हंससन्देशः
/ 3
←

Hamsasandesha Telugu PDF & Online Reader (హంససన్దేశః)

Hamsasandesha (हंससन्देशः) by Vedanta Desika (वेदान्तदेशिकः) — Telugu Text & PDF Download

📜 Last Proofread: 28 Aug 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 28 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
हंससन्देशः श्रीमद्वेदान्तदेशिकाविरचितः हंससन्देशः ॥ ॥ श्रीरस्तु ॥ ॥ श्रीरामचन्द्राय नमः ॥ श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ॥ प्रथमाश्वासः ॥ वंशे जातस्सवितुरनघे मानयन्मानुषत्वं देवश्श्रीमाञ्जनकतनयान्वेषणे जागरूकः । प्रत्यायाते पवनतनये निश्चितार्थस्स कामी कल्पाकारां कथमपि निशामाविभातं विषेहे ॥ १.१॥ काल्ये सेनां कपिकुलपतेस्तूर्णमुद्योजयिष्यन् दूरीभावाज्जनकदुहितुर्दूयमानान्तरात्मा । क्रीडाखेलं कमलसरसि क्वापि कालोपयातं राकाचन्द्रद्युतिसहचरं राजहंसं ददर्श ॥ १.२॥ तस्मिन्सीतागतिमनुगते तद्दुकूलाङ्कमूर्तौ तन्मञ्जीरप्रतिमनिनदे न्यस्तनिस्पन्ददृष्टिः । वीरश्चेतोविलयमगमत्तन्मयात्मा मुहूर्तं शङ्के तीव्रं भवति समये शासनं मीनकेतोः ॥ १.३॥ लब्धाश्वासः कथमपि तदा लक्ष्मणस्याग्रजन्मा सन्देशेन प्रणयमहता मैथिलीं जीवयिष्यन् । चक्रे तस्मै सरसिजदळैस्सोपचारां सपर्यां कान्ताश्लेषादधिकसुभगः कामिनां दूतलाभः ॥ १.४॥ कृत्वा तस्मिन्बहुमतिमसौ भूयसीमाञ्जनेयात् गाढोन्मादः प्रणयपदवीं प्राप वार्तानभिज्ञे । विश्लेषेण क्षुभितमनसां मेघशैलद्रुमादौ याच्ञादैन्यं भवति किमुत क्वापि संवेदनार्हे ॥ १.५॥ वेदोदन्वद्विभजनविदो वंशजं विश्वमूर्तेः आहुस्सिद्धाः कमलवसतेरौपवाह्यं भवन्तम् । लब्धं येन प्रगुणगतिना तत्प्रियायास्सकाशात् तत्सावर्ण्यं श्रवणरसनास्वादयोग्या सुधा च ॥ १.६॥ मध्ये केचिद्वयमिह सखे केवलं मानुषाणां व्यक्तोत्कर्षो महति भुवने व्योमगानां पतिस्त्वम् । स्थाने दूत्यं तदपि भवतस्संश्रितत्राणहेतोः विश्वस्रष्टा विधिरपि यतस्सारथित्वेन तस्थौ ॥ १.७॥ इच्छामात्राज्जगदपरथा संविधातुं क्षमाणां इक्ष्वाकूणां प्रकृतिमहतामीदृशीं प्रेक्ष्य वेळाम् । लक्ष्यालक्ष्ये जलधिपयसा लब्धसंस्थां त्रिकूटे लङ्कां गन्तुं तवसमुचितं राक्षसीं राजधानीम् ॥ १.८॥ स्थानैर्दिव्यैरुपचितगुणां चन्दनारण्यरम्यां मुक्तासूतिं मलयमरुतां मातरं दक्षिणाशाम् । अस्मत्प्रीत्यै जनकतनया-जीवितार्थं च गच्छन् एकं रक्षःपदमिति सखे दोषलेशं सहेथाः ॥ १.९॥ वाचालानामिव जडधियां सत्कवौ दूरयाते कैलासाय त्वयि गतवति क्षीबतामाश्रितानाम् । सम्मोदस्ते पथि परिणमेच्चन्द्रकैरुज्झितानां मेघापाये विपिनशिखिनां वीक्ष्य वाचंयमत्वम् ॥ १.१०॥ आरक्तानां नवमधु शनैरापिबन्पद्मिनीनां कालोन्निद्रे कुवलयवने घूर्णमानस्सलीलम् । स्विन्नो दानैर्विपिनकरिणां सौम्य सेविष्यते त्वां आमोदानामहमहमिकामादिशन्गन्धवाहः ॥ १.११॥ पर्याप्तं ते पवनचलितैरङ्गरागं परागैः स्थाने कुर्युस्समसमुदयाद्बन्धवो बन्धुजीवाः । येनान्वेष्यस्यचलतनया-पादलाक्षानुषक्तं चूडाचन्द्रं पुरविजयिनस्स्वर्णदीफेनपूर्णम् ॥ १.१२॥ शारोपान्ताश्शतमखधनुश्शेषचित्रांशुकेन सूक्ष्माकारैर्दिनकरकरैः कल्पितान्तश्शलाकाः । ऊढाः पश्चादुचितगतिना वायुना राजहंस छत्रायेरन्नभसि भवतश्शारदा वारिवाहाः ॥ १.१३॥ द्रक्ष्यस्येवं प्रियसख सुखं लङ्घिताध्वा सखीं ते सीतां क्षेत्रे जनकनृपतेरुत्थितां सीरकृष्टे । गोपायन्ती तनुमपि निजां या कथञ्चिन्मदर्थं भूमौ लोके वहति महतीमेकपत्नी-समाख्याम् ॥ १.१४॥ प्रक्षीणां त्वद्विरहसमये जातहर्षामिदानीं प्रत्यायास्यन्ननुनय शनैः पद्मिनीं स्वादुवाचा । सा ते तन्त्रीस्वनसुभगया स्यादितीहाभ्यनुज्ञां मन्ये कुर्यान्मधुकरगिरा मैथिलीसौहृदेन ॥ १.१५॥ सार्धं कान्तैश्शबरसुदृशामद्रिकुञ्जेषु रागात् आसीनानां क्षणमसमये दृश्यचन्द्रोदयश्रीः । उड्डीयेथास्सरसिजवनाद्दक्षिणाशानुसारी पश्यन्दूरात्प्रबलगरुतां पक्षिणां दत्तवर्त्मा ॥ १.१६॥ अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलं छायामन्तस्तव मणिमयो माल्यवानेष शैलः । शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोः देवस्यादेरुपजनयतो मानसादिन्दुबिम्बम् ॥ १.१७॥ मार्गौ सम्यङ्मम हनुमता वर्णितौ द्वौ तयोस्ते सह्यासन्नोऽप्यनतिसुभगः पश्चिमो नित्यवर्षः । प्राचीने तु प्रतिजनपदं संहतावद्भुतानां मग्ना दृष्टिः कथमपि सखे मत्कृते ते निवार्या ॥ १.१८॥ प्रत्यासन्नात्सपदि भवनात्सादरं निर्गतानां श्रुत्वा शब्दं श्रवणमधुरं तावकं पामरीणाम् । अभ्रूभङ्गेऽप्यधिकसुभगैर्निश्चिताङ्गः कटाक्षैः देशानेतान्वनगिरिनदी-संविभक्तान् व्यतीयाः ॥ १.१९॥ इक्षुच्छाये किसलयमयं तल्पमातस्थुषीणां सल्लापैस्तैर्मुदितमनसां शालिसंरक्षिकाणाम् । कर्णाटान्ध्रव्यतिकरवशात्कर्बुरे गीतिभेदे मुह्यन्तीनां मदनकलुषं मौग्ध्यमास्वादयेथाः ॥ १.२०॥ विष्णोर्वासादवनिवहनाद्बद्धरत्नैश्शिरोभिः शेषस्साक्षादयमिति जनैस्सम्यगुन्नीयमानः । अभ्रैर्युक्तो लघुभिरचिरोन्मुक्त-निर्मोककल्पैः अग्रेभावी तदनु नयने रञ्जयन्नञ्जनाद्रिः ॥ १.२१॥ तत्रारूढैर्महति मनुजैस्स्वर्गिभिश्चावतीर्णैः सत्त्वोन्मेषाद्व्यपगतमिथस्तारतम्यादिभेदैः । साधारण्यात्फलपरिणतेस्सङ्घशो बध्यमानां शक्त्या कामं मधुविजयिनस्त्वं च कुर्यास्सपर्याम् ॥ १.२२॥ स्तोकोन्मग्नस्फुरितपुलिनां त्वन्निवासेच्छयेव द्रक्ष्यस्यारात्कनकमुखरीं दक्षिणामञ्जनाद्रेः । आसन्नानां वनविटपिनां वीचिहस्तैः प्रसूना - न्यर्चाहेतोरुपहरति या नूनमर्धेन्दुमौळेः ॥ १.२३॥ निर्विश्यैनां निभृतमनभिव्यक्तमञ्जुप्रणादो मन्दाधूतः पुळिनपवनैर्वञ्जुळामोदगर्भैः । अव्यासङ्गस्सपदि पदवीं संश्रयान्यैरलङ्घ्यो बन्दीकुर्युस्तटवसतयो मा भवन्तं किराताः ॥ १.२४॥ तुण्डीराख्यं तदनु महितं मण्डलं वीक्षमाणः क्षेत्रं यायाः क्षपितदुरितं तत्र सत्यव्रताख्यम् । पत्यौ रोषात्सलिलवपुषो यत्र वाग्देवतायाः सेतुर्जज्ञे सकलजगतामेकसेतुस्स देवः ॥ १.२५॥ नानारत्नैरुपचितगुणां नित्यसङ्गीतनादां भूमेर्द्रक्ष्यस्युचितविभवं भूषणं तत्र काञ्चीम् । यस्यां नित्यं निहितनयनो हस्तिशैलाधिवासी द्वन्द्वातीतस्स खलु पुरुषो दृश्यते सत्यकामः ॥ १.२६॥ तामासीदन्प्रणम नगरीं भक्तिनम्रेण मूर्ध्ना जातामादौ कृतयुगमुखे धातुरिच्छावशेन । यद्वीथीनां करिगिरिपतेर्वाहवेगावधूतान् धन्यान् रेणूंस्त्रिदशपतयो धारयन्त्युत्तमाङ्गैः ॥ १.२७॥ मन्दाधूतात्तदनु महितो निस्सृतश्चूतषण्डात् पार्श्वे तस्याः पशुपतिशिरश्चन्द्रनीहारवाही । दूरात्प्राप्तं प्रियसखमिव त्वामुपैष्यत्यवश्यं कम्पापाथः-कमलवनिका-कामुको गन्धवाहः ॥ १.२८॥ वर्णस्तोमैरिव परिणता सप्तभेदैर्महौघैः मान्या मध्येनगरमभितस्सेविता देवताभिः । स्वच्छस्वादुप्रसरसुभगा स्वामिनी वः कवीनां वेगासंज्ञां वहति महतीं वल्लभा पद्मयोनेः ॥ १.२९॥ तीर्थे पुंसां शमितकलुषे तत्र सारस्वताख्ये स्नात्वा सार्धं मुनिभिरनघैस्सम्यगुल्लासिताङ्गः । विश्वं चित्ते विगतरजसि व्यञ्जयन्तीमशेषं वक्ष्यस्यन्तर्बहिरपि परां शुद्धिमक्षेपणीयाम् ॥ १.३०॥ तस्यास्तीरे सरसिजभुवस्सौम्य वैतानवेदिः दिव्यं कुर्वन् द्रमिडविषयं दृश्यते हस्तिशैलः । यस्योपान्ते कृतवसतयो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ १.३१॥ सञ्चिन्वाना तरुणतुळसी-दामभिस्स्वामभिख्यां तस्यां वेद्यामनुविदधती श्यामळं हव्यवाहम् । भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः भूयश्श्यामा भुवनजननी देवता सन्निधत्ते ॥ १.३२॥ लक्ष्मीविद्युल्ललितवपुषं तत्र कारुण्यपूर्णं मा भैषीस्त्वं मरकतशिलामेचकं वीक्ष्य मेघम् । शुद्धैर्नित्यं परिचितपदस्त्वादृशैर्देवहंसैः हंसीभूतस्स खलु भवतामन्ववायाग्रजन्मा ॥ १.३३॥ सारास्वादी सवनहविषां स्वामिनस्ते स देवः शुद्धं चक्षुश्श्रुतिपरिषदां चक्षुषां भागधेयम् । अङ्गीकुर्याद्विनतममृतासारसंवादिभिस्त्वां आविर्मोदैरभिमतवरस्थूललक्षैः कटाक्षैः ॥ १.३४॥ मध्वासक्तं सरसिजमिव स्विन्नमालम्बमानो देव्या हस्तं तदितरकरन्यस्तलीलारविन्दः । देवश्श्रीमान् स यदि विहरेत्स्वैरमारामभूमौ व्यक्तो वालव्यजनवपुषा वीजयेस्तं त्वमेव ॥ १.३५॥ जातप्रीतिर्जनपदमथो मध्यमं लङ्घयित्वा दूराल्लक्ष्यक्रमुक-निवह-श्यामळान्याहि चोळान् । प्रत्युद्गच्छन्मकरवलन-स्तम्भितैस्सह्यजायाः स्रोतोभेदैर्विविध-गतिभिस्संविभक्तावकाशान् ॥ १.३६॥ केशैर्ज्योत्स्नाकलहि तिमिरं पाळिकापीडगर्भैः सन्ध्यारागं सुरभिरजनी-सम्भवैरङ्गरागैः । आबिभ्राणास्सरसिजदृशो हंस दोलाधिरोहात् आधास्यन्ते मदकलगिरस्तेषु नेत्रोत्सवं ते ॥ १.३७॥ पृथ्वीलीलातिलकसुभगं पश्चिमं भागमेषां नाम्ना वर्षं जलचर नदीमातृकं गाहमानः । द्रक्ष्यस्यारात्परिमिततया मग्नकैलासदृश्यं श्वेतं शैलं फणिपतिमिव क्ष्मातलादुज्जिहानम् ॥ १.३८॥ स्फारालोकप्रशमिततमस्सञ्चयं तत्र पुंसां प्रत्यग्रूपं प्रगुणविभवं प्रार्थनीयं बुधानाम् । नेदीयांसं कुशलनिवहं नन्तुराधास्यते ते दिव्यं तेजो जलधितनया स्नेहनित्यानुषक्तम् ॥ १.३९॥ स्निग्धच्छायं तदनु विततं तस्य धामेव नीलं नीलीरक्षानियतललितं काननं संविचीयाः । दृष्टे तस्मिन्ननिमिषवधू-नित्यनिर्वेश-योग्ये स्वर्गोद्यानश्रियमपि लघुं मंस्यते मानसं ते ॥ १.४०॥ कुर्वन्नानाकुसुमरजसा यत्र चित्रं वितानं पूगारण्ये मृदुविचलयन्पालिकाचामराणि । पादन्यासक्षममवकिरन् क्ष्मातलं पुष्पजालैः प्रायो वायुः परिजनविधिं पञ्चबाणस्य धत्ते ॥ १.४१॥ स्रोतोवेगादथ जनपदं सौम्य सीमन्तयन्ती प्रत्यादेशो विबुधसरितस्स्यन्दते सह्यकन्या । काले काले परिणतिवशात्पर्वभेदावकीर्णैः पुण्ड्रेक्षूणां पुलिनविशदैर्गद्गदा मौक्तिकौघैः ॥ १.४२॥ भद्रालापैर्विहितकुशलां त्वादृशानां द्विजानां सह्योत्सङ्गात्सपदि मरुता सागरं नीयमानाम् । यामस्कन्नास्सरसकुहली-पत्रपातैर्निशान्ते मन्दस्मेरां मधुपरिमळैर्वासयन्तीव पूगाः ॥ १.४३॥ तस्मिन् द्रक्ष्यस्यमर-महिळा-मौळि-गन्धैरवन्ध्यां आतन्वानां व्यपगतरसं मानसे मानसं वः । तीर्थैरन्यैरपि परिगतां शुद्धिहेतोस्समन्तात् चन्द्रोल्लास-प्रथितयशसस्सम्पदं पुष्करिण्याः ॥ १.४४॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 28 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine