माण्डूक्योपनिषद्भाष्यम्
/ 2
←

Mandukyopanishadbhashyam Kannada PDF & Online Reader (ಮಾಣ್ಡೂಕ್ಯೋಪನಿಷದ್ಭಾಷ್ಯಮ್)

Mandukyopanishadbhashyam (माण्डूक्योपनिषद्भाष्यम्) by Madhvacharya (मध्वाचार्यः) — Kannada Text & PDF Download

📜 Last Proofread: 22 Aug 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 22 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
माण्डूक्योपनिषद्भाष्यम् (मूलम् — माण्डूक्योपनिषत्) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः)
📖 2.1 ▼
पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम् । चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम् ॥
📖 1.1 ▼
ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भवद् भविष्यदिति ॥ १ ॥
📖 2.1 ▼
मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते(नारायणोऽत्र स्तूयते) । ‘ध्यायन् नारायणं देवं प्रणवेन समाहितः । मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम् ॥’ इति पाद्मे । ‘ओमित्युक्तं तु यद्ब्रह्म तदक्षरमुदाहृतम् । ओतमत्र जगद्यस्मादों तस्माद् भगवान् हरिः ॥ तदिदं गुणपूर्त्यैव सर्वमित्येव शब्दितम् । भाविभूतभवत्कालेष्वेकरूपतया हरिः । सर्वदा नित्य इत्येषा व्याख्योङ्कारस्य कीर्तिता ॥’ इति बृहत्संहितायाम् । ‘ओमित्याक्रियते यस्मादोङ्कारोऽसावतः परः । सर्वत्वमिति पूर्णत्वं तन्नान्यस्य हरेः क्वचित् ॥’ इति नैर्गुण्ये । सर्वमोङ्कार एवेत्यन्यस्य पूर्णत्वनिवारणम् । त्रिकालातीतत्वं च तस्यैव । प्रकृतेरपि त्रिकालातीतत्वं विद्यत इत्यन्यदिति विशेषणम् ॥ १ ॥
📖 1.1 ▼
सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद् ब्रह्म । अयमात्मा ब्रह्म ॥ २ ॥ सोयमात्मा चतुष्पात् ॥
📖 2.1 ▼
‘परमं यो महद्ब्रह्म’, ‘तदेव ब्रह्म परमं कवीनाम्’, ‘पूर्णमदः पूर्णमिदम्’ इत्यादिषु प्रसिद्धं च ब्रह्मणः (परिपूर्णत्वमित्याह)पूर्णत्वमित्याह– सर्वं ह्येतद् ब्रह्मेति । श्रीब्रह्मादिसकलदेहेषु स्थित्वाऽऽदानादिकर्ता योऽयं कश्चित् प्रतीयते । जीवानामस्वातन्त्र्यदर्शनात् । सोऽपि स एवेति दर्शयति– अयमात्मा ब्रह्मेति । ‘पूर्णस्तु हरिरेवैको नान्यत् पूर्णं कदाचन । विना च प्रकृतिं नान्यत् कालातीतं परात्मनः ॥ कालश्चैव दिशो वेदाः प्रकृत्यात्मान ईरिताः । अभिमानात्तु जीवानां न कालातीतता भवेत् ॥ मुक्तानामपि पूर्वत्र कालसम्बन्ध ईरितः । पूर्णत्वं च सदा विष्णोः प्रसिद्धं सर्ववेदतः ॥ सोऽयं विष्णू रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा तेषामगोचरः ॥ इति मण्डूकरूपी सन् ददर्श वरुणः श्रुतिम्(स्वयम्) ॥’ इति हरिवंशेषु ॥ २ ॥
📖 1.1 ▼
जागरितस्थानो बहिःप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः ॥ ३ ॥
📖 2.1 ▼
चतुर्धाऽवस्थितो देहे परमात्मा सनातनः । वैश्वानरो जागरितस्थानगो गजवक्त्रकः ॥ निर्माता बाह्यसंवित्तेर्जीवानां तदगोचरः । अष्टादशमुखान्यस्य पुमाकाराणि सर्वशः ॥ मध्यमं तु गजाकारं चतुर्बाहुः परः पुमान् । पादौ हस्तिकरो हस्ता इति सप्ताङ्ग ईरितः ॥ स्थूलान् भोगानिन्द्रियैः स शुभान् भुङ्क्ते न चाशुभान् । विश्वं स्थूलं समुद्दिष्टं सर्वगम्यत्वहेतुतः ॥ तत्सम्बन्धी नरोऽनाशाद् वैश्वानर उदाहृतः । विनायकस्तु विश्वस्य ध्यानादैद् गजवक्त्रताम् ॥ तथैव तैजसध्यानात् त्रिध्यानादिन्द्र इन्द्रताम् । चतुर्ध्यानाच्च रुद्रत्वं रुद्र आप जनार्दनात् ॥ एवम्भूतगुणो विष्णुश्चतुरात्मा परात्परः ॥’ इति महायोगे ॥ ३ ॥
📖 1.1 ▼
स्वप्नस्थानोऽन्तप्रज्ञः । सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥
📖 2.1 ▼
‘जाग्रद्दर्शनसंस्काररूपत्वात् स्वप्नगं तु यत् । प्रविविक्तं तु तज्ज्ञानकारणोऽन्तर्ज्ञ उच्यते ॥’ इति वाराहे ॥ ४ ॥
📖 1.1 ▼
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥
📖 2.1 ▼
‘सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः । न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना ॥ कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम् । चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः ॥ न बाह्यं ज्ञापयेद्यस्माद् प्राज्ञस्तेन जनार्दनः । एकीभावं व्रजेतां च तेन विश्वश्च तैजसः ॥ एकीभूतस्त्वतः(एकीभूतस्तदा) प्राज्ञो घनो जीवस्तमोवृतः । तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात् ॥’ इति प्रकाशिकायाम् । आनन्दमयः पूर्णानन्दः । चेतोमुखः ज्ञानस्वरूपमुखः । प्रज्ञानघन इति विपरीतसमासः । घनप्रज्ञ इति वक्ष्यमाणत्वात् । विषयभोगं विनाऽऽनन्दमात्रभुक्त्वादानन्दभुगिति विशेषः । आनन्दमयचेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादिचतुष्टयेऽपि समम् (आनन्दमयचेतोमुखसर्वज्ञत्वसर्वेश्वरादिचतुष्टयेऽपि समः) । अन्यत्रातिदेशार्थमेकत्रानन्दमयत्वं चेतोमुखत्वं चोक्तम् ॥ ५ ॥
📖 1.1 ▼
एष सर्वेश्वर एष सर्वज्ञः एषोऽन्तर्यामी । एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
📖 2.1 ▼
एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः ॥ ‘परमात्मा चतूरूपः सर्वप्राणिशरीरगः । विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते ॥ तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु । चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः ॥ मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः । तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद् विभोः ॥ ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः ॥’ इति मार्कण्डेये ॥ पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा । यथाऽऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन ॥ इति ब्रह्मतर्के ॥ ६ ॥
📖 1.1 ▼
अत्रैते श्लोका भवन्ति । बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ ७ ॥
📖 2.1 ▼
‘प्रमाणस्य प्रमाणं च बलवद् विद्यते मुने । ब्रह्मदृष्टान् यतो मन्त्रान् प्रमाणं सलिलेश्वरः ॥ अत्र श्लोका भवन्तीति चकारैव पृथक् पृथक् ॥’ इति गारुडे । खण्डचतुष्टयेऽपि(खण्डचतुष्टये) पृथक् पृथक् ॥ ७ ॥
📖 1.1 ▼
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ ८ ॥ विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ९ ॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दं च तथा प्राज्ञं त्रिधा तृप्तिं विजानथ ॥ १० ॥ त्रिषु धामसु यद् भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ११ ॥ प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोंशून् पुरुषः पृथक् ॥ १२ ॥
📖 2.1 ▼
‘प्रभवः सर्वभावानां विष्णुरेव न संशयः । इत्थं सतां निश्चयः स्यादन्यथा त्वसतां भवेत् ॥ सर्वस्य हि प्रणेतृत्वात् प्राणो नारायणः परः’ ॥ १२ ॥
📖 1.1 ▼
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ १३ ॥ इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ १४ ॥
📖 2.1 ▼
‘तां सृष्टिं बहुधा प्राहुर्ज्ञानिनोऽज्ञानिनस्तथा । विष्णुर्विकृतिमायाति महदादिस्वरूपिणीम् ॥ तत्तद्विविधभूतिस्तु सृष्टिः प्रोक्ता ह्यपण्डितैः । स्वप्नमायास्वरूपां(स्वप्नमायासरूपां) च केचिदज्ञा जना विदुः ॥ अविकारस्य चिन्मात्रस्वेच्छयैवाखिलं जगत् । उत्पद्यत इति प्राज्ञाः प्राहुर्ब्रह्मादयोऽखिलाः ॥ पूर्णशक्तेः कुतो माया सार्वज्ञात् स्वप्नवत् कुतः । सर्वदोषव्यतीतस्य विकारः कुत इष्यते ॥ तस्मादेवाविकारस्य विष्णोरिच्छावशादिदम् । यथार्थमेव सम्भूतमिति वेदवचोऽखिलम् ॥ केचित् कालत एवैतां सृष्टिमाहुरकोविदाः । केचिद्रुद्राद् ब्रह्मणश्च प्रधानादिति चापरे ॥ विमूढाः सर्व एवैते यतो नारायणः परः । सर्वकर्ता सर्वशक्तिरेक एव न चापरः(एक एव च नापरः) ॥ प्रधानकालब्रह्मेशमुखाः सर्वेऽपि तद्वशाः ।
📖 1.1 ▼
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैषः स्वभावोऽयमाप्तकामस्य का स्पृहेति ॥ १५ ॥
📖 2.1 ▼
तस्यापि विष्णोः सृष्टिं तु केचिदाहुरनैपुणाः ॥ अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः । सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्त्या स्पृहा विभोः ॥’ इति हरिवंशेषु ॥
📖 1.1 ▼
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टमव्यवहार्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः ॥ १ ॥
📖 2.1 ▼
‘विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः । मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते ॥ सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम् । अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम् ॥ अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च । बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च ॥ यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता । एतत्सर्वं तुरीयेण रूपेण न करोत्यजः ॥ सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः ॥’ इति ब्रह्माण्डे । ‘अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते । तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः ॥ विना मुक्तिं यतस्तेना(ततस्तेना)व्यवहार्य इतीरितः । जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम् ॥ अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च । तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः ॥ मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः । एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः ॥ तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितः । प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः ॥ प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः । उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः ॥ प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः । प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः ॥ निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः । अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः ॥ अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः ॥’ इति माहात्म्ये ॥ ‘अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपता । इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते ॥’ इति सङ्कल्पे । ‘स आत्मा स विज्ञेयः’ इति सोऽयमात्मा चतुष्पादिति चतुर्धा विभक्त उच्यते उपसंहारार्थम् । ‘सोऽयमात्माऽध्यक्षरम्’ इति पृथगारम्भात् । ‘विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः । निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः ॥’ इति प्रत्यये ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 22 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine