ॥ काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥ एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥ एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥ प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥ ७ ॥ अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितंमन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ॥ ८ ॥ अविद्यायां बहुधाः वर्तमाना स्वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥ इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ १० ॥
📖 2.1 ▼
विष्णोः सर्वेभ्यः किञ्चिदुत्तमत्वं जानन्त इमं लोकमाविशन्ति । साम्यं हीनत्वं वा जानन्तो हीनतरं तम एवाविशन्ति(नामाविशन्ति) ॥
📖 1.1 ▼
तपःश्रद्धे येऽभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥ परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥ तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥ तदेतत् सत्यम् । यथा सुदीप्तात् पावकाद् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥ दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २ ॥
📖 2.1 ▼
‘अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । अक्षरं परमं श्रीस्तु परतः परमक्षरम् ॥ वासुदेवः परानन्दः इति त्रिविधमक्षरम् ॥’ इति च ॥ २ ॥
📖 1.1 ▼
एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥ अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग् विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
📖 2.1 ▼
‘विष्ण्वङ्गानां हि नामानि द्युभ्वादीनि तु सर्वशः । क्रीडादिशक्तिरूपत्वात् तज्जत्वादन्यवस्तुषु ॥’ इति च ॥ ४ ॥
📖 1.1 ▼
तस्मादग्निः समिधो यश्च सूर्यः सोमात् पर्जन्यौषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५ ॥
📖 2.1 ▼
‘वासुदेवः पुमान्नामा पूर्णत्वात् स स्वयोषिति । रमायां गर्भमदधात् प्रजास्तस्मात् प्रजज्ञिरे ॥’ इति च ॥
📖 1.1 ▼
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥ तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥ सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः । इमे लोका येषु चरन्ति प्राणा गुहाशयां निहिताः सप्त सप्त ॥ ८ ॥
📖 2.1 ▼
सप्तार्चिषो वृत्तयः । होमाः सम्बन्धाः । लोकाः गोलकाः । गुहाशयां बुद्धौ । ‘लोपः समाने’ इति सूत्रादेकयकारलोपः । प्रतिपुरुषं सप्त सप्त ॥ ८ ॥
📖 1.1 ▼
अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥ पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद् यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरति ह सोम्य ॥ १० ॥
📖 2.1 ▼
भगवतः कर्म चेष्टा तपो ज्ञानं च परामृतब्रह्माख्यः पुरुषो भगवानेव ।
📖 1.1 ▼
आविः सन्निहितं गुहाचरं नाम महत् पदम् । अत्रैतत् सर्वमर्पितमेजत् प्राणन्निमिषच्च यत् ॥ १ ॥ एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद् यद्वरिष्ठं प्रजानाम् । यदर्चिमद् यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ २ ॥
📖 2.1 ▼
विज्ञानाद् ब्रह्मणः परम् । ‘नाभिहृदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः’ इति (हि)भागवते ।
📖 1.1 ▼
तदेतक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥ ३ ॥
📖 2.1 ▼
‘प्राणः प्रणयनाद्विष्णुर्वक्तृत्वाद्वागुदीरितः । मनो मन्तृत्वतो विष्णुः सर्वजीवनियामकः ॥’ इति शब्दनिर्णये ॥
📖 1.1 ▼
धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्दधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ४ ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ ५ ॥ यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ६ ॥
📖 2.1 ▼
अमृतस्य मुक्तस्य सेतुः । ‘मुक्तोपसृप्यव्यपदेशात्’ । ‘मुक्तानां परमा गतिः’ इत्यादेः ॥ ६ ॥
📖 1.1 ▼
अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः ॥ ७ ॥
📖 2.1 ▼
‘हृदयस्थः सदा विष्णुर्बहुधा चैकधाभवेत्(बहुधा चैकधाऽभवत्) । चरति स्वेच्छयैवान्तः सर्वजीवान्नियामयन् ॥’ इति प्रवृत्ते ॥ ७ ॥
📖 1.1 ▼
ओमित्येवं ध्यायत आत्मानं स्वस्तिवः पराय तमसः परस्तात् ॥ ८ ॥ यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा सम्प्रतिष्ठितः ॥ ९ ॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति ॥ १० ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । तक्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ११ ॥
📖 2.1 ▼
‘परा अप्यवरा यस्मात् स हि विष्णुः परावरः ॥ ११ ॥
📖 1.1 ▼
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १२ ॥
📖 2.1 ▼
ब्रह्माण्डमध्यगो नित्यं तपत्येष रवौ स्थितः ॥’ इति च ॥ १२ ॥
📖 1.1 ▼
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १३ ॥
📖 2.1 ▼
सूर्यादयस्तं न भासयन्ति ॥ १३ ॥
📖 1.1 ▼
ब्रह्मैवेदममृतं पुरस्ताद् पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १४ ॥
📖 2.1 ▼
इदं ब्रह्मैव विश्वं पूर्णम् । इदमेव (च) वरिष्ठं सर्वोत्तमम् । इदंशब्दानां बहुत्वाद् ब्रह्मविषय एवेदंशब्दः ॥ १४ ॥
📖 1.1 ▼
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १ ॥
📖 2.1 ▼
स्वादुवत्सर्वदाऽत्ति । न तु स्वाद्वेव(न त्वस्वाद्वेव) । ‘तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद’ इत्यज्ञानां स्वादुनिषेधात् । जीवाद्यमेव नाश्नाति भगवान् । न तु नाश्नात्येव । ‘तस्येदाहुः पिप्पलं स्वादु’ इत्युक्तत्वात् ।
📖 1.1 ▼
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २ ॥
📖 2.1 ▼
‘नास्तीशोऽस्या यतोऽन्यो हि ततोऽनीशा हरेर्मतिः । तया मुह्यति जीवस्तमन्यं ज्ञात्वा विमुच्यते ॥ जीवादन्यः स्वतन्त्रोऽयं(स्वतन्त्रो यो) यतोऽतः पुरुषोत्तमः ॥’ इति ब्रह्मसारे ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 17 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine