मनुस्मृतिः
/ 34
←

Manusmriti Tamil PDF & Online Reader (மநுஸ்ம்ருʼதி꞉)

Manusmriti (मनुस्मृतिः) by मनुः — Tamil Text & PDF Download

📜 Last Proofread: 09 Aug 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 09 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
॥ मनुस्मृतिः (मानवधर्मशास्त्रम्) ॥ ॥ अध्याय १ ॥ मनुमेकाग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १.१ ॥ भगवन् सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ १.२ ॥ त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ १.३ ॥ स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः । प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ॥ १.४ ॥ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ १.५ ॥ ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि वृत्तोजाः प्रादुरासीत्तमोनुदः ॥ १.६ ॥ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥ १.७ ॥ स एष सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ १.८ ॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ १.९ ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १.१० ॥ यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मैति कीर्त्यते ॥ १.११ ॥ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥ १.१२ ॥ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ १.१३ ॥ उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥ १.१४ ॥ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः पञ्चैन्द्रियाणि च ॥ १.१५ ॥ तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् । संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १.१६ ॥ यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥ १.१७ ॥ तदाविशन्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ १.१८ ॥ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्व्ययम् ॥ १.१९ ॥ आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥ १.२० ॥ सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १.२१ ॥ कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ १.२२ ॥ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृच् । यजुस् । सामलक्षणम् ॥ १.२३ ॥ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागरान् शैलान् समानि विषमानि च ॥ १.२४ ॥ तपो वाचं रतिं चैव कामं च क्रोधमेव च । सृष्टिं ससर्ज चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः ॥ १.२५ ॥ कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । विवेकाय द्वन्द्वैरयोजयच्चैमाः सुखदुःखादिभिः प्रजाः ॥ १.२६ ॥ अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः ॥ १.२७ ॥ यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ १.२८ ॥ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ १.२९ ॥ यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये । स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ १.३० ॥ लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१ ॥ द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ १.३२ ॥ तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ १.३३ ॥ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन् प्रजानामसृजं महर्षीनादितो दश ॥ १.३४ ॥ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ १.३५ ॥ एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः । देवान् देवनिकायांश्च महर्षींश्चामितोजसः ॥ १.३६ ॥ यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम् ॥ १.३७ ॥ पितॄणां विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च । उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ १.३८ ॥ किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् । पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ १.३९ ॥ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ १.४० ॥ एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् ॥ १.४१ ॥ येषां तु यादृशं कर्म भूतानामिह कीर्तितम् । तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ १.४२ ॥ पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ १.४३ ॥ मनुषाश्च अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः । यानि चैवम् । प्रकाराणि स्थलजान्यौदकानि च ॥ १.४४ ॥ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृशम् ॥ १.४५ ॥ उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ १.४६ ॥ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ १.४७ ॥ गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥ १.४८ ॥ तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तस्सञ्ज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ १.४९ ॥ एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ १.५० ॥ एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ १.५१ ॥ यदा स देवो जागर्ति तदेवं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ १.५२ ॥ तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः । स्वपति स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ १.५३ ॥ युगपत्तु प्रलीयन्ते यदा तस्मिन् महात्मनि । तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ १.५४ ॥ तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ १.५५ ॥ यदाऽणुमात्रिको भूत्वा बीजं स्थाणु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥ १.५६ ॥ एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् । सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥ १.५७ ॥ इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः । विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ १.५८ ॥ एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः । एतधि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ १.५९ ॥ ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः । तानब्रवीदृषीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥ १.६० ॥ स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ १.६१ ॥ स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ १.६२ ॥ स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः । स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ १.६३ ॥ निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला । त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ १.६४ ॥ अहोरात्रे विभजते सूर्यो मानुषदैविके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ १.६५ ॥ पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ १.६६ ॥ दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १.६७ ॥ ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः । एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ १.६८ ॥ चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । तस्य तावत्शती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ १.६९ ॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १.७० ॥ यदेतत्परिसङ्ख्यातमादावेव चतुर्युगम् । एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ १.७१ ॥ दैविकानां युगानां तु सहस्रं परिसङ्ख्यया । ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ॥ १.७२ ॥ तावती रात्रिरेव च तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥ १.७३ ॥ तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते । प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥ १.७४ ॥ मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः ॥ १.७५ ॥ आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥ १.७६ ॥ वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥ १.७७ ॥ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ १.७८ ॥ यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम् । तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ १.७९ ॥ मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च । क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः ॥ १.८० ॥ चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे । नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते ॥ १.८१ ॥ उपवर्तते इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः । चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥ १.८२ ॥ अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः ॥ १.८३ ॥ वयो ह्रसति
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 09 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine