छान्दोग्योपनिषत्
॥ अथ छान्दोग्योपनिषत् ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ प्रथमोऽध्यायः ॥
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १.१.१॥
एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः ।
अपामोषधयो रस ओषधीनां पुरुषो रसः
पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः
साम्न उद्गीथो रसः ॥ १.१.२॥
स एष रसानाꣳरसतमः परमः परार्ध्योऽष्टमो
यदुद्गीथः ॥ १.१.३॥
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ
इति विमृष्टं भवति ॥ १.१.४॥
वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १.१.५॥
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सꣳसृज्यते
यदा वै मिथुनौ समागच्छत आपयतो वै
तावन्योन्यस्य कामम् ॥ १.१.६॥
आपयिता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.७॥
तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव
तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै
कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.८॥
तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति
शꣳसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना
रसेन ॥ १.१.९॥
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १.१.१०॥
॥ इति प्रथमः खण्डः ॥
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध
देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १.२.१॥
ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे
तꣳ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति
सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ १.२.२॥
अथ ह वाचमुद्गीथमुपासांचक्रिरे ताꣳ हासुराः पाप्मना
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च
पाप्मना ह्येषा विद्धा ॥ १.२.३॥
अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं
चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.४॥
अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयꣳ शृणोति श्रवणीयं
चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.५॥
अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयꣳसंकल्पते संकल्पनीयंच
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.६॥
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे
तꣳहासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा
विध्वꣳसेतैवम् ॥ १.२.७॥
यथाश्मानमाखणमृत्वा विध्वꣳसत एवꣳ हैव
स विध्वꣳसते य एवंविदि पापं कामयते
यश्चैनमभिदासति स एषोऽश्माखणः ॥ १.२.८॥
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु
एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १.२.९॥
तꣳ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं
मन्यन्तेऽङ्गानां यद्रसः ॥ १.२.१०॥
तेन तꣳ ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं
मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ १.२.११ ॥
तेन तꣳ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं
मन्यन्त आस्याद्यदयते ॥ १.२.१२॥
तेन तꣳह बको दाल्भ्यो विदांचकार ।
स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः
कामानागायति ॥ १.२.१३॥
आगाता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १.२.१४॥
॥ इति द्वितीयः खण्डः ॥
अथाधिदैवतं य एवासौ तपति
तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति ।
उद्यꣳस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य
तमसो भवति य एवं वेद ॥ १.३.१॥
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं
तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ १.३.२॥
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति
स प्राणो यदपानिति सोऽपानः ।
अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः
सा वाक् ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ १.३.३॥
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति
यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति
यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ १.३.४॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः
सरणं दृढस्य धनुष आयमनमप्राणन्ननपानꣳस्तानि
करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १.३.५॥
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति
प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह
गिर इत्याचक्षतेऽन्नं थमन्ने हीदꣳसर्वꣳस्थितम् ॥ १.३.६॥
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य
एवोद्वायुर्गीरग्निस्थꣳ सामवेद एवोद्यजुर्वेदो
गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो
दोहोऽन्नवानन्नादो भवति य एतान्येवं
विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १.३.७॥
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १.३.८॥
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां
देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १.३.९॥
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन
स्तोमेन स्तोष्यमाणः स्यात्तꣳस्तोममुपधावेत् ॥ १.३.१०॥
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ १.३.११॥
आत्मानमन्तत उपसृत्य स्तुवीत कामं
ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत
यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १.३.१२॥
॥ इति तृतीयः खण्डः ॥
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति
तस्योपव्याख्यानम् ॥ १.४.१॥
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशꣳस्ते
छन्दोभिरच्छादयन्यदेभिरच्छादयꣳस्तच्छन्दसां
छन्दस्त्वम् ॥ १.४.२॥
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं
पर्यपश्यदृचि साम्नि यजुषि ।
ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव
प्राविशन् ॥ १.४.३॥
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवꣳसामैवं
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य
देवा अमृता अभया अभवन् ॥ १.४.४॥
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣳ
स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता
देवास्तदमृतो भवति ॥ १.४.५॥
॥ इति चतुर्थः खण्डः ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ
इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति
ह्येष स्वरन्नेति ॥ १.५.१॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति
ह कौषीतकिः पुत्रमुवाच रश्मीꣳस्त्वं पर्यावर्तयाद्बहवो
वै ते भविष्यन्तीत्यधिदैवतम् ॥ १.५.२॥
अथाध्यात्मं य एवायं मुख्यः
प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ १.५.३॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह
कौषीतकिः पुत्रमुवाच प्राणाꣳस्त्वं
भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १.५.४॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इति होतृषदनाद्धैवापि
दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥ १.५.५॥
॥ इति पञ्चमः खण्डः ॥
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढ़ꣳ साम
तस्मादृच्यध्यूढꣳसाम गीयत इयमेव
साग्निरमस्तत्साम ॥ १.६.१॥
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयतेऽन्तरिक्षमेव सा
वायुरमस्तत्साम ॥ १.६.२॥
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते द्यौरेव
सादित्योऽमस्तत्साम ॥ १.६.३॥
नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा
अमस्तत्साम ॥ १.६.४॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम
तस्मादृच्यध्यूढꣳ साम गीयते ॥ १.६.५॥
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव
साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव
सुवर्णः ॥ १.६.६॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १.६.७॥
तस्यर्क्च साम च गेष्णौ
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे
देवकामानां चेत्यधिदैवतम् ॥ १.६.८॥
॥ इति षष्ठः खण्डः ॥
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ
साम तस्मादृच्यध्यूढꣳसाम गीयते।
वागेव सा प्राणोऽमस्तत्साम ॥ १.७.१॥
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
चक्षुरेव सात्मामस्तत्साम ॥ १.७.२॥
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १.७.३॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳसाम
तस्मादृच्यध्यूढꣳसाम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः
कृष्णं तदमस्तत्साम ॥ १.७.४॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम
तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं
यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १.७.५॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां
चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति
तस्मात्ते धनसनयः ॥ १.७.६॥
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति
सोऽमुनैव स एष चामुष्मात्पराञ्चो
लोकास्ताꣳश्चाप्नोति देवकामाꣳश्च ॥ १.७.७॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣳश्चाप्नोति
मनुष्यकामाꣳश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १.७.८॥