श्रीहयग्रीवसम्पदास्तोत्रम्
(श्रीवादिराजतीर्थविरचितम्)
हयग्रीव हयग्रीव हयग्रीवेति वादिनम् ।
नरं मुञ्चन्ति पापानि दरिद्रमिव योषितः ॥ १ ॥
हयग्रीव हयग्रीव हयग्रीवेति यो वदेत् ।
तस्य निःसरते वाणी जह्नुकन्याप्रवाहवत् ॥ २ ॥
हयग्रीव हयग्रीव हयग्रीवेति यो ध्वनिः ।
विशोभते स वैकुण्ठकवाटोद्घाटनक्षमः ॥ ३ ॥
श्लोकत्रयमिदं पुण्यं हयग्रीवपदाङ्कितम् ।
वादिराजयतिप्रोक्तं पठतां सम्पदां पदम् ॥ ४ ॥
॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं हयग्रीवसम्पदास्तोत्रं सम्पूर्णम् ॥
॥ भारतीरमणमुख्यप्राणान्तर्गतश्रीकृष्णार्पणमस्तु ॥