महाभारतम्
/ 889
←

Mahabharatam Tamil PDF & Online Reader (மஹாபா⁴ரதம்)

Mahabharatam (महाभारतम्) by Vedavyasa (वेदव्यासः) — Tamil Text & PDF Download

📜 Last Proofread: 26 Oct 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 26 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ ० ॥ लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ १ ॥ समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ २ ॥ तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः । चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ ३ ॥ अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ ४ ॥ अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥ ५ ॥ सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ ६ ॥ कुत आगम्यते सौते क्व चायं विहृतस्त्वया । कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ ७ ॥ सूत उवाच । जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः । समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥ ८ ॥ कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः । कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥ ९ ॥ श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः । बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥ १० ॥ समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा । पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ ११ ॥ दिदृक्षुरागतस्तस्मात्समीपं भवतामिह । आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ १२ ॥ अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः । कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ १३ ॥ पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः । इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ १४ ॥ ऋषय ऊचुः । द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ १५ ॥ तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ १६ ॥ भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ १७ ॥ जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् । यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥ १८ ॥ वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः । संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥ १९ ॥ सूत उवाच । आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ २० ॥ असच्च सच्चैव च यद्विश्वं सदसतः परम् । परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ २१ ॥ मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ २२ ॥ महर्षेः पूजितस्येह सर्वलोके महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ २३ ॥ आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे । आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥ २४ ॥ इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ २५ ॥ अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥ २६ ॥ निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते । बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥ २७ ॥ युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते । यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥ २८ ॥ अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ २९ ॥ यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ ३० ॥ प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ ३१ ॥ पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः । विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥ ३२ ॥ यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥ ३३ ॥ राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥ ३४ ॥ संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥ ३५ ॥ यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् । पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ ३६ ॥ यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ३७ ॥ एवमेतदनाद्यन्तं भूतसंहारकारकम् । अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥ ३८ ॥ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ॥ ३९ ॥ दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥ ४० ॥ पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः । देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥ ४१ ॥ सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥ ४२ ॥ दश पुत्रसहस्राणि दशज्योतेर्महात्मनः । ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ ४३ ॥ भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ ४४ ॥ ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ ४५ ॥ भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥ ४६ ॥ धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च । लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥ ४७ ॥ इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च । इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ ४८ ॥ विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ ४९ ॥ मन्वादि भारतं केचिदास्तीकादि तथापरे । तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥ ५० ॥ विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥ ५१ ॥ तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ ५२ ॥ पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ ५३ ॥ क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ ५४ ॥ उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ५५ ॥ तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ ५६ ॥ जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥ ५७ ॥ स सदस्यैः सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ ५८ ॥ विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् । क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥ ५९ ॥ वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ ६० ॥ चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ ६१ ॥ ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः । अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥ ६२ ॥ इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥ ६३ ॥ नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ ६४ ॥ दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥ ६५ ॥ युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ६६ ॥ पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ॥ ६७ ॥ मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ ६८ ॥ मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥ ६९ ॥ तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः । मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥ ७० ॥ ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् । शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ ७१ ॥ पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ ७२ ॥ तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ ७३ ॥ आहुः केचिन्न तस्यैते तस्यैत इति चापरे । यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ ७४ ॥ स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् । उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ ७५ ॥ तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् । अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥ ७६ ॥ पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः । आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ ७७ ॥ तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः । शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ ७८ ॥ तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च । न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ ७९ ॥ युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ ८० ॥ गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ ८१ ॥ समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ ८२ ॥ ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ ८३ ॥ स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ ८४ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 26 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine