छान्दोग्योपनिषद्भाष्यम्
/ 25
←

Chandogyopanishadbhashyam Telugu PDF & Online Reader (ఛాన్దోగ్యోపనిషద్భాష్యమ్)

Chandogyopanishadbhashyam (छान्दोग्योपनिषद्भाष्यम्) by Madhvacharya (मध्वाचार्यः) — Telugu Text & PDF Download

📜 Last Proofread: 28 Aug 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 28 Aug 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
छान्दोग्योपनिषद्भाष्यम् (मूलम् — छान्दोग्योपनिषत्) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) ॥ प्रथमः खण्डः ॥
📖 1.1 ▼
हरिःओम् ॥ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्मनिराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ओं शान्तिः शान्तिः शान्तिः
📖 2.1 ▼
अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभासर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् । सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृतिध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे ॥ १ ॥ हयग्रीवमुखोद्गीर्णगीर्भिर्देवी(वम् .हृ) रमा पतिम् । अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ ओमितिनामकमक्षरं सर्वसन्निहितत्वादेतत् । उच्चत्वाद् गीतत्वात् सर्वस्थानत्वाच्चोद्गीथं भगवन्तमुपासीत । उक्तं च महासंहितायाम्– ‘हयग्रीवोद्गीतवाक्यैः रमा देवी रमापतिम् । ओमित्येतन्मुखैर्देवम् अस्तुवत्सामवेदगैः ॥ इति । ‘ओंनामानमुपासीत तदर्थगुणपूर्वकम् । ओतत्वाद् अवनान्मानाद् अधिकोच्चत्वकारणात् ॥ आनन्दाद् ओजसश्चैव भरणाद् ओमुदाहृतः ॥’ इति समन्वये । ‘ओतमस्मिन् जगत्सर्वम् अत्युच्चश्चाखिलैर्गुणैः । इत्योमिति सदोपास्यः सोऽक्षरः पुरुषोत्तमः ॥ उच्चत्वाद्गीयमानत्वात् स्थानाद् उद्गीथ उच्यते । ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम् ॥ विष्णोरोमिति नाम्नोऽस्य व्याख्यानम् अधिकोच्चता । अकारेणाधिकं प्रोक्तम् उकारेणोच्चमुच्यते ॥ तथा मितं सर्ववेदैर्मकारेणाभिधीयते । अधिकोच्चमिति ज्ञातम् ओमित्यस्यार्थ ईरितः ॥
📖 1.1 ▼
एषां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपामोषधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाग्रसो । वाच (ऋक् रसः)ऋग्रसः । ऋचः साम रसः । साम्न उद्गीथो रसः । स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः ॥ २ ॥
📖 2.1 ▼
तदेतत् परमत्वं तु यथाक्रममुदीर्यते । देवतानुक्रमज्ञाश्च विष्णोः परमताविदः ॥ एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा । अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम् ॥ एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः । एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः ॥ प्रविशन्ति परं देवं नारायणमनामयम् । उच्चक्रमान्तगत्वेन कुर्युः पूजां हरेः सदा ॥ लक्ष्म्यादेः क्रमशः पूजां ज्ञात्वा भागवता इति । स्वतन्त्रपूज्यताबुद्ध्या न दद्युः किञ्च कस्यचित् ॥ ब्रह्माद्या मनुसञ्ज्ञा ये वर्णत्वेनोदिताः(उदितान् .हृ) श्रुतौ । मानवाख्याश्च मुनयस्तान् यजन्ति न चेतरान् ॥ पितृत्वेन गुरुत्वेन साक्षाद्भागवतत्वतः । अपभ्रष्टा अदेवाश्च ब्रह्माद्याख्यायुता अपि ॥ देवसञ्ज्ञाश्च दीनत्वात् पूजयेयुर्न तान् क्वचित् । यद् भागवतबुद्ध्यैव दत्तं ब्रह्मादयः सुराः ॥ वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरत् । यथाक्रमपरिज्ञानाद् एकान्तित्वाच्च केवलम् ॥ अच्छिद्रत्वाच्च नियतो मोक्षोन्यत्तु विडम्बनम् । (विष्णोर्भक्ति .हृ)विष्णौ भक्तिर्विशेषेण मोक्षावाप्तौ हि कारणम् ॥ तद्भक्तेषु क्रमेणैव रमाद्येषु त्वनन्तरम् । तृतीयमपि वैराग्यं न (नैवान्यत् .हृ)चान्यन्मोक्षकारणम् ॥ एतत्साधनताहेतोस्तदन्यद्धि विधीयते । अतोऽन्यत् सर्वकृच्चापि गच्छेदेवाधरं तमः ॥ अस्मिन्सुनिष्ठितो नित्यं मोक्ष्येवान्योज्झकोऽपि सन् । अतस्तेषां क्रमं वक्ष्ये देवानां यः श्रुतौ श्रुतः ॥ पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा । रसः सारो वरश्चेति शब्दा एकार्थवाचकाः ॥ पृथिव्या वरुणः श्रेष्ठस्तस्माद् ओषधिदेवता । सोमस्तस्मात्तु पुरुषो रुद्रो यत्पौंस्यदेवता ॥ तस्मात् सरस्वती वाग्घि श्रेष्ठाऽस्या ऋक्स्वरूपिणी । सैव श्रेष्ठा ततो वायुर्वरिष्ठः सामगायकः ॥ समत्वात् सर्वभूतेषु साम साम्नां च देवता । ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः(श्रेष्ठः श्रेष्ठतमः) सदा ॥ श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात् परमो विभुः । परमर्द्धियुतत्वाच्च परार्ध्य इति कीर्तितः ॥’ इति सारनिर्णये । अतिशयं परमर्धिगुणः परमः परार्ध्यः । उत्तमेभ्योऽप्यतिपरमोत्तमोत्तमो रसानां रसतमः परमः परार्ध्यः । रसानां सकाशादपि परमपरार्ध्यरसतम(परमः परमर्द्धरसतमः) इत्यर्थः । प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववद् अस्य श्रेष्ठत्वं न भवति; किन्तु? महान् विशेष इति ज्ञापयितुं ‘रसानां रसतम’ इत्यादि बहुविशेषणम् । भूतेभ्यः पृथिव्या रसत्वम्, तेभ्यो वरुणस्य रसतरत्वम्, सोमस्य रसतमत्वम्, रुद्रस्य परमरसतमत्वम्, वाचः परमर्द्धरसतमत्वम्, प्राणस्य परमपरार्धरसतमत्वम्, अयं तु भगवान् प्राणादपि परमपरार्द्धरसतममात्रो न भवति; किन्तु? प्राणस्यापि रसभूताया रमाया अपि परमपरार्ध्यरसतमः । ‘अस्मादप्यतिशयेन परम्’ इत्यसङ्ख्यागोचरत्वेन परार्द्धेन ज्ञेयं हि परार्ध्यम् । ऋग्रूपाया वाचः पृथक्परत्वाङ्गीकारेऽपि भूतेभ्यः प्राणस्य परमपरार्धरसतमत्वमेव; न तु परमपरार्द्ध्य(र्धि)रसतमत्वम् । परस्माद्(दपि) आ समन्तादृद्धं हि परार्द्धम् (तेन उत्तमत्वेन ज्ञेयं परार्धि)। तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्द्ध्यम् । परार्द्धोत्तमं परार्द्धि । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्द्ध्यमित्यतः परार्द्धित्वं श्रियो भवति । श्रियोऽपि परार्द्ध्य भगवान् । अतो रसानां रसतमः परमः परार्द्ध्यः ।
📖 1.1 ▼
कतमा कतमर्क् कतमत् कतमत् साम कतमः कतम उद्गीथ इति विमृष्टं भवति । वागेवर्क, प्राणः सामोमित्येतदक्षरमुद्गीथः ॥ ३ ॥
📖 2.1 ▼
पृथिव्याः सोमवरुणयोश्चौषध्यब्देवतात्वेन रुद्रस्य च लिङ्गदेवतात्वेन प्रसिद्धेः ऋगादीनामेव विमर्शः क्रियतेकतमा कतमर्ग् इत्यादिना । तज्ज्ञानस्य विशिष्टफलत्वाच्च । वाचश्च सरस्वतीत्वेन प्रसिद्धेर्वागृचोरैक्याच्च न विमर्शः कृतः । ‘विशेषात् प्राणसंयुक्ता वाग् ऋगित्यभिधीयते । ऋ गताविति धातोर्हि ऋक्त्वं सर्गाभिमानिनी ॥ विशेषसंयोगहीना यदा सा वै(सैव .हृ) सरस्वती । तदा तस्यावरा सैव प्राणसंयोगिनी मता ॥ प्राणयोगवियोगाभ्यां सैषैकाऽपि विभिद्यते । वागेवाक् तच्छ्रुतौ प्रोक्ता प्राणः सामेति कीर्तितः ॥ अक्षयाद् रतिरूपत्वाद् अक्षेषु रमणादपि । अक्षरं भगवान् विष्णुरोमित्युच्चत्वहेतुतः(अत्युच्चत्वहेतुतः .हृ) ॥ इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः । एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः (स्थितेः) ॥ उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः ॥
📖 1.1 ▼
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च ऋक् च साम च तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ ४ ॥ यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य काममापयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ५ ॥ तद्वा एतदनुज्ञाक्षरम् । यद्धि किञ्चानुजानात्योमित्येव तदा हैष उ एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ६ ॥
📖 2.1 ▼
तस्मादोमित्यनुज्ञानं कुवर्न्त्येते जनाः सदा । त्वदुक्तं तत् तथा कुर्याद् भगवानेव केशवः ॥ इत्यभिप्रायतः शब्दः प्रवृत्तः स पुरातनैः । तदेतदज्ञैस्तु जनैः स्वानुज्ञेति प्रदीयते(प्रतीयते) ॥ ओमित्ययं पूर्णवाची समृद्धिर्ह्योमितीरिता । समृद्धस्ते हि कामोऽयमित्यनुज्ञाऽथवा भवेत् ॥ अतः समृद्धिवाची स्याद्धरेरोंशब्द ईरितः । इति वा दीयतेऽनुज्ञा हरिस्तव समृद्धिदः ॥ ६ ॥ वाक्प्राणौ दम्पती चापि संसृज्येते जनार्दने । मुक्तौ तु तत्प्रसादेन संसृज्यन्ते ततः परे ॥ तद्द्वारेणैव साक्षात्तु प्राणः संसृज्यते हरौ ॥ ४ ॥
📖 1.1 ▼
तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ॥ ७ ॥
📖 2.1 ▼
तेनैव विष्णुनेयं च त्रयीविद्या प्रवर्तते । ओमित्युक्त्वा हि तद्व्याख्या सर्वैर्मन्त्रैः प्रवर्तते ॥ ओंनामकस्य पूजार्थं विष्णोरेव सदैव हि । महिम्ना सारभूतेन विष्णुना ज्ञोऽज्ञ एव च ॥ कुरुतः कर्म.............।
📖 1.1 ▼
नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति अथ ह य एवायं (मुख्यप्राणः) मुख्यः प्राणस्तमुद्गीथमुपासीत तस्येतरैः प्राणैरुपव्याख्यानं भवति ॥ ८ ॥ १ ॥
📖 2.1 ▼
...............नाज्ञस्य मुक्तिर्ज्ञस्य भवेत्तु सा । स्वयोग्यं तु परिज्ञानं यत् तस्योपनिषत् स्मृतम् ॥ अक्षरं भगवान् विष्णुस्तस्योप प्रणवः स्मृतः । उपव्याख्या तु तद्व्याख्येत्येवमाह श्रुतिः परा ॥’ इति तार्तीये । ‘परर्धं परमादुच्चं परार्धं तु ततोऽधिकम् । ततोऽधिकं परार्धिः स्यात् परार्ध्यमिति तत्परम् ॥ परतः परमाच्चैव परार्द्धो(परार्द्धि .हृ) वायुरीरितः । परार्धिनी श्रीरुद्दिष्टा परार्ध्यो भगवान् हरिः ॥ इति शब्दनिर्णये ॥ ८ ॥ १ ॥ ॥ द्वितीयः खण्डः ॥
📖 1.1 ▼
देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १ ॥ ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तं हासुराः पाप्मना विविधुस्तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥ अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात् तयोभयं(तेनोभयं) वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ ३ ॥ अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद् विद्धम् ॥ ४ ॥ अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद् विद्धम् ॥ ५ ॥ अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात् तेनोभयं सङ्कल्पयते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतत् विद्धम् ॥ ६ ॥ अथ ह य एवायं (मुख्यः प्राणः)मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः ऋत्वा विदध्वसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवम् ॥ ७ ॥ स यथाऽश्मानमाखणमृत्वा विध्वंसते एवं हैव स विध्वंसते य एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माऽऽखणः ॥ ८ ॥ नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येषः तेन यदश्नाति यत् पिबति तेनेतरान् प्राणानवत्येतमु एवान्ततो वित्त्वोत्क्रामति व्याददात्येवान्तत इति ॥ ९ ॥ तं हाङ्गिरा उद्गीथमुपासाञ्चक्रे एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसस्तेन ॥ १० ॥ तं ह बृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहती तस्या एष पतिस्तेन ॥ ११ ॥ तं हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद् यदयते तेन ॥ १२ ॥ तं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥ आगता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥ २ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 28 Aug 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine