श्रीकृष्णाष्टकम्
(पालयाच्युत - श्रीवादिराजतीर्थविरचितम्)
॥ ध्रुवपदम् ॥
पालयाच्युत पालयाजित पालय कमलालय ।
लीलया धृतभूधराम्बुरुहोदर स्वजनोदर ॥
मध्वमानसपद्मभानुसमं स्मरप्रतिमं स्मर स्निग्धनिर्मलशीतकान्तिलसन्मुखं करुणोन्मुखम् ।
हृद्यकम्बुसमानकन्धरमक्षयं दुरितक्षयं स्निग्धसंस्तुतरौप्यपीठकृतालयं हरिमालयम् ॥ १ ॥
अङ्गदादिसुशोभिपाणियुगेन सङ्क्षुभितैनसं तुङ्गमाल्यमणीन्द्रहारसरोरसं खलनीरसम् ।
मङ्गलप्रदमन्थदामविराजितं भजताजितं तं गृणे वररौप्यपीठकृतालयं हरिमालयम् ॥ २ ॥
पीनरम्यतनूदरं भज हे मनः शुभ हे मनः स्वानुभावनिदर्शनाय दिशन्तमर्थिसुशन्तमम् ।
आनतोऽस्मि निजार्जुनप्रियसाधकं खलबाधकं हीनतोज्झितरौप्यपीठकृतालयं हरिमालयम् ॥ ३ ॥
हैमकिङ्किणिमालिकारसनाञ्चितं तमवञ्चितं कम्रकाञ्चनवस्त्रचित्रकटिं घनप्रभया घनम् ।
नम्रनागकरोपमोरुमनामयं शुभधीमयं नौम्यहं वररौप्यपीठकृतालयं हरिमालयम् ॥ ४ ॥
वृत्तजानुमनोज्ञजङ्घममोहदं परमोहदं रत्नकल्पनखत्विषा हृतहृत्तमस्ततिमुत्तमम् ।
प्रत्यहं रचितार्चनं रमया स्वयागतया स्वयं चित्त चिन्तय रौप्यपीठकृतालयं हरिमालयम् ॥ ५ ॥
चारुपादसरोजयुग्मरुचामरोच्चयचामरोदारमूर्धजभारमण्डलरञ्जकं कलिभञ्जकम् ।
वीरतोचितभूषणं वरनूपुरं स्वतनूपुरं धारयात्मनि रौप्यपीठकृतालयं हरिमालयम् ॥ ६ ॥
शुष्कवादिमनोतिदूरतरागमोत्सवदागमं सत्कवीन्द्रवचोविलासमहोदयं महितोदयम् ।
लक्षयामि यतीश्वरैः कृतपूजनं गुणभाजनं धिक्कृतोपमरौप्यपीठकृतालयं हरिमालयम् ॥ ७ ॥
नारदप्रियमाविशाम्बुरुहेक्षणं निजरक्षणं तारकोपमचारुदीपचयान्तरे गतचिन्त रे ।
धीरमानसपूर्णचन्द्रसमानमच्युतमानम द्वारकोपमरौप्यपीठकृतालयं हरिमालयम् ॥ ८ ॥
रौप्यपीठकृतालयस्य हरेः प्रियं दुरिताप्रियं तत्पदार्चकवादिराजयतीरितं गुणपूरितम् ।
गोप्यमष्टकमेतदुच्चमुदे ममास्त्विह निर्ममप्राप्यसौख्यफलाय तत्र सुकोमलं हतधीमलम् ॥ ९ ॥
॥ इति श्रीमद्वादिराजतीर्थपूज्यचरणविरचितं श्रीकृष्णाष्टकं सम्पूर्णम् ॥
॥ भारतीरमणमुख्यप्राणान्तर्गतश्रीकृष्णार्पणमस्तु ॥