॥ श्रीः ॥
भासनाटकचक्रे
दूतघटोत्कचम् ।
(नान्यन्ते ततः प्रविशति सूत्रधारः ।)
सूत्रधारः —
नारायणस्त्रिभुवनैकपरायणो वः
पायादुपायश१तयुक्तिकरः सुराणाम् ।
लोकत्रयाविरतनाटकतन्त्रवस्तु-
प्रस्तावनप्रतिसमापनसूत्रधारः ॥ १ ॥
(परिक्रम्य) एवमार्यमिश्रान्विज्ञापयामि । अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि ।
(नेपथ्ये)
भो भो निवेद्यतां निवेद्यतां तावत् ।
सूत्रधारः —
भवतु । विज्ञातम् । एष खलु संशप्तकानीकनिवाहिते२ जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निपातितः कुमारोऽभिमन्युः । तथाहि
यान्त्यर्जुनप्रत्यभियानभीता
यतोऽर्जुनस्तां दिशमीक्षमाणाः ।
नराधिपाः स्वानि निवेशनानि
सौभद्रबाणाङ्कितनष्टसञ्ज्ञाः ॥ २ ॥
(निष्क्रान्तः ।)
स्थापना ।
(ततः प्रविशति भटः ।)
भटः —
भो भोः ! निवेद्यतां तावत्पुत्रशतश्लाघ्यबान्धवाय विज्ञानविस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय । एष खलु
योधस्यन्दनवाजिवारणवधैर्विक्षोभ्य राज्ञां बलं बालेनार्जुनकर्म येन समरे लीलायता दर्शितम् । सौभद्रः स रणे नराधिपशतैर्वेगागतैः सर्वशः खे शक्रस्य पितामहस्य सहसैवोत्सङ्गमारोपितः ॥ ३ ॥
(ततः प्रविशति धृतराष्ट्रो गान्धारी दुःशला प्रतिहारी च ।)
धृतराष्ट्रः —
कथं नु भोः !
केनैतच्छ्रतिपथदूषणं कृतं मे कोऽयं मे प्रियमिति विप्रियं ब्रवीति । कोऽस्माकं शिशुवधपातकाङ्कितानां वंशस्य क्षयमवघोषयत्यभीतः ॥ ४ ॥
गान्धारी —
महाराअ ! अत्थि उण जाणीअदि केवळं पुत्तसङ्खअकाओ कुळविग्गहो भविस्सिदि त्ति । महाराज ! अस्ति पुनर्ज्ञायते केवलं पुत्रसङ्क्षयकारकः कुलविग्रहो भविष्यतीति
धृतराष्ट्रः —
गान्धारि ! ज्ञायते ।
गान्धारी —
महाराअ कदा णु खु । महाराज कदा नु खलु ।
धृतराष्ट्रः —
गान्धारि ! शृणु
अद्याभिमन्युनिधनाज्जनितप्रकोपः सामर्षकृष्णधृतरश्मिगुणप्रतोदः । पार्थः करिष्यति तदुग्रधनुःसहायः शान्तिं गमिष्यति विनाशमवाप्य लोकः ॥ ५ ॥
गान्धारी —
हा वच्छ अभिमञ्ञो ! ईदिसे वि णाम पुरुसखअकारएकुळविग्गहे वत्तमाणे वाळभावणिमज्जहमम्हाणं भग्गकमेण करअन्तो कहिं दाणिं पोत्तअ ! गदोसि । हा वत्स अभिमन्यो ! ईदृशोऽपि नाम पुरुषक्षयकारके कुलविग्रहे वर्तमाने बालभावनिमज्जनमस्माकं भाग्यक्रमेण कुर्वन् कुत्रेदानीं पौत्रक ! गतोऽसि ।
दुःशलाः —
जेण दाणि वहूए उत्तराए वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्स वेधव्वमादिट्ठम् । येनेदानीं वध्वै उत्तरायै वैधव्यं दत्तं, तेनात्मनो युवतिजनाय वैधव्यमादिष्टम् ।
धृतराष्ट्रः —
अथ केनैष व्यसनार्णवस्य सेतुबन्धः कृतः ।
भटः —
महाराज ! मया ।
धृतराष्ट्रः —
को भवान् ।
भटः —
महाराज ! ननु जयत्रातोऽस्मि ।
धृतराष्ट्रः —
जयत्रात !
केनाभिमन्युर्निहतः कस्य जीवितमप्रियम् ।
पञ्चानां पाण्डवाग्नीनामात्मा केनेन्धनीकृतः ॥ ६ ॥
भटः —
महाराज ! बहुभिः किल पार्थिवैः समागतैर्निहतः कुमारोऽभिमन्युः । स्यात्तु जयद्रथो निमित्तभूतः ।
धृतराष्ट्रः —
हन्त जयद्रथो निमित्तभूतः ।
भटः —
महाराज ! अथ किम् ।
धृतराष्ट्रः - हन्त जयद्रथो निहतः ।
(तच्छ्रुत्वा दुःशला रोदिति ।)
धृतराष्ट्रः —
कैषा रोदिति ।
प्रतीहारी —
महाराअ ! भट्टिदारिआ दुश्शळा । महाराज ! भर्तृदारिका दुःशला ।
धृतराष्ट्रः —
वत्से अलमलं रुदितेन । पश्य,
भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते ।
येन गाण्डीवबाणानामात्मा लक्षीकृतः स्वयम् ॥ ७ ॥
दुःशला —
तेण हि अणुजागादु मं तादो, अहं वि गमिस्सं बहुए उत्तराए आसम् । [ तेन ह्यनुजानातु मां तातः, अहमपि गमिष्यामि वध्वा उत्तरायाः सकाशम् । ]
धृतराष्ट्रः —
वत्से किमभिधास्यसि ।
दुःशला —
ताद ! एवं च भणिस्सं-अज्जकाळिअं च दे वेसग्गहणमहं वि उवधारइस्सामिति । तात ! एवं च भणिष्यामि - अद्यकालिकं च ते वेषग्रहणमहमप्युपधारयिष्यामीति
गान्धारी —
पुत्तिए ! माखु मा खु अमङ्गळं भणाहि । जीवदि खु दे भत्ता । पुत्रिके ! मा खलु मा खल्वमङ्गलं भण । जीवति खलु ते भर्ता ।
दुःशला —
अम्ब ! कुदो मे एत्तिआणि भाअधेआणि । जो जणद्दणसहाअस्स धणञ्जअस्स विप्पिअं करिअ कोहि णाम जीविस्सिदि । अम्ब ! कुतो मे एतावन्ति भागधेयानि । यो जनार्दनसहायस्य धनञ्जयस्य विप्रियं कृत्वा को हि नाम जीविष्यति ।
धृतराष्ट्रः —
सत्यमाह तपस्विनी दुश्शला । कुतः,
कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्चिरं
यो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः ।
पार्थानां सुरतुल्यविक्रमवतां स्नेहस्य यो भाजनं
तं हत्वा क इहोपलप्स्यति चिरं स्वैर्दुष्कृतैर्जीवितम् ॥ ८ ॥
जयत्रात ! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीवधन्वना ।
भटः —
महाराज ! किं वार्जुनसमीपे वृत्तमेतत् ।
धृतराष्ट्रः —
कथमर्जुनोऽपि नात्रासीत् ।
भटः —
महाराज ! अथ किम् ।
धृतराष्ट्रः —
कथमिदानीं वृत्तमेतत् ।
भटः —
श्रूयतां--संशप्तकानीकनिवाहिते१ जनार्दनसहाये धनञ्जये स बालभावाददृष्टदोषः सङ्ग्राममवतीर्णः कुमारोऽभिमन्युः ।
धृतराष्ट्रः —
हन्त युक्तरूपोऽस्य वधः । कोहि संनिहितशार्दूलां गुहां धर्षयितुं शक्तः । अथ शेषाः पाण्डवाः किमनुतिष्ठन्ति ।
भटः —
महाराज ! श्रूयताम् ।
चितां न तावत्स्वयमस्य देहमारोपयन्त्यर्जुनदर्शनार्थम् ।
तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः ॥ ९ ॥
धृतराष्ट्रः —
गान्धारि ! तदागम्यताम् । गङ्गाकूलमेव यास्यावः ।
गान्धारी —
महाराअ ! णं तहिं गाहामो । महाराज ! ननु तत्र ३ गाहावहे ।
धृतराष्ट्रः —
गान्धारि ! शृणु ।
अद्यैव दास्यामि जलं हतेभ्यः स्वेनापराधेन तवात्मजेभ्यः ।
न त्वस्मि शक्तः सलिलप्रदानैः कर्तुं नृपाणां शिबिरोपरोधम् ॥ १० ॥
(ततः प्रविशति दुर्योधनो दुःशासनः शकुनिध ।)
दुर्योधनः —
वत्स दुश्शासन !
यातोऽभिमन्युनिधनात् स्थिरतां विरोधः
प्राप्तो जयः प्रचलिता रिपवो निरस्ताः ।
उन्मूलितोऽस्य च मदो मधुसूदनस्य
लब्धो मयाद्य सममभ्युदयेन शब्दः ॥ ११ ॥
दुश्शासनः —
अहो तु खलु,
रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य, शत्रोर्बलं
सौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने ।
प्राप्तैश्च व्यसनानि भीष्मपतनादस्माभिरद्याहवे
तीव्राः शोकशराः कृताः खलु मन१स्येषां सुतोत्सादनात् ॥ १२ ॥
शकुनिः —
जयद्रथेनाद्य महत्कृतं रणे नृपैरसम्भावितमात्मपौरुषम् ।
प्रसह्य तेषां यदनेन संयुगे समं सुतेनाप्रतिमं हृतं यशः ॥ १३ ॥
दुर्योधनः —
मातुल ! इतस्तावत् । दुश्शासन ! इतस्तावत् । तत्रभवन्तं तातमभिवादयिष्यामः ।
शकुनिः —
वत्स दुर्योधन ! मामैवम् ।
कामं न तस्य रुचितः कुलविग्रहोऽय-
मस्मांश्च गर्हयति स प्रियपाण्डवत्वात् ।
युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपं
एवं प्रहृष्टवदनैर२भिगन्तुमेनम् ॥ १४ ॥
दुर्योधनः —
मातुल ! मा मैवम् । यथा तथा भवतु । तत्रभवन्तं तातमभिवादयिष्यामः ।
उभौ —
बाढम् ।(परिक्रामति ।)
दुर्योधनः —
तात ! दुर्योधनोऽहमभिवादये ।
दुश्शासनः —
तात ! दुश्शासनोऽहमभिवादये ।
शकुनिः —
शकुनिरहमभिवादये ।
सर्वे —
कथमाशीर्वचनं न प्रयुज्यते ।
सौभद्रे निहते बाले हृदये कृष्णपार्थयोः ।
जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते ॥ १५ ॥
दुर्योधनः —
तात ! किङ्कृतोऽयं सम्भ्रमः ।
धृतराष्ट्रः —
किङ्कृतोऽयं सम्भ्रम इति ।
एका कुलेऽस्मिन्बहुपुत्रनाथे लब्ध्वा सुता पुत्रशताद्विशिष्टा । सा बान्धवानां भवतां प्रसादाद् वैधव्यमश्लाघ्यमवाप्स्यतीति ॥ १६ ॥
दुर्योधनः —
तात ! किं चात्र जयद्रथस्य ।
धृतराष्ट्रः —
तेन किल वरविदग्धेन रुद्धाः पाण्डवाः !
दुर्योधनः —
आ तेन रुद्धाः । बहुभिः खल्वन्यैः ।
धृतराष्ट्रः —
भोः ! कष्टम् ।
बहूनां समवेतानामेकस्मिन्निर्घृणात्मनाम् ।
बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥ १७ ॥
दुर्योधनः —
तात !
वृद्धं भीष्मं छलैर्हत्वा तेषां१न पतिता भुजाः ।
हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् ॥ १८ ॥
धृतराष्ट्रः —
वत्स ! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः ।
दुर्योधनः —
तात ! कथं न समः ।
धतराष्ट्रः —
पुत्र ! श्रूयताम्,
स्वच्छन्दमृत्युर्निहतो हि भीष्मः स्वेनोपदेशेन कृतात्म२तुष्टिः ।
अयं तु बालः कुरुवंशनाथरिछन्नोऽर्जुनस्य प्रथमः प्रवालः ॥ १९ ॥
दुःशासनः —
तात ! बालो न बाल इति । अभिमन्युना,
धृतराष्ट्रः —
किं किं दुश्शासनो व्याहरति ।
दुश्शासनः —
अथ किम् ।
सर्वेषां नः पश्यतां युध्यतां च
व्याया१मोष्णं गृह्य चापं करेण ।
सूर्येणैवाभ्यागतैरंशुजालैः
सर्वे बाणैरङ्किता भूमिपालाः ॥ २० ॥
धृतराष्ट्रः —
कष्टं भोः !
बालेनैकेन तावद्भोः ! सौभद्रेणेदृशं कृतम् । पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति ॥ २१ ॥
दुर्योधनः —
किं करिष्यति ।
धृतराष्ट्रः —
तत्करिष्यति, यत्सावशेषायुषो द्रक्ष्यथ ।
दुर्योधनः —
तात ! कस्तावदर्जुनो नाम ।
धृतराष्ट्रः —
पुत्र ! अर्जुनमपि न जानीषे ।
दुर्योधनः —
तात ! न जाने ।
धृतराष्ट्रः —
तेन हि अहमपि न जाने । किन्तु, अर्जुनस्य बलवीर्यज्ञाः बहवः सन्ति । तान् पृच्छ ।
दुर्योधनः —
तात ! केऽर्जुनस्य बलवीर्यज्ञा मया प्रष्टव्याः ।
धृतराष्ट्रः —
पुत्र ! श्रूयताम् ।