श्रियः कुरूणाम् अधिपस्य पालनीं प्रजासु वृत्तिं यम् अयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुम् इच्छन्ति मृषा हितैषिणः ॥
द्विषां विघाताय विधातुम् इच्छतो रहस्य् अनुज्ञाम् अधिगम्य भूभृतः ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आदधे ॥
क्रियासु युक्तैर् नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुम् असाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥
स किंसखा साधु न शास्ति योऽधिपं हितान् न यः संशृणुते स किम्प्रभुः ।
सदानुकूलेषु हि कुर्वते रतिं नृपेष्व् अमात्येषु च सर्वसम्पदः ॥
निसर्गदुर्बोधम् अबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयम् अबोधि यन् मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः ।
समुन्नयन् भूतिम् अनार्यसङ्गमाद् वरं विरोधोऽपि समं महात्मभिः ॥
कृतारिषड्वर्गजयेन मानवीम् अगम्यरूपां पदवीं प्रपित्सुना ।
विभज्य नक्तन्दिनम् अस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥
सखीन् इव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश् च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्याम् इव साधु बन्धुताम् ॥
असक्तम् आराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
गुणानुरागाद् इव सख्यम् ईयिवान् न बाधतेऽस्य त्रिगणः परस्परम् ॥
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥
वसूनि वाञ्छन् न वशी न मन्युना स्वधर्म इत्य् एव निवृत्तकारणः ।
गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥
विधाय रक्षान् परितः परेतरान् अशङ्किताकारम् उपैति शङ्कितः ।
क्रियापवर्गेष्व् अनुजीविसात्कृताः कृतज्ञताम् अस्य वदन्ति सम्पदः ॥
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग् विनियोगसत्क्रियाम् ।
फलन्त्य् उपायाः परिबृंहितायतीर् उपेत्य सङ्घर्षम् इवार्थसम्पदः ॥
अनेकराजन्यरथाश्वसङ्कुलं तदीयम् आस्थाननिकेतनाजिरम् ।
नयत्य् अयुग्मच्छदगन्धिर् आर्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥
सुखेन लभ्या दधतः कृषीवलैर् अकृष्टपच्या इव सस्यसम्पदः ।
वितन्वति क्षेमम् अदेवमातृकाश् चिराय तस्मिन् कुरवश् चकासति ॥
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास् तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्य् असुभिः समीहितुम् ॥
उदारकीर्तेर् उदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धेऽस्य गुणैर् उपस्नुता वसूपमानस्य वसूनि मेदिनी ॥
महीभुजां सच्चरितैश् चरैः क्रियाः स वेद निःशेसम् अशेषितक्रियः ।
महोदयैस् तस्य हितानुबन्धिभिः प्रतीयते धातुर् इवेहितं फलैः ॥
न तेन सज्यं क्वचिद् उद्यतं धनुर् न वा कृतं कोपविजिह्मम् आननम् ।
गुणानुरागेण शिरोभिर् उह्यते नराधिपैर् माल्यम् इवास्य शासनम् ॥
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनम् इद्धशासनः ।
मखेष्व् अखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥
प्रलीनभूपालम् अपि स्थिरायति प्रशासद् आवारिधि मण्डलं भुवः ।
स चिन्तयत्य् एव भियस् त्वद् एष्यतीर् अहो दुरन्ता बलवद्विरोधिता ॥
कथाप्रसङ्गेन जनैर् उदाहृताद् अनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद् व्यथते नताननः स दुःसहान् मन्त्रपदाद् इवोरगः ॥
तद् आशु कर्तुं त्वयि जिह्मम् उद्यते विधीयतां तत्र विधेयम् उत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥
इतीरयित्वा गिरम् आत्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् ।
प्रविश्य कृष्णा सदनं महीभुजा तद् आचचक्षेऽनुजसन्निधौ वचः ॥
निशम्य सिद्धिं द्विषताम् अपाकृतीस् ततस् ततस्त्या विनियन्तुम् अक्षमा ।
नृपस्य मन्युव्यवसायदीपिनीर् उदाजहार द्रुपदात्मजा गिरः ॥
भवादृशेषु प्रमदाजनोदितं भवत्य् अधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥
अखण्डम् आखण्डलतुल्यधामभिश् चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रग् इवापवर्जिता ॥
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास् तथाविधान् असंवृताङ्गान् निशिता इवेषवः ॥
गुणानुरक्ताम् अनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः ।
परैस् त्वदन्यः क इवापहारयेन् मनोरमाम् आत्मवधूम् इव श्रियम् ॥
भवन्तम् एतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर् ज्वलयत्य् उदीरितः शमीतरुं शुष्कम् इवाग्निर् उच्छिखः ॥
अवन्ध्यकोपस्य निहन्तुर् आपदां भवन्ति वश्याः स्वयम् एव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥
परिभ्रमंल् लोहितचन्दनोचितः पदातिर् अन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं दुनोति ते कच्चिद् अयं वृकोदरः ॥
विजित्य यः प्राज्यम् अयच्छद् उत्तरान् कुरून् अकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः ॥
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वग् इवागजौ गजौ ।
कथं त्वम् एतौ धृतिसंयमौ यमौ विलोकयन्न् उत्सहसे न बाधितुम् ॥
इमाम् अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भाम् अधिशय्य स स्थलीं जहासि निद्राम् अशिवैः शिवारुतैः ॥
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यद् एतद् अन्धसा ।
तद् अद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥
अनारतं यौ मणिपीठशायिनाव् अरञ्जयद् राजशिरःस्रजां रजः ।
निषीदतस् तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥
द्विषन्निमित्ता यद् इयं दशा ततः समूलम् उन्मूलयतीव मे मनः ।
परैर् अपर्यासितवीर्यसम्पदां पराभवोऽप्य् उत्सव एव मानिनाम् ॥
विहाय शान्तिं नृप धाम तत् पुनः प्रसीद सन्धेहि वधाय विद्विषाम् ।
व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारम् ईदृशम् ।
भवादृशाश् चेद् अधिकुर्वते परान् निराश्रया हन्त हता मनस्विता ॥
अथ क्षमाम् एव निरस्तसाधनश् चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ् जुहुधीह पावकम् ॥
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः ।
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥
विधिसमयनियोगाद् दीप्तिसंहारजिह्मं शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ ।
रिपुतिमिरम् उदस्योदीयमानं दिनादौ दिनकृतम् इव लक्ष्मीस् त्वां समभ्येतु भूयः ॥
विहितां प्रियया मनःप्रियाम् अथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमद् ऊर्जिताश्रयं नृपम् ऊचे वचनं वृकोदरः ॥
यद् अवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम् ॥
विषमोऽपि विगाह्यते नयः कृततीर्थः पयसाम् इवाशयः ।
स तु तत्र विशेषदुर्लभः सद् उपन्यस्यति कृत्यवर्त्म यः ॥
परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् ।
अतिवीर्यवतीव भेषजे बहुर् अल्पीयसि दृश्यते गुणः ॥
इयम् इष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥
चतसृष्व् अपि ते विवेकिनी नृप विद्यासु निरूढिम् आगता ।
कथम् एत्य मतिर् विपर्ययं करिणी पङ्कम् इवावसीदति ॥
विधुरं किम् अतः परं परैर् अवगीतां गमिते दशाम् इमाम् ।
अवसीदति यत् सुरैर् अपि त्वयि सम्भावितवृत्ति पौरुषम् ॥
द्विषताम् उदयः सुमेधसा गुरुर् अस्वन्ततरः सुमर्षणः ।
न महान् अपि भूतिम् इच्छता फलसम्पत्प्रवणः परिक्षयः ॥
अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिम् उपेक्षते कृती कुरुते तत्प्रतिकारम् अन्यथा ॥
अनुपालयताम् उदेष्यतीं प्रभुशक्तिं द्विषताम् अनीहया ।
अपयान्त्य् अचिरान् महीभुजां जननिर्वादभयाद् इव श्रियः ॥
क्षययुक्तम् अपि स्वभावजं दधतं धाम शिवं समृद्धये ।
प्रणमन्त्य् अनपायम् उत्थितं प्रतिपच्चन्द्रम् इव प्रजा नृपम् ॥
प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥
अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षतः ।
विनिपातनिवर्तनक्षमं मतम् आलम्बनम् आत्मपौरुषम् ॥
विपदोऽभिभवन्त्य् अविक्रमं रहयत्य् आपदुपेतम् आयतिः ।
नियता लघुता निरायतेर् अगरीयान् न पदं नृपश्रियः ॥
तद् अलं प्रतिपक्षम् उन्नतेर् अवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥
अथ चेद् अवधिः प्रतीक्ष्यते कथम् आविष्कृतजिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यज्याश् चिरम् आस्वाद्य नरेन्द्रसम्पदः ॥
द्विषता विहितं त्वयाथवा यदि लब्धा पुनर् आत्मनः पदम् ।
जननाथ तवानुजन्मनां कृतम् आविष्कृतपौरुषैर् भुजैः ॥
मदसिक्तमुखैर् मृगाधिपः करिभिर् वर्तयति स्वयं हतैः ।
लघयन् खलु तेजसा जगन् न महान् इच्छति भूतिम् अन्यतः ॥
अभिमानधनस्य गत्वरैर् असुभिः स्थास्नु यशश् चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलम् आनुषङ्गिकम् ॥
ज्वलितं न हिरण्यरेतसं चयम् आस्कन्दति भस्मनां जनः ।
अभिभूतिभयाद् असून् अतः सुखम् उज्झन्ति न धाम मानिनः ॥
किम् अवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥
कुरु तन् मतिम् एव विक्रमे नृप निर्धूय तमः प्रमादजम् ।
ध्रुवम् एतद् अवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥
द्विरदान् इव दिग्विभावितांश् चतुरस् तोयनिधीन् इवायतः ।
प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥