केनोपनिषद्भाष्यम्
←

Kenopanishadbhashyam Tamil PDF & Online Reader (கேநோபநிஷத்³பா⁴ஷ்யம்)

Kenopanishadbhashyam (केनोपनिषद्भाष्यम्) by Madhvacharya (मध्वाचार्यः) — Tamil Text & PDF Download

📜 Last Proofread: 03 Oct 2026
📥 Download Tamil PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 03 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script தமிழ்
↔️ Text Alignment Center
केनोपनिषद्भाष्यम् (तलवकारोपनिषद्भाष्यम्) (मूलम् — केनोपनिषत् / तलवकारोपनिषत्) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः)
📖 2.1 ▼
अनन्तगुणपूर्णत्वादगम्याय सुरैरपि । सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥
📖 1.1 ▼
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥ श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥ न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः । न विद्म न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥ अन्यदेव तद् विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥ यद् वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ५ ॥ यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ६ ॥ यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ७ ॥ यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ८ ॥ यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विदि्ध नेदं यदिदमुपास ते ॥ ९ ॥
📖 2.1 ▼
वैजयन्ते समासीनमेकान्ते चतुराननम् । विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत् सदाशिवः ॥ यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः । केन तत्प्रेरितं याति प्राणः सर्वोत्तमस्तथा ॥ चक्षुःश्रोत्रं तथा वाचं को देवो विनियोजयेत् । इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम् ॥ ध्यात्वा नारायणं देवं सर्वाधारमनूपमम् । सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम् ॥ यः प्राणस्य प्रणेता च चक्षुरादेश्च सर्वशः । अगम्यस्सर्वदेवैश्च परिपूर्णत्वहेतुतः ॥ प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः । सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम् ॥
📖 1.1 ▼
यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् । यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते ॥ १ ॥ मन्ये विदितं नाहमन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद् वेद तद् वेद नो न वेदेति वेद च ॥ २ ॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥ प्रतिबोधविदितं मतममृतत्वं हि विन्दते । आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥ इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
📖 2.1 ▼
यं सम्यङ् नैव जानाति कश्चिन्निरवशेषतः । सर्वात्मना विजानामीति तु यस्य मतं भवेत् ॥ तस्याज्ञातस्स भगवान् यो नैवं मन्यते सदा । ज्ञातस्तस्य तथाऽस्यैव निश्शेषं मननं कृतम् ॥ इति यो मन्यते नास्य मतस्स पुरुषोत्तमः । नातिवेद्यो न चावेद्यस्तस्मात् स परमेश्वरः ॥ नेदं जीवस्वरूपं तद् ब्रह्म विष्ण्वाख्यमव्ययम् । किन्तु यत्ते समीपस्थमास ते विनियामकम् ॥ तदेव ब्रह्म विदि्ध त्वं विष्ण्वाख्यं परमव्ययम् । नियामकं तद्देवानां मर्त्यानां किमुतोत्तमम् ॥ तत्प्रसादं विना जीवे मन्तव्या न प्रवृत्तयः । किमु जीवस्य तद्भावो न मन्तव्य इतीर्यते ॥
📖 1.1 ▼
ब्रह्म ह देवेभ्यो विजिग्ये । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥ तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव । तन्न व्यजानन्त । किमिदं यक्षमिति ॥ २ ॥ तेऽग्निमब्रुवन् । जातवेद एतद्विजानीहि किमेतद् यक्षमिति ॥ ३ ॥ तथेति तदभ्यद्रवत् तमभ्यवदत् कोऽसीति । अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४ ॥ तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥ तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाक दग्धुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥ ६ ॥ अथ वायुमब्रुवन् वायवेतद् विजानीहि किमेतद् यक्षमिति । तथेति ॥ ७ ॥ तदभ्यद्रवत् तमभ्यवदत् कोऽसीति । वायुर्वा अहमस्मीत्यब्रवीत् मातरिश्वा वा अहमस्मीति ॥ ८ ॥ तस्मिंस्त्वयि किं वीर्यमित्यपि । इदं सर्वमाददीयं यदिदं पृथिव्यामिति ॥ ९ ॥ तस्मै तृणं निदधावेतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकादातुम् । स तत एव निववृते । नैतदशकं विज्ञातुं यदेतद् यक्षमिति ॥ १० ॥ अथेन्द्रमब्रुवन् । मघवन्नेतद् विजानीहि किमेतद् यक्षमिति । तथेति तदभ्यद्रवत् । तस्मात् तिरोदधे ॥ ११ ॥ स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीम् । तां होवाच किमेतद् यक्षमिति ॥ १२ ॥ ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति । ततो ह वै विदाञ्चकार ब्रह्मेति ॥ १ ॥ तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पृशुः ॥ २ ॥ ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥ तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श । स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ॥ ४ ॥ तस्यैष आदेशो यदेतद् विद्युतो व्यद्युतदा३ इति । न्यमीमिषदा३ इत्यधिदैवतम् । अथाध्यात्मम् ॥ ५ ॥ यदेतद्गच्छतीव च मनोऽनेनैव तदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ६ ॥ तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् । स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ७ ॥ उपनिषदं भो ब्रूहीति । उक्ता त उपनिषद् । ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ८ ॥ तस्मै तपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ९ ॥ यो वा एतामुपनिषदमेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति ज्येये प्रतितिष्ठति ॥ १० ॥
📖 2.1 ▼
उमा सा सम्यगाचष्ट तस्मै विष्णुं परं पदम् । यस्माद् ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा ॥ सभार्या गर्विणो नासन् सुरेभ्यस्तेऽधिकास्ततः । इन्द्रस्तु प्रथमं ब्रह्म व्यजानात् तेन तूत्तमः ॥ दक्षादिभ्यस्तथा कामः स ज्ञातुं पूर्वमुक्तवान् । दक्षो बृहस्पतिश्चैव मनुः कामात्मजस्तथा ॥ सूर्याचन्द्रमसौ धर्मो वरुणश्चोचुरोमिति । नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम् ॥ सर्वदेवाधिकास्तस्माद् एते देवाः प्रकीर्तिताः । एतेभ्यश्चेन्द्रकामौ तु ताभ्यां ब्रह्मादयोऽधिकाः ॥ एतेषामवमो वह्निः परमो विष्णुरुच्यते । अन्तराले स्थितास्त्वन्ये ब्रह्माद्याः पूर्वमीरिताः ॥ अग्निः पश्चाद्व्यजानात् तदिन्द्रवाक्यात् ततोऽवमः । तस्माद्विष्ण्वभिसम्बन्धात् पारावर्यं सुरेष्विदम् ॥ व्यद्योतयद्विद्युदादीन् कपिलाख्यस्तु यो हरिः । अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागरे ॥ स एवैकः परं ब्रह्मेत्येवं तस्योपदेशनम् । अधिदैवे तथाऽध्यात्मे यं मनो गच्छतीव च ॥ सम्यङ् न गच्छति क्वापि मनो येन स्मरत्यपि । सोऽनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीर्त्यते ॥ स विष्णुस्तद्वनं नाम ततत्वाद् वननीयतः । एवमेनं तु यो वेद भवेत् सर्वैरपेक्षितः ॥ एतत् श्रुत्वा हरोऽपृच्छद् ब्रह्माणं पुनरेव तु । विद्याकारं मम ब्रूहीत्युक्तो ब्रह्माऽऽह तं पुनः ॥ विद्यावेद्यं तव प्रोक्तमास्थानं ते वदाम्यहम् । तपोदानस्वधर्मेषु ये स्थितास्तेषु तिष्ठति ॥ विद्यास्थानानि तस्यास्तु वेदा अङ्गानि निर्णयः । वेदैतामेवमखिलां यो विष्णौ प्रतितिष्ठति ॥ इत्यादि ब्रह्मसारे ॥ विद्युतः सूर्यादिप्रकाशान् । आसमन्ताद्व्यद्युतत्प्राकाशयत् । यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ इति वचनात् । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति च । न्यमीमिषदा आ समन्तान्निमीलिताक्षमभवत् । स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मा निशि सुप्तशक्तिषु ॥ इति वचनात् । पूर्णत्वाच्च आः । अभीक्ष्णं सङ्कल्प इति मनसो विशेषणम् । सङ्कल्पकमित्यर्थः । सप्रतिष्ठां सायतनामुपनिषदं ब्रूहीत्युक्ते सम्यगेव मयोपनिषत्स्वरूपमुक्तम् । तत्र वक्तव्यं नास्ति । तपो दमः कर्म च विद्यायाः प्रतिष्ठा । तद्वत्सु विद्या प्रतितिष्ठतीत्यर्थः । सत्यमिति मीमांसा । निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम् । श्रुतिस्मृत्युदितं सर्वं व्यक्तं मीमांसयैतया ॥ सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चयाः ॥ इति शब्दनिर्णये ॥ ऋग्यजुस्सामाथर्वाख्याः पञ्चरात्रं च भारतम् । मूलरामायणं चैव पुराणं भगवत्परम् ॥ वेदा इत्युच्यते सदि्भः शिक्षाद्यं स्मृतयस्तथा । अङ्गानि सत्यं मीमांसा तद्विद्यायतनं त्रयम् ॥ इति विद्यानिर्णये ॥ यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः । नमोऽस्तु विष्णवे तस्मै प्रेयसे मे परात्मने ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं केनोपनिषद्भाष्यं सम्पूर्णम् ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 03 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine