कुमारसम्भवम्
/ 9
←

Kumarasambhavam Kannada PDF & Online Reader (ಕುಮಾರಸಮ್ಭವಮ್)

Kumarasambhavam (कुमारसम्भवम्) by Kalidasa (कालिदासः) — Kannada Text & PDF Download

📜 Last Proofread: 17 Sep 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 17 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
अस्त्य् उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश् च पृथूपदिष्टां दुदुहुर् धरित्रीम् ॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्व् इवाङ्कः ॥ यश् चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर् बिभर्ति । बलाहकच्छेदविभक्तरागाम् अकालसन्ध्याम् इव धातुमत्ताम् ॥ आमेखलं सञ्चरतां घनानां च्छायाम् अधःसानुगतां निषेव्य । उद्वेजिता वृष्टिभिर् आश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥ पदं तुषारस्रुतिधौतरक्तं यस्मिन्न् अदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्गं नखरन्ध्रमुक्तैर् मुक्ताफलैः केसरिणां किराताः ॥ न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणाम् अनङ्गलेखक्रिययोपयोगम् ॥ यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन । उद्गास्यताम् इच्छति किंनराणां तानप्रदायित्वम् इवोपगन्तुम् ॥ कपोलकण्डूः करिभिर् विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥ वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्याम् अतैलपूराः सुरतप्रदीपाः ॥ उद्वेजयत्य् अङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र । न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिम् अश्वमुख्यः ॥ दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतम् इवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वम् उच्चैःशिरसां सतीव ॥ लाङ्गूलविक्षेपविसर्पिशोभैर् इतस् ततश् चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश् चमर्यः ॥ यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किम्पुरुषाङ्गनानाम् । दरीगृहद्वारविलम्बिबिम्बास् तिरस्करिण्यो जलदा भवन्ति ॥ भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः । यद् वायुर् अन्विष्टमृगैः किरातैर् आसेव्यते भिन्नशिखण्डिबर्हः ॥ सप्तर्षिहस्तावचितावशेषाण्य् अधो विवस्वान् परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्य् ऊर्ध्वमुखैर् मयूखैः ॥ यज्ञाङ्गयोनित्वम् अवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयम् अन्वतिष्ठत् ॥ स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनाम् अपि माननीयाम् आत्मानुरूपां विधिनोपयेमे ॥ कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे । मनोरमं यौवनम् उद्वहन्त्या गर्भोऽभवद् भूधरराजपत्न्याः ॥ असूत सा नागवधूपभोग्यं मैनाकम् अम्भोनिधिबद्धसख्यम् । क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राव् अवेदनाज्ञं कुलिशक्षतानाम् ॥ अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी । सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ॥ सा भूधराणाम् अधिपेन तस्यां समाधिमत्याम् उदपादि भव्या । सम्यक्प्रयोगाद् अपरिक्षतायां नीताव् इवोत्साहगुणेन सम्पत् ॥ प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ॥ तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे । विदूरभूमिर् नवमेघशब्दाद् उद्भिन्नया रत्नशलाकयेव ॥ दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान् विशेषाञ् ज्योत्स्नान्तराणीव कलान्तराणि ॥ तां पार्वतीत्य् आभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव । उ मेति मात्रा तपसो निषिद्धा पश्चाद् उमाख्यां सुमुखी जगाम ॥ महीभृतः पुत्रवतोऽपि दृष्टिस् तस्मिन्न् अपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर् हि चूते द्विरेफमाला सविशेषसङ्गा ॥ प्रभामहत्या शिखयेव दीपस् त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश् च विभूषितश् च ॥ मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश् च । रेमे मुहुर् मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥ तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तम् इवात्मभासः । स्थिरोपदेशाम् उपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥ असम्भृतं मण्डनम् अङ्गयष्टेर् अनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं साथ वयः प्रपेदे ॥ उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर् भिन्नम् इवारविन्दम् । बभूव तस्याश् चतुरस्रशोभि वपुर् विभक्तं नवयौवनेन ॥ अभ्युन्नताङ्गुष्ठनखप्रभाभिर् निक्षेपणाद् रागम् इवोद्गिरन्तौ । आजह्रतुस् तच्चरणौ पृथिव्यां स्थलारविन्दश्रियम् अव्यवस्थाम् ॥ सा राजहंसैर् इव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैर् आदित्सुभिर् नूपुरसिञ्जितानि ॥ वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस् तदीये । शेषाङ्गनिर्माणविधौ विधातुर् लावण्य उत्पाद्य इवास यत्नः ॥ नागेन्द्रहस्तास् त्वचि कर्कशत्वाद् एकान्तशैत्यात् कदलीविशेषाः । लब्ध्वापि लोके परिणाहि रूपं जातास् तदूर्वोर् उपमानबाह्याः ॥ एतावता नन्व् अनुमेयशोभं काञ्चीगुणस्थानम् अनिन्दितायाः । आरोपितं यद् गिरिशेन पश्चाद् अनन्यनारीकमनीयम् अङ्कम् ॥ तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः । नीवीम् अतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेर् इवार्चिः ॥ मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानम् इव प्रयुक्तम् ॥ अन्योन्यम् उत्पीडयद् उत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरम् अप्य् अलभ्यम् ॥ शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाव् इति मे वितर्कः । पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥ कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥ चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीम् अभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिम् अवाप लक्ष्मीः ॥ पुष्पं प्रवालोपहितं यदि स्यान् मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद् विशदस्य तस्यास् ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ स्वरेण तस्याम् अमृतस्रुतेव प्रजल्पितायाम् अभिजातवाचि । अप्य् अन्यपुष्टा प्रतिकूलशब्दा श्रोतुर् वितन्त्रीर् इव ताड्यमाना ॥ प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस् ततो गृहीतं नु मृगाङ्गनाभिः ॥ तस्याः शलाकाञ्जननिर्मितेव कान्तिर् भ्रुवोर् आनतलेखयोर् या । तां वीक्ष्य लीलाचतुराम् अनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ लज्जा तिरश्चां यदि चेतसि स्याद् असंशयं पर्वतराजपुत्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्युर् वालप्रियत्वं शिथिलं चमर्यः ॥ सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्नाद् एकस्थसौन्दर्यदिदृक्षयेव ॥ तां नारदः कामचरः कदा चित् कन्यां किल प्रेक्ष्य पितुः समीपे । समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ गुरुः प्रगल्भेऽपि वयस्य् अतोऽस्यास् तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर् न हि मन्त्रपूतम् अर्हन्ति तेजांस्य् अपराणि हव्यम् ॥ अयाचितारं न हि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधुर् माध्यस्थ्यम् इष्टेऽप्य् अवलम्बतेऽर्थे ॥ यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज । तदाप्रभृत्य् एव विमुक्तसङ्गः पतिः पशूनाम् अपरिग्रहोऽभूत् ॥ स कृत्तिवासास् तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्रेर् मृगनाभिगन्धि किं चित् क्वणत्किंनरम् अध्युवास ॥ गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर् दधानाः । मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥ तुषारसङ्घातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान् । दृष्टः कथं चिद् गवयैर् विविग्नैर् असोढसिंहध्वनिर् उन्ननाद ॥ तत्राग्निम् आधाय समित्समिद्धं स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः । स्वयं विधाता तपसः फलानां केनापि कामेन तपश् चचार ॥ अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः स्वर्गौकसाम् अर्चितम् अर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥ प्रत्यर्थिभूताम् अपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने । विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥ अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशम् उपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥ तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः ॥ तेषाम् आविर् अभूद् ब्रह्मा परिम्लानमुखश्रियाम् । सरसां सुप्तपद्मानां प्रातर् दीधितिमान् इव ॥ अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । वागीशं वाग्भिर् अर्थ्याभिः प्रणिपत्योपतस्थिरे ॥ नमस् त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद् भेदम् उपेयुषे ॥ यद् अमोघम् अपाम् अन्तर् उप्तं बीजम् अज त्वया । अतश् चराचरं विश्वं प्रभवस् तस्य गीयसे ॥ तिसृभिस् त्वम् अवस्थाभिर् महिमानम् उदीरयन् । प्रलयस्थितिसर्गाणाम् एकः कारणतां गतः ॥ स्त्रीपुंसाव् आत्मभागौ ते भिन्नमूर्तेः सिसृक्षया । प्रसूतिभाजः सर्गस्य ताव् एव पितरौ स्मृतौ ॥ स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते । यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ जगद्योनिर् अयोनिस् त्वं जगदन्तो निरन्तकः । जगदादिर् अनादिस् त्वं जगदीशो निरीश्वरः ॥ आत्मानम् आत्मना वेत्सि सृजस्य् आत्मानम् आत्मना । आत्मना कृतिना च त्वम् आत्मन्य् एव प्रलीयसे ॥ द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर् गुरुः । व्यक्तो व्यक्तेतरश् चासि प्राकाम्यं ते विभूतिषु ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 17 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine