॥ श्रीधन्वन्तरये नमः ॥
॥ महर्षिचरकप्रणीता चरकसंहिता ॥
॥ अथ सूत्रस्थानम् ॥
॥ चरकसंहिता, सूत्रस्थान, १ ॥
अथातो दीर्घञ्जीवितीयम् अध्यायं व्याख्यास्यामः ॥ चसं-१,१.१ ॥
गुणत्रयविभेदेन मूर्तित्रयम् उपैयुषे ।
त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ॥ १ ॥
सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः ।
बुद्धिदर्पणसङ्क्रान्तं जगदध्यक्षम् ईक्ष्यते ॥ २ ॥
ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु ॥
हुताशवेशचरकप्रभृतिभ्यो नमो नमः ॥ ३ ॥
पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।
मनोवाक्कायदोषाणां हर्त्रे ऽहिपतये नमः ॥ ४ ॥
नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी ।
क्रियते चक्रदत्तेन टीकायुर्वेददीपिका ॥ ५ ॥
सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीन् अस्मि वो नालं तोषयितुं पयोदपयसा नाम्भोनिधिस् तृप्यति ।
व्याख्याभासरसप्रकाशनम् इदं त्व् अस्मिन् यदि प्राप्यते क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् ॥ ६ ॥
इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन सम्प्रति वर्तमानाल्पायुर्मेधसां पुरुषाणां न सम्यगर्थाधिगमः तदनधिगमाच्च तद्विहितार्थानामननुष्ठाने तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिको ऽत्रभवान् अग्निवेशोऽल्पायुर्मेधसामपि सुरोपलम्भार्थं नातिसङ्क्षेपविस्तरं कायचिकित्साप्रधानम् आयुर्वेदतन्त्रं प्रणेतुम् आरब्धवान् ॥ ७ ॥
तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानात्मके ऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभिधाय ॥ ८ ॥
क्ता इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम् ॥ ९ ॥
ननु प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न युक्तं यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तावधारणं विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्रेषु प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात् ॥ १० ॥
अथ मन्यसे आप्तप्रयोजनाभिधानमेतदतोऽत्र यथार्थत्वं ननु भो कथमयं प्रयोजनाभिधायी आप्तः तदभिहितशास्त्रस्य यथार्थत्वादिति चेत् हन्त न यावच्छास्त्रस्य प्रयोजनवत्तावधारणं न तावच्छास्त्रप्रवृत्तिः न यावच्छास्त्रप्रवृत्तिर् न तावच्छास्त्रस्य यथार्थत्वावधारणं न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तुराप्तत्वमवधार्यते आप्तत्वानवधृतौ च कुतस् तदभिहितप्रयोजनवत्तावधारणम् इति चक्रकमापद्यते अथ मन्यसे मा भवतु प्रयोजनवत्तावधारणम् अर्थरूपप्रयोजनवत्तासन्देह एव प्रवर्तको भविष्यति कृष्यादाव् अपि हि प्रवृत्तिर् अर्थसन्देहादेव न हि तत्र कृषीवलानां फललाभावधारणं विद्यते अन्तरावग्रहादेरपिसम्भाव्यमानत्वात् नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनाच्छास्त्रत्वम् एव प्रयोजनवत्तासन्देहोपदर्शकम् अस्तु तथाप्यलं प्रयोजनाभिधानेन ॥ ११ ॥
नैवं नहि सामान्येन प्रयोजनसन्देहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाभिप्रेतप्रयोजनविशेषविषयः सन्देहः अभिप्रेतविशेषविषयश्च सन्देहो न विशेषविषयस्मरणमन्तरा भवति अतो ये तावद् अनवधृताग्निवेशप्रामाण्यास् तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवम् आकारविशेषसन्देहोत्पादनार्थं प्रयोजनविशेषाभिधानं ये पुनः परमर्षेरग्निवेशस्याद्यत एवावधृतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेनैव प्रवृत्तिर् इति युक्तं प्रयोजनाभिधानम् ॥ १२ ॥
प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसन्देहादेव प्रवृत्तिरुपपन्ना न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे ॥ १३ ॥
तदेवं यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्ताव् अपि प्रयोजनमभिधातव्यं तथा चानवस्था इति तन्निरस्तं भवति ॥ १४ ॥
अथेत्यादि सूत्रे ऽथशब्दो ब्रह्मादिप्रणीततन्त्रेष्व् अल्पायुर्मेधसामर्थानवधारणस्य तथाभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोर् आनन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनम् इव प्रस्थितानाम् ॥ १५ ॥
ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोत्ःणाम् अविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम् ॥ १६ ॥
अथशब्दस्य मङ्गलत्वे स्मृतिर् ओङ्कारश् चाथशब्दश्च द्वाव् एतौ ब्रह्मणः पुरा ॥ १७ ॥
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकाव् उभौ इति ॥ १८ ॥
शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः ॥ १९ ॥
यथा अथ शब्दानुशासनम् अथातो धर्मं व्याख्यास्यामः वै इत्यादौ ॥ २० ॥
अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत एव अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद् व्याख्यानान्तरायभयश्च तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम् ॥ २१ ॥
यथा च गुर्वाज्ञालाभानन्तरम् एतत् तन्त्रकरणं तथा अथ मैत्रीपरः पुण्यम् इत्यादौ स्फुटमेव ॥ २२ ॥
ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति ॥ २३ ॥
यत् पुनः शिष्यप्रश्नानन्तर्यार्थत्वम् अथशब्दस्य वर्ण्यते तन्न मां धिनोति नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति ॥ २४ ॥
अतःशब्दो ऽधिकारप्रागवध्युपदर्शकः अत ऊर्ध्वं यद् उपदेक्ष्यामो दीर्घञ्जीवितीयं तदिति यदि वा हेतौ येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणाम् उक्तेन न्यायेनोत्सम्बन्धत्वम् इव अतो हेतोर् दीर्घञ्जीवितीयं व्याख्यास्याम इति योजनीयम् ॥ २५ ॥
दीर्घञ्जीवितीयम् इत्यत्र दीर्घञ्जीवितशब्दो ऽस्मिन्न् अस्तीति मत्वर्थे अध्यायानुवाकयोर् लुक् च इति छप्रत्ययः ॥ २६ ॥
यदि वा दीर्घञ्जीवितशब्दम् अधिकृत्य कृतो ग्रन्थो ऽध्यायरूपस्तन्त्ररूपो वा इत्यस्यां विवक्षायाम् अधिकृत्य कृते ग्रन्थे इत्यधिकारात् शिशुक्रन्दयमसभ इत्यादिना छः ॥ २७ ॥
एवमन्यत्राप्येवञ्जातीये मन्तव्यम् ॥ २८ ॥
अत्र च सत्यपि शब्दान्तरे दीर्घञ्जीवितशब्देनैव सञ्ज्ञा कृता दीर्घञ्जीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च ॥ २९ ॥
दीर्घञ्जीवितशब्दो ऽस्मिन्न् अस्ति इति दीर्घञ्जीवितशब्दम् अधिकृत्य कृतो वा इत्यनया व्युत्पत्त्या दीर्घञ्जीवितीयशब्दस् तन्त्रे ऽध्याये च प्रवर्तनीयः ॥ ३० ॥
तेन दीर्घञ्जीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं प्रति व्याख्यानप्रतिज्ञा लब्धा भवति पुनर् दीर्घञ्जीवितीयम् इति पदम् आवर्त्याध्यायपदसमभिव्याहृतम् अध्यायव्याख्यानप्रतिज्ञां लम्भयति ॥ ३१ ॥
दृष्टं चावृत्य पदस्य योजनं यथा अपामार्गतण्डुलीये गौरवे शिरसः शूले पीनसे इत्यादौ शिरस इति पदं गौरवे इत्यनेन युज्यते आवृत्य शूले इत्यनेन च ॥ ३२ ॥
अतश्च यदुच्यते अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति तन्निरस्तं भवति ॥ ३३ ॥
यदि वा अध्यायप्रतिज्ञैवास्तु तयैव तन्त्रप्रतिज्ञाप्यर्थलब्धैव न ह्य् अध्यायस् तन्त्रव्यतिरिक्तः तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव यथा अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति ॥ ३४ ॥
अवयवान्तरव्याख्यानप्रतिज्ञा तु न लभ्यते तां तु प्रत्यध्यायमेव करिष्यति ॥ ३५ ॥
अध्यायमिति अधिपूर्वादिङः इङश्च इति कर्मणि घञा साध्यम् ॥ ३६ ॥
तेन अधीयते इत्यध्यायः ॥ ३७ ॥
न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः यतो योगरूढेयम् अध्यायसञ्ज्ञाध्यायस्य प्रकरणसमूहविशेष एव दीर्घञ्जीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते ॥ ३८ ॥
वक्ष्यति हि अधिकृत्येयमध्यायनामसञ्ज्ञा प्रतिष्ठिता इति नामसञ्ज्ञा योगरूढसञ्ज्ञेत्यर्थः ॥ ३९ ॥
यदि वा करणाधिकरणयोर् अर्थयोः ॥ ४० ॥
अध्यायन्यायोद्यावसंहाराश् च इतिसूत्रेण निपातनाद् अध्यायपदसिद्धिः ॥ ४१ ॥
अधीयतेऽस्मिन्ननेन वार्थविशेष इत्यध्यायः ॥ ४२ ॥
अतिप्रसक्तिनिषेधस् तूक्तन्यायः ॥ ४३ ॥
व्याख्यास्याम इति व्याङ्पूर्वात् ख्यातेऌर्टा साध्यम् ॥ ४४ ॥
चक्षिङो हि प्रयोगेऽनिच्छतो ऽपि व्याख्यातुः क्रियाफलसम्बन्धस्य दुर्निवारत्वेन स्वरितञित इत्यादिनात्मनेपदं स्यादिति ॥ ४५ ॥
वि इति विशेषे विशेषाश्च व्याससमासादयः ॥ ४६ ॥
आङयं क्रियायोगे ये तु मर्यादायाम् अभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषाम् अभिप्रायं न विद्मः ॥ ४७ ॥
यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात् यथा आसमुद्रक्षितीशानाम् आपाटलीपुत्राद् वृष्टो देव इत्यादौ इहापि च तथा ॥ ४८ ॥
क्रियायोगविरहे उपसर्गाः क्रियायोगे इति नियमाद् आङ उपसर्गत्वं न स्यात् ततश्चानुपसर्गेणाङा व्यवधानाद् वेर् उपसर्गस्य प्रयोगो न स्यात् ॥ ४९ ॥
येनाव्यवहितः सजातीयव्यवहितो वा धातोर् उपसर्गो भवति ॥ ५० ॥
व्याङोर् उभयोर् अप्यनुपसर्गत्वे तत्सम्बन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात् तस्मात् क्रियायोगित्वम् एवाङो न्याय्यम् ॥ ५१ ॥
अथ अतः दीर्घं जीवितीयम् अध्यायं वि आ ख्यास्याम इत्यष्टपदत्वम् ॥ ५२ ॥ )
इति ह स्माह भगवानात्रेयः ॥ चसं-१,१.२ ॥