कृष्णामृतमहार्णवः
/ 3
←

Krishnamritamaharnava English (IAST) PDF & Online Reader (kṛṣṇāmṛtamahārṇavaḥ)

Krishnamritamaharnava (कृष्णामृतमहार्णवः) by Madhvacharya (मध्वाचार्यः) — English (IAST) Text & PDF Download

📜 Last Proofread: 03 Oct 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 03 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
कृष्णामृतमहार्णवः (श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्) अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः । यो ददात्यमृतत्वं हि स मां रक्षतु केशवः ॥ १ ॥ तापत्रयेण सन्तप्तं यदेतदखिलं जगत् । वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम् ॥ २ ॥ ते नराः पशवो लोके किं तेषां जीवने फलम् । यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः ॥ ३ ॥ संसारेस्मिन् महाघोरे जन्मरोगभयाकुले । अयमेको महाभागः पूज्यते यदधोक्षजः ॥ ४ ॥ स नाम सुकृती लोके कुलं तेनाभ्यलङ्कृतम् । आधारः सर्वभूतानां येन विष्णुः प्रसादितः ॥ ५ ॥ यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । तद्विशिष्टफलं नॄणां सदैवाराधनं हरेः ॥ ६ ॥ कलौ कलिमलध्वंसिसर्वपापहरं हरिम् । येर्चयन्ति सदा नित्यं तेपि वन्द्या यथा हरिः ॥ ७ ॥ नास्ति श्रेयस्तमं नॄणां विष्णोराराधनान्मुने । युगेस्मिंस्तामसे लोके सततं पूज्यते नृभिः ॥ ८ ॥ अर्चिते देवदेवेशे शङ्खचक्रगदाधरे । अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः ॥ ९ ॥ स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते । केशवे कंसकेशिघ्ने न याति नरकं नरः ॥ १० ॥ सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः । मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत् ॥ ११ ॥ शङ्करः सकृदभ्यर्चितो येन देवदेवो जनार्दनः । यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम् ॥ १२ ॥ सकृदभ्यर्चितो येन हेलयापि नमस्कृतः । स याति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ १३ ॥ नारदः समस्तलोकनाथस्य देवदेवस्य शांर्गिणः । साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम् ॥ १४ ॥ पुलस्त्यः भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः । हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम् ॥ १५ ॥ विधिना देवदेवेशः शङ्खचक्रधरो हरिः । फलं ददाति सुलभं सलिलेनापि पूजितः ॥ १६ ॥ नरके पच्यमानस्तु यमेन परिभाषितः । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ १७ ॥ धर्मः द्रव्याणामप्यभावे तु सलिलेनापि पूजितः । यो ददाति स्वकं स्थानं स त्वया किं न पूजितः ॥ १८ ॥ नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः । स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः ॥ १९ ॥ ब्रह्मा गर्भस्थिता मृता वापि मुषितास्ते सुदूषिताः । न प्राप्ता यैर्हरेर्दीक्षा सर्वदुःखविमोचनी ॥ २० ॥ मार्कण्डेयः सकृदभ्यर्चितो येन देवदेवो जनार्दनः । यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम् ॥ २१ ॥ धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते । सत्यं ब्रवीमि देवेश हृषीकेशार्चनादृते ॥ २२ ॥ तस्य यज्ञवराहस्य विष्णोरमिततेजसः । प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ २३ ॥ मरीचिः अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज । न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ २४ ॥ अत्रिः परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः । स चाप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ २५ ॥ अङ्गिराः यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः । तमाराधय गोविन्दं स्थानमग्य्रं यदीच्छसि ॥ २६ ॥ पुलस्त्यः परं ब्रह्म परं धाम योसौ ब्रह्म सनातनम् । तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम् ॥ २७ ॥ ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ २८ ॥ प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति । त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरम् ॥ २९ ॥ ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम् । सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति ते ॥ ३० ॥ ततोनिरुद्धं देवेशं प्रद्युम्नं च ततः परम् । ततः सङ्कर्षणं देवं वासुदेवं परात्परम् ॥ ३१ ॥ वासुदेवात् परं नास्ति इति वेदान्तनिश्चयः । वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः ॥ ३२ ॥ आत्रेयः यो यानिछेन्नरः कामान् नारी वा वरवर्णिनी । तान्समाप्नोति विपुलान्समाराध्य जनार्दनम् ॥ ३३ ॥ ब्रह्मा बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान् भुवि । वासुदेवमनाराध्य को मोक्षं गन्तुमिच्छति ॥ ३४ ॥ कौशिकः अनाराधितगोवन्दा ये नरा दुःखभागिनः । आराध्य वासुदेवं स्युर्नित्यानन्दैकभागिनः ॥ ३५ ॥ शङ्करः कृते पापेनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम् ॥ ३६ ॥ नाम्नोस्ति यवती शक्तिः पापनिर्हरणे हरेः । तावत्कर्तुं न शक्नोति पातकं पातकी जनः ॥ ३७ ॥ ब्रह्मा न ह्यपुण्यवतां लोके मूढानां कुटिलात्मनाम् । भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा ॥ ३८ ॥ तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः । जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम् ॥ ३९ ॥ प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते । न कश्चित्स्मरते देवं कृष्णं कलिमलापहम् ॥ ४० ॥ न कलौ देवदेवस्य जन्मदुखापहारिणः । करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः ॥ ४१ ॥ ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना । ते प्रयान्ति भयं त्यक्त्वा विष्णुलोकमनामयम् ॥ ४२ ॥ गर्भजन्मजरारोगदुःखसंसारबन्धनैः । न बाध्यते नरो नित्यं वासुदेवमनुस्मरन् ॥ ४३ ॥ यममार्गं महाघोरं नरकाणि यमं तथा । स्वप्नेपि नैव पश्येत यः स्मरेद्गरुडध्वजम् ॥ ४४ ॥ हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोच्युतः ॥ ४५ ॥ गोविन्दस्मरणं पुंसां पापराशिमहाचलम् । असंशयं दहत्याशु तूलराशिमिवानलः ॥ ४६ ॥ अगस्त्यः स्मरणादेव कृष्णस्य पापसङ्घातपञ्जरः । शतधा भेदमायाति गिरिर्वज्रहतो यथा ॥ ४७ ॥ कृष्णे रताः कृष्णमनुस्मरन्ति तद्भावितास्तद्गतमानसाश्च । भिन्नेपि देहे प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशे ॥ ४८ ॥ सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता । यन्मूहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ ४९ ॥ नारायणो नाम नरो नराणां प्रसिद्धचोरः कथितः पृथिव्याम् । अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव ॥ ५० ॥ यस्य संस्मरणादेव वासुदेवस्य चक्रिणः । कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ ५१ ॥ किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ ५२ ॥ ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ५३ ॥ हे चित्त चिन्तयस्वेह वासुदेवमहर्निशम् । नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम् ॥ ५४ ॥ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ५५ ॥ स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ ५६ ॥ वेदेषु यज्ञेषु तपस्सु चैव दानेषु तीर्थेषु व्रतेषु यच्च । इष्टेषु पूर्तेषु च यत्प्रदिष्टं पुण्यं स्मृते तत्खलु वासुदेवे ॥ ५७ ॥ आराध्यैवं नरो विष्णुं मनसा यद्यदिच्छति । फलं प्राप्नोति विपुलं भूरि स्वल्पमथापि वा ॥ ५८ ॥ यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ ५९ ॥ कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् । प्रयाति विलयं सद्यः सकृत्सङ्कीर्तितेच्युते ॥ ६० ॥ अनायासेन चायान्ति मुक्तिं केशवसंश्रिताः । तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः ॥ ६१ ॥ चतुःसागरमासाद्य जम्बूद्वीपोत्तमे क्वचित् । न पुमान्केशवादन्यः सर्वपापचिकित्सकः ॥ ६२ ॥ यदभ्यर्च्य हरिं भक्त्या कृते वर्षसहस्रकम् । फलं प्राप्नोति विपुलं कलौ सङ्कीर्त्य केशवम् ॥ ६३ ॥ क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे । तदा न कीर्तयेत्कश्चिन्मुक्तिदं देवमच्युतम् ॥ ६४ ॥ अवशेनापि यन्नामि्न कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यः सिंहत्रस्तमृगैरिव ॥ ६५ ॥ नारायणेति मन्त्रोस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतन्तीत्येतदद्भुतम् ॥ ६६ ॥ आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ६७ ॥ कौशिकः अनाराधितगोविन्दा ये नरा दुःखभागिनः । आराध्य वासुदेवं स्युः सदानन्दैकभोगिनः ॥ ६८ ॥ सकृदुच्चरितं यैस्तु कृष्णेति न विशन्ति ते । गर्भागारगृहं मातुर्यमलोकं च दुस्सहम् ॥ ६९ ॥ क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ ७० ॥ बुद्ध्या बुद्ध्वाभ्यसेदेतत् हरिरित्यक्षरद्वयम् । स्मरणात्कीर्तनाद्यस्य न पुनर्जायते भुवि ॥ ७१ ॥ हे जिह्वे मम निस्नेहे हरिं किं नानुभाषसे । हरिं वदस्व कल्याणि संसारोदधिनौर्हरिः ॥ ७२ ॥ असारे खलु संसारे सारात्सारतरो हरिः । पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम् ॥ ७३ ॥ कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण किम् । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ ७४ ॥ ब्रह्मा असारे खलु संसारे सारमेकं निरूपितम् । समस्तलोकनाथस्य सारमाराधनं हरेः ॥ ७५ ॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् । तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ ७६ ॥ यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः । स्वगृहेपि वसन् याति तद्विष्णोः परमं पदम् ॥ ७७ ॥ शङ्करः साधु साधु महाभाग साधु दानवनाशन । यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ॥ ७८ ॥ निमिषं निमिषार्धं वा मुहूर्तमपि भार्गव । नादग्धाशेषपापानां भक्तिर्भवति केशवे ॥ ७९ ॥ किं तेन मनसा कार्यं यन्न तिष्ठति केशवे । मनो मुक्तिफलावाप्तौ कारणं सुप्रयोजितम् ॥ ८० ॥ रोगो नाम न सा जिह्वा यया न स्तूयते हरिः । गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम् ॥ नूनं तत्कण्ठशालूकमथवाप्युपजिह्विका । रोगो नाम न सा जिह्वा या न वक्ति हरेर्गुणान् ॥ ८२ ॥ भारभूतैः करैः कार्यं किं तस्य नृपशोर्द्विजाः । यैर्हि न क्रियते विष्णोर्गृहसंमार्जनादिकम् ॥ ८३ ॥ चरणौ तौ तु सफलौ केशवालयगामिनौ । ते च नेत्रे महाभागे याभ्यां सन्दृश्यते हरिः ॥ ८४ ॥ किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विजाः । यैर्हि न व्रजते जन्तुः केशवालयदर्शने ॥ ८५ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 03 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine