द्वादशस्तोत्रम्
/ 2
←

Dvadashastotram Sanskrit PDF & Online Reader (द्वादशस्तोत्रम्)

Dvadashastotram (द्वादशस्तोत्रम्) by Madhvacharya (मध्वाचार्यः) — Sanskrit Text & PDF Download

📜 Last Proofread: 09 Sep 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 09 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
द्वादशस्तोत्रम् ॥ प्रथमाध्यायः ॥ वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् । इन्दिरापतिमाद्यादिवरदेश वरप्रदम् ॥ 1 ॥ नमामि निखिलाधीशकिरीटाघृष्टपीठवत् । हृत्तमःशमनेर्काभं श्रीपतेः पादपङ्कजम् ॥ 2 ॥ जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः । स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया ॥ 3 ॥ उदरं चिन्त्यमीशस्य तनुत्वेप्यखलिम्भरम् । वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया ॥ 4 ॥ स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः । अनन्तमन्तवदिव भुजयोरन्तरं गतम् ॥ 5 ॥ शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः । पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोनिशम् ॥ 6 ॥ सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम् । वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेनिशं यतः ॥ 7 ॥ स्मरेत यामिनीनाथसहस्रामितकान्तिमत् । भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम् ॥ 8 ॥ पूर्णानन्दसुखोद्भासि मन्दस्मितमधीशितुः । गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥ 9 ॥ स्मरामि भवसन्तापहानिदामृतसागरम् । पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥ 10 ॥ ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् । भ्रूभङ्गं पारमेष्ठ्यादिपददायि विमुक्तिदम् ॥ 11 ॥ सन्ततं चिन्तयेनन्तमन्तकाले विशेषतः । नैवोदापुर्गृणन्तोन्तं यद्गुणानामजादयः ॥ 12 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे प्रथमोध्यायः । ॥ द्वितीयोध्यायः ॥ सुजनोदधिसंवृद्धिपूर्णचन्द्रो गुणार्णवः । अमन्दानन्दसान्द्रो नः प्रीयतामिन्दिरापतिः ॥ 1 ॥ रमाचकोरीविधवे दुष्टदर्पोदवह्नये । सत्पान्थजनगेहाय नमो नारायणाय ते ॥ 2 ॥ चिदचिद्भेदमखलिं विधायादाय भुञ्जते । अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥ 3 ॥ अमन्दागुणसारोपि मन्दहासेन वीक्षितः । नित्यमिन्दिरयानन्दसान्द्रो यो नौमि तं हरिम् ॥ 4 ॥ वशी वशे न कस्यापि योजितो विजिताखिलः । सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥ 5 ॥ अगुणाय गुणोद्रेकस्वरूपायादिकारिणे । विदारितारिसङ्घाय वासुदेवाय ते नमः ॥ 6 ॥ आदिदेवाय देवानां पतये सादितारये । अनाद्यज्ञानपाराय नमो वरवराय ते ॥ 7 ॥ अजाय जनयित्रेस्य विजिताखलिदानव । अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥ 8 ॥ इन्दिरामन्दसान्द्राग्य्रकटाक्षप्रेक्षितात्मने । अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥ 9 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे द्वितीयोध्यायः । ॥ तृतीयोध्यायः ॥ कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् । हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥ 1 ॥ न ततोस्त्परं जगतीड्यतमं परमात् परतः पुरुषोत्तमतः । तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥ 2 ॥ यततोपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति । स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥ 3 ॥ श?ृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम् । न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात् ॥ 4 ॥ यदि नाम परो न भवेत् स हरिः कथमस्य वशे जगदेतदभूत् । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥ 5 ॥ न कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥ 6 ॥ व्यवहारभिदापि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् । बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत् स्वयमेव हरिः ॥ 7 ॥ चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा । नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥ 8 ॥ आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा । कृतं हर्यष्टकं भक्त्या पठतः प्रियते हरिः ॥ 9 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे तृतीयोध्यायः । ॥ चतुर्थोध्यायः ॥ निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः । अजरारमरणः सकलार्तिहरः कमलापतिरीड्यतमोवतु नः ॥ 1 ॥ यदसुप्तिगतोपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः । स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 2 ॥ बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः । सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ 3 ॥ स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् । विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥ 4 ॥ विमलैः श्रुतिशाणनिशाततमैः सुमनोसिभिराशु निहत्य दृढम् । बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥ 5 ॥ स हि विश्वसृजो विभुशम्भुपुरन्दरसूर्यमुखानपरानमरान् । सृजतीड्यतमोवति हन्ति निजं पदमापयति प्रणतान्सुधिया ॥ 6 ॥ परमोपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च । क्वचिदद्यतनोपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥ 7 ॥ इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः । सुखतीर्थापदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ 8 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे चतुर्थोध्यायः । ॥ पञ्चमोध्यायः ॥ वासुदेवापरिमेयसुधामन् शुद्धसदोदित सुन्दरीकान्त । धराधरधारणवेधुरधर्तः सौधृतिदीधितिवेधृविधातः ॥ 1 ॥ अधिक बन्धं रन्धय बोधाच्छिन्धि पिधानं बन्धुरमद्धा । केशव केशव शासक वन्दे पाशधरार्चित शूरवरेश ॥ 2 ॥ नारायणामल कारण वन्दे कारण कारण पूर्णवरेण्य । माधव माधव साधक वन्दे बाधक बोधक शुद्धसमाधे ॥ 3 ॥ गोविन्द गोविन्द पुरन्दर वन्दे स्कन्दसुनन्दनवन्दितपाद । विष्णो सृजिष्णो ग्रसिष्णो विवन्दे कृष्ण सदुष्णवधिष्णो सुधृष्णो ॥ 4 ॥ मधुसूदन दानवसादन वन्दे दैवतमोदित वेदितपाद । त्रिविक्रम निष्क्रम विक्रम वन्दे सङ्क्रम सुक्रम हुङ्कृतवक्त्र ॥ 5 ॥ वामन वामन भामन वन्दे सामन सीमन सामन सानो । श्रीधर श्रीधर शन्धर वन्दे भूधर वार्धर कन्धरधारिन् ॥ 6 ॥ हृषीकेश सुकेश परेश विवन्दे शरणेश कलेश बलेश सुखेश । पद्मनाभ शुभोद्भव वन्दे सम्भृतलोकभराभर भूरे । दामोदर दूरतरान्तर वन्दे दारितपारगपाद परस्मात् ॥ 7 ॥ आनन्दतीर्थमुनीन्द्रकृता हरिगीतिरियं परमादरतः । परलोकवलिोकनसूर्यनिभा हरिभक्तिविवर्धनशौण्डतमा ॥ 8 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे पञ्चमोध्यायः । ॥ षष्ठोध्यायः ॥ मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य । कूर्मस्वरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥ 1 ॥ सूकररूपक दानवशत्रो भूमिविधारक यज्ञवराङ्ग । देव नृसिंह हिरण्यकशत्रो सर्वभयान्तक दैवतबन्धो ॥ 2 ॥ वामन वामन माणववेष दैत्यवरान्तक कारणरूप । राम भृगूद्वह सूर्जितदीप्ते क्षत्रकुलान्तक शम्भुवरेण्य ॥ 3 ॥ राघव राघव राक्षसशत्रो मारुतिवल्लभ जानकिकान्त । देवकिनन्दन सुन्दररूप रुक्मिणिवल्लभ पाण्डवबन्धो ॥ 4 ॥ देवकिनन्दन नन्दकुमार वृन्दावनाञ्चन गोकुलचन्द्र । कन्दफलाशन सुन्दररूप नन्दितगोकुलवन्दितपाद ॥ 5 ॥ इन्द्रसुतावक नन्दकहस्त चन्दनचर्चित सुन्दरिनाथ । इन्दीवरोदरदलनयन मन्दरधारिन् गोविन्द वन्दे ॥ 6 ॥ चन्द्रशतानन कुन्दसुहास नन्दितदैवतानन्दसुपूर्ण । दैत्यविमोहक नित्यसुखादे देवसुबोधक बुद्धस्वरूप ॥ 7 ॥ दुष्टकुलान्तक कल्किस्वरूप धर्मविवर्धन मूलयुगादे । नारायणामलकारणमूर्ते पूर्णगुणार्णव नित्यसुबोध ॥ 8 ॥ आनन्दतीर्थमुनीन्द्रकृता हरिगाथा । पापहरा शुभा नित्यसुखार्था ॥ 9 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे षष्ठोध्यायः । ॥ सप्तमोध्यायः ॥ विश्वस्थितिप्रलयसर्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः । यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥ 1 ॥ ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्वगीर्वाणसन्ततिरियं यदपाङ्गलेशम् । आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥ 2 ॥ धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् । आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥ 3 ॥ षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् । आश्रित्य यानपि समेत्य न याति दुःखं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥ 4 ॥ शेषाहिवैरिशिवशक्रमनुप्रधानचित्रोरुकर्मरचनं यदपाङ्गलेशम् । आश्रित्य विश्वमखलिं विदधाति धाता श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥ 5 ॥ शक्रोग्रदीधितिहिमाकरसूर्यसूनुपूर्वं निहत्य निखलिं यदपाङ्गलेशम् । आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥ 6 ॥ तत्पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् । आश्रित्य नागपतिरन्यसुरैर्दुरापां श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥ 7 ॥ नागारिरुग्रबलपौरुष आप विष्णोर्वाहत्वमुत्तमजवो यदपाङ्गलेशम् । आश्रित्य शक्रमुखदेवगणैरचिन्त्यं श्रीर्यत्कटाक्षबलवत्यजितं नमामि ॥ 8 ॥ आनन्दतीर्थमुनिसन्मुखपङ्कजोत्थं साक्षाद्रमाहरिमनःप्रियमुत्तमार्थम् । भक्त्या पठत्यजितमात्मनि सन्निधाय यः स्तोत्रमेतदभियाति तयोरभीष्टम् ॥ 9 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे सप्तमोध्यायः । ॥ अष्टमोध्यायः ॥ वन्दिताशेषवन्द्योरुवृन्दारकं चन्दनाचर्चितोदारपीनांसकम् । इन्दिराचञ्चलापाङ्गनीराजितं मन्दरोद्धारिवृत्तोद्भुजाभोगिनम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 1 ॥ सृष्टिसंहारलीलावलिासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् । दुष्टनिश्शेषसंहारकर्मोद्यतं हृष्टपुष्टानुशिष्टप्रजासंश्रयम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 2 ॥ उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानन्ददश्रीपदम् । भिन्नकर्माशयप्राणिसम्प्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 3 ॥ विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितिशेश्वरैश्चार्चितम् । अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानन्दरूपं परम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ 4 ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 09 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine