किरातार्जुनीयम्
/ 15
←

Kiratarjuniyam Kannada PDF & Online Reader (ಕಿರಾತಾರ್ಜುನೀಯಮ್)

Kiratarjuniyam (किरातार्जुनीयम्) by Bharavi (भारविः) — Kannada Text & PDF Download

📜 Last Proofread: 28 Aug 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 28 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
श्रियः कुरूणाम् अधिपस्य पालनीं प्रजासु वृत्तिं यम् अयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुम् इच्छन्ति मृषा हितैषिणः ॥ द्विषां विघाताय विधातुम् इच्छतो रहस्य् अनुज्ञाम् अधिगम्य भूभृतः । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आदधे ॥ क्रियासु युक्तैर् नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः । अतोऽर्हसि क्षन्तुम् असाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥ स किंसखा साधु न शास्ति योऽधिपं हितान् न यः संशृणुते स किम्प्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्व् अमात्येषु च सर्वसम्पदः ॥ निसर्गदुर्बोधम् अबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयम् अबोधि यन् मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन् भूतिम् अनार्यसङ्गमाद् वरं विरोधोऽपि समं महात्मभिः ॥ कृतारिषड्वर्गजयेन मानवीम् अगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तन्दिनम् अस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ सखीन् इव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश् च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्याम् इव साधु बन्धुताम् ॥ असक्तम् आराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागाद् इव सख्यम् ईयिवान् न बाधतेऽस्य त्रिगणः परस्परम् ॥ निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ वसूनि वाञ्छन् न वशी न मन्युना स्वधर्म इत्य् एव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ विधाय रक्षान् परितः परेतरान् अशङ्किताकारम् उपैति शङ्कितः । क्रियापवर्गेष्व् अनुजीविसात्कृताः कृतज्ञताम् अस्य वदन्ति सम्पदः ॥ अनारतं तेन पदेषु लम्भिता विभज्य सम्यग् विनियोगसत्क्रियाम् । फलन्त्य् उपायाः परिबृंहितायतीर् उपेत्य सङ्घर्षम् इवार्थसम्पदः ॥ अनेकराजन्यरथाश्वसङ्कुलं तदीयम् आस्थाननिकेतनाजिरम् । नयत्य् अयुग्मच्छदगन्धिर् आर्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ सुखेन लभ्या दधतः कृषीवलैर् अकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेमम् अदेवमातृकाश् चिराय तस्मिन् कुरवश् चकासति ॥ महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास् तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्य् असुभिः समीहितुम् ॥ उदारकीर्तेर् उदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया । स्वयं प्रदुग्धेऽस्य गुणैर् उपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ महीभुजां सच्चरितैश् चरैः क्रियाः स वेद निःशेसम् अशेषितक्रियः । महोदयैस् तस्य हितानुबन्धिभिः प्रतीयते धातुर् इवेहितं फलैः ॥ न तेन सज्यं क्वचिद् उद्यतं धनुर् न वा कृतं कोपविजिह्मम् आननम् । गुणानुरागेण शिरोभिर् उह्यते नराधिपैर् माल्यम् इवास्य शासनम् ॥ स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनम् इद्धशासनः । मखेष्व् अखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ प्रलीनभूपालम् अपि स्थिरायति प्रशासद् आवारिधि मण्डलं भुवः । स चिन्तयत्य् एव भियस् त्वद् एष्यतीर् अहो दुरन्ता बलवद्विरोधिता ॥ कथाप्रसङ्गेन जनैर् उदाहृताद् अनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद् व्यथते नताननः स दुःसहान् मन्त्रपदाद् इवोरगः ॥ तद् आशु कर्तुं त्वयि जिह्मम् उद्यते विधीयतां तत्र विधेयम् उत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥ इतीरयित्वा गिरम् आत्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् । प्रविश्य कृष्णा सदनं महीभुजा तद् आचचक्षेऽनुजसन्निधौ वचः ॥ निशम्य सिद्धिं द्विषताम् अपाकृतीस् ततस् ततस्त्या विनियन्तुम् अक्षमा । नृपस्य मन्युव्यवसायदीपिनीर् उदाजहार द्रुपदात्मजा गिरः ॥ भवादृशेषु प्रमदाजनोदितं भवत्य् अधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥ अखण्डम् आखण्डलतुल्यधामभिश् चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रग् इवापवर्जिता ॥ व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास् तथाविधान् असंवृताङ्गान् निशिता इवेषवः ॥ गुणानुरक्ताम् अनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस् त्वदन्यः क इवापहारयेन् मनोरमाम् आत्मवधूम् इव श्रियम् ॥ भवन्तम् एतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर् ज्वलयत्य् उदीरितः शमीतरुं शुष्कम् इवाग्निर् उच्छिखः ॥ अवन्ध्यकोपस्य निहन्तुर् आपदां भवन्ति वश्याः स्वयम् एव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ परिभ्रमंल् लोहितचन्दनोचितः पदातिर् अन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति ते कच्चिद् अयं वृकोदरः ॥ विजित्य यः प्राज्यम् अयच्छद् उत्तरान् कुरून् अकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः ॥ वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वग् इवागजौ गजौ । कथं त्वम् एतौ धृतिसंयमौ यमौ विलोकयन्न् उत्सहसे न बाधितुम् ॥ इमाम् अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भाम् अधिशय्य स स्थलीं जहासि निद्राम् अशिवैः शिवारुतैः ॥ पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यद् एतद् अन्धसा । तद् अद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥ अनारतं यौ मणिपीठशायिनाव् अरञ्जयद् राजशिरःस्रजां रजः । निषीदतस् तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ द्विषन्निमित्ता यद् इयं दशा ततः समूलम् उन्मूलयतीव मे मनः । परैर् अपर्यासितवीर्यसम्पदां पराभवोऽप्य् उत्सव एव मानिनाम् ॥ विहाय शान्तिं नृप धाम तत् पुनः प्रसीद सन्धेहि वधाय विद्विषाम् । व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥ पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारम् ईदृशम् । भवादृशाश् चेद् अधिकुर्वते परान् निराश्रया हन्त हता मनस्विता ॥ अथ क्षमाम् एव निरस्तसाधनश् चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ् जुहुधीह पावकम् ॥ न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥ विधिसमयनियोगाद् दीप्तिसंहारजिह्मं शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ । रिपुतिमिरम् उदस्योदीयमानं दिनादौ दिनकृतम् इव लक्ष्मीस् त्वां समभ्येतु भूयः ॥ विहितां प्रियया मनःप्रियाम् अथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमद् ऊर्जिताश्रयं नृपम् ऊचे वचनं वृकोदरः ॥ यद् अवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम् ॥ विषमोऽपि विगाह्यते नयः कृततीर्थः पयसाम् इवाशयः । स तु तत्र विशेषदुर्लभः सद् उपन्यस्यति कृत्यवर्त्म यः ॥ परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुर् अल्पीयसि दृश्यते गुणः ॥ इयम् इष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ चतसृष्व् अपि ते विवेकिनी नृप विद्यासु निरूढिम् आगता । कथम् एत्य मतिर् विपर्ययं करिणी पङ्कम् इवावसीदति ॥ विधुरं किम् अतः परं परैर् अवगीतां गमिते दशाम् इमाम् । अवसीदति यत् सुरैर् अपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ द्विषताम् उदयः सुमेधसा गुरुर् अस्वन्ततरः सुमर्षणः । न महान् अपि भूतिम् इच्छता फलसम्पत्प्रवणः परिक्षयः ॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिम् उपेक्षते कृती कुरुते तत्प्रतिकारम् अन्यथा ॥ अनुपालयताम् उदेष्यतीं प्रभुशक्तिं द्विषताम् अनीहया । अपयान्त्य् अचिरान् महीभुजां जननिर्वादभयाद् इव श्रियः ॥ क्षययुक्तम् अपि स्वभावजं दधतं धाम शिवं समृद्धये । प्रणमन्त्य् अनपायम् उत्थितं प्रतिपच्चन्द्रम् इव प्रजा नृपम् ॥ प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षतः । विनिपातनिवर्तनक्षमं मतम् आलम्बनम् आत्मपौरुषम् ॥ विपदोऽभिभवन्त्य् अविक्रमं रहयत्य् आपदुपेतम् आयतिः । नियता लघुता निरायतेर् अगरीयान् न पदं नृपश्रियः ॥ तद् अलं प्रतिपक्षम् उन्नतेर् अवलम्ब्य व्यवसायवन्ध्यताम् । निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ अथ चेद् अवधिः प्रतीक्ष्यते कथम् आविष्कृतजिह्मवृत्तिना । धृतराष्ट्रसुतेन सुत्यज्याश् चिरम् आस्वाद्य नरेन्द्रसम्पदः ॥ द्विषता विहितं त्वयाथवा यदि लब्धा पुनर् आत्मनः पदम् । जननाथ तवानुजन्मनां कृतम् आविष्कृतपौरुषैर् भुजैः ॥ मदसिक्तमुखैर् मृगाधिपः करिभिर् वर्तयति स्वयं हतैः । लघयन् खलु तेजसा जगन् न महान् इच्छति भूतिम् अन्यतः ॥ अभिमानधनस्य गत्वरैर् असुभिः स्थास्नु यशश् चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलम् आनुषङ्गिकम् ॥ ज्वलितं न हिरण्यरेतसं चयम् आस्कन्दति भस्मनां जनः । अभिभूतिभयाद् असून् अतः सुखम् उज्झन्ति न धाम मानिनः ॥ किम् अवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ कुरु तन् मतिम् एव विक्रमे नृप निर्धूय तमः प्रमादजम् । ध्रुवम् एतद् अवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ द्विरदान् इव दिग्विभावितांश् चतुरस् तोयनिधीन् इवायतः । प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 28 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine