बृहदारण्यकोपनिषद्भाष्यम्
/ 20
←

Brihadaranyakopanishadbhashyam English (IAST) PDF & Online Reader (bṛhadāraṇyakopaniṣadbhāṣyam)

Brihadaranyakopanishadbhashyam (बृहदारण्यकोपनिषद्भाष्यम्) by Madhvacharya (मध्वाचार्यः) — English (IAST) Text & PDF Download

📜 Last Proofread: 24 Sep 2026
📥 Download English (IAST) PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 24 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script English (IAST)
↔️ Text Alignment Center
बृहदारण्यकोपनिषद्भाष्यम् (मूलम् — बृहदारण्यकोपनिषत्) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) ॥ अश्वब्राह्मणम् ॥
📖 1.1 ▼
ॐ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः । संवत्सरः आत्मा अश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं, पृथिवी पाजस्यं, दिशः पार्श्वे । अवान्तरदिशः पर्शवः । ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा । नक्षत्राण्यस्थीनि नभो मांसान्युवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥
📖 2.1 ▼
श्रीमदानन्दतीर्थभगवत्पादाचार्यप्रणीतं बृहदारण्यकोपनिषद्भाष्यम् प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं सर्वान्तस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम् । सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैः सदा सेव्यमानं विष्णुं वन्दे सदाऽहं सकलजगदनाद्यन्तमानन्ददं तम् ॥ १ ॥
📖 1.1 ▼
अहर्वा अश्वं पुरस्ताद् महिमाऽन्वजायत । तस्य पूर्वे समुद्रे योनौ रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद् वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥ ॥ इति अश्वब्राह्मणम् ॥
📖 2.1 ▼
अश्वपूर्वापरौ होम्यौ महिमानौ ग्रहौ स्मृतौ । अहोरात्राभिमन्तारौ तयोरप्यभिमानिनौ ॥ कामश्चाथ रतिश्चैव विष्णुब्रह्मशरीरजौ । समुद्रेकात् समुद्रस्तु विष्णुः पूर्वमुदाहृतः ॥ उपचारेण तूद्रेकादपरश्च चतुर्मुखः । स विष्णुर्हयनामा सन् देववाह्येषु संस्थितः ॥ वाजिनामा तु गन्धर्वेष्वर्वनामाऽसुरेषु च । मनुष्येष्वश्वनामाऽसौ तद्बन्धुः स्वयमेव सः ॥ तस्मादेवोत्थितिस्तस्य रूपभेदो न तस्य च । ऐश्वर्यात् स तथापीशो व्यक्तिभावं गमिष्यति ॥ हत्वा याति यतः शत्रून् हरिस्तस्मात् हयः स्मृतः । सर्वदा युद्धकर्तृत्वाद्वाजी चापि प्रकीर्तितः ॥ अर्वाऽभिगमनादुक्त आशुत्वादश्व उच्यते ॥ इति वैहायसे । ॥ अश्वमेधब्राह्मणम् ॥
📖 1.1 ▼
नैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीद् अशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत् तस्यार्चत आपोऽजायन्तार्चतो ह वै मे कमभूदिति तदेवार्कस्यार्कत्वं कंह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
📖 2.1 ▼
सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च । कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ॥ संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत् ॥ इति ब्रह्मतर्के ।
📖 1.1 ▼
आपो वा अर्कस्तद्यदपांशर आसीत् तत्समहन्यत । सा पृथिव्यभवत् । तस्यामश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २ ॥
📖 2.1 ▼
अर्कशब्दस्यादित्ये प्रसिद्धत्वादप्शब्दोऽपि तत्रेत्याशङ्कां निवर्तयितुमापो वा अर्क इति पुनर्वचनम् । नादित्येऽर्कशब्दः किन्त्वप्स्वेवार्कशब्द इत्यर्थः । शरो मण्डः ।
📖 1.1 ▼
स त्रेधाऽऽत्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयमग्निं तृतीयम् । स एष प्राणस्त्रेधा विहितस्तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मावथास्य प्रतीची दिक् पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे, द्यौः पृष्ठमन्तरिक्षमुदरमियमुरस्स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥
📖 2.1 ▼
वायुरग्निरिति प्रोक्तो ह्यग्रणीत्वादथाङ्गिनाम् । नेतृत्वाददनाच्चापि तस्य स्रष्टा जनार्दनः ॥ स वायुर्वायुरूपेण जगत्पाति शरीरगः । आदित्यस्थेन रूपेण जगद्याति प्रकाशयन् ॥ अग्निस्थेन तु रूपेण हूयते सर्वयष्टृभिः । आदाय यात्यायुरिति स एवादित्य उच्यते ॥ ॥ तत्सम्बन्धात्तु तन्नाम सूर्यस्याग्नेस्तथैव च । स एष कूर्मरूपेण वायुरण्डोदके स्थितः ॥ ॥ विष्णुना कूर्मरूपेण धारितोऽनन्तधारकः । अस्य पादा हि चत्वारो ह्यण्डोदे कोणसंस्थिताः ॥ उरस्तु भूमिसंश्लिष्टमतिरिच्य भुवं पुनः । पार्श्वतः पृष्ठतश्चैव शिरश्चोदकसंस्थितम् ॥ आकाशमुदरे तस्य द्यौः पृष्ठे संस्थिता विभोः । एवंविद्वांस्तु यत्रैति तत्रैव प्रतितिष्ठति ॥ इति प्रभञ्जने ।
📖 1.1 ▼
सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं समभवदशनायां मृत्युस्तद्यद्रेत आसीत् स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभर्यावान् संवत्सरस्तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् स भाणमकरोत् सैव वागभवत् ॥ ४ ॥
📖 2.1 ▼
आत्मा, ब्रह्मा मे द्वितीयो जायेतेत्यकामयत । वायुरेव ब्रह्मा भवतीति दर्शयितुं वायोः सृष्टिः प्रथममुक्ता ।
📖 1.1 ▼
स ऐक्षत यदि ह वा इमभिमंस्ये कनीयोऽन्नं करिष्य इति स तथा वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दां सि यज्ञान् प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥
📖 2.1 ▼
अभिमंस्ये लीनं करिष्ये चेत् ।
📖 1.1 ▼
सोऽकामयत भूयसा यज्ञेन भूमो यजेयेति । सोऽश्राम्यत् स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥
📖 2.1 ▼
इच्छतो विष्णुयजनं ब्रह्मणः साधनास्मृतेः । श्रमात् तापाच्च देहं तं त्यक्तुमिच्छा बभूव ह ॥ इच्छया चाप्युदक्रामत् प्राणैः सह पितामहः । यशोवीर्यनिमित्तत्वात् प्राणास्तन्नामकाः स्मृताः ॥ अत्यल्पे चापि सञ्जाते श्रमेऽपि न तदिच्छया । तापे प्राणा निःसरन्ति सा च क्रीडा विभोः स्मृता ॥ बृंहमाणं शरीरं तु पुनर्दृष्ट्वा पितामहः । प्रवेष्टुं तच्छरीरं च कामयामास स प्रभुः ॥
📖 1.1 ▼
सोऽकामयत मेध्यं म इदं स्यादात्मान्व्यनेन स्यामिति । ततोऽश्वः समभवत् यदश्वत् तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद ॥ ७ ॥
📖 2.1 ▼
पुनस्तस्मिन् प्रवेशाय शवरूपस्य मेध्यताम् । ऐच्छत् तेनैव देही स्यामिति तस्मिन् विवेश च ॥ तस्मिन् प्रविश्य स ब्रह्मा द्वितीयं वपुरग्रहीत् । दृष्ट्वोपायं महायज्ञेऽथाश्वाकारं पितामहः ॥ श्वैतीभावात् परं यस्मात् तज्जज्ञेऽतोऽश्वनामकम् । यदर्थं श्वेततामाप तद्देहो मेध्यतामपि ॥ अश्वमेधः स यज्ञोऽभून्नाम्ना तेन तदा कृतः । श्वैतीभावं गते देहे पुनर्मेध्ये यतः स्थितः ॥ अतोऽश्वमेधनामाऽसौ ब्रह्मा शुभचतुर्मुखः । अश्वो भूत्वा यतो मेध्यः सोऽभवत् तेन वा स्मृतः ॥ मेधो यज्ञः समुद्दिष्टो याज्ञीयं मेध्यमुच्यते । शुद्धं मेध्यमथापि स्यादेवंविद्योऽश्वमेधवित् ॥
📖 1.1 ▼
तमनवरुध्यैवामन्यत । तं संवत्सरस्य परस्तादात्मन आलभत । पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सर्वदैवत्यं प्रोक्षितं प्राजात्पत्यमालभन्त । एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेव अप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ८ ॥
📖 2.1 ▼
तमश्वरूपमात्मानमनिवारितवद्विभुः । चारयामास रूपेण तदन्येन पुमात्मना ॥ सर्वस्मिन् भुवने चाब्दं तदन्ते परमात्मने । स्वस्मिन् स्थिताय सङ्कल्प्य यज्ञ आलभतात्मवान् ॥ अजादिकान् पशूनन्यदेवस्थपरमात्मने । कर्तृत्वेन पशुत्वेन यत्फलं तदशेषतः ॥ मम स्यादिति मन्वानः सोऽश्वरूपमधारयत् । अबुद्धिपूर्वमरणात् स्वर्गश्चापि पशोर्भवेत् ॥ ज्ञानपूर्वमृतेः पुंसः किमु वक्तव्यमित्यजः । एवं सूर्योऽप्यश्वमेधनामा संवत्सराभिधः ॥ सूर्ये स्थितो यतो ब्रह्मा ह्यश्वमेधाभिधः स्वयम् । सूर्ये ततत्वात् सूर्यात्मा ब्रह्मासौ परिकीर्तितः ॥ अग्नौ स्थितो यतः सोऽर्कस्तस्मादग्निरितीर्यते । ब्रह्मातता यतो लोकास्तदात्मानस्ततो मताः ॥ ब्रह्मसूर्याग्निलोकेषु व्याप्तैका देवता हरिः । तादृशं नृहरिं ज्ञात्वा पुनर्मृत्युं जयन्नसौ ॥ सदैव वर्तते ब्रह्मा पुनर्मृत्युर्मृतिः स्मृता । नैनं मृत्व्यात्मको मृत्युः प्राप्नोति हरिसेवनात् ॥ यस्मान्नृसिंहो मृत्योश्च मृत्युरात्माऽस्य वै भवेत् । आततत्वात् तथात्तृत्वादात्मासौ ब्रह्मणः स्मृतः ॥ आदानादात्तनिर्माणादात्तज्ञानात् तथैव च । एतासां देवतानां च ब्रह्मेशत्वेन वर्तते ॥ नृसिंहस्य सदा ज्ञानाद्ध्यानाच्च तदनुग्रहात् ॥ इति महासंहितायाम् । ॥ उद्गीथब्राह्मणम् ॥
📖 1.1 ▼
द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा जायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ १ ॥
📖 2.1 ▼
द्वया ब्रह्मसुतास्तत्र दैतेया बहवः स्मृताः । तमोरूपाः सत्वरूपाः अल्पसङ्ख्याः सुराः स्मृताः ॥ बहुत्वात् तैर्जिता देवाः शङ्करस्य वरेण च । यज्ञेन विष्णुमभ्यर्च्य तत्रोद्गातृबलेन च ॥ जयामैनानिति स्मृत्वा वह्न्यादीनप्यचूचुदन् ।
📖 1.1 ▼
ते ह वाचमूचुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायत् यत्कल्याणं वदति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः पाप्मा । यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २ ॥ अथ ह घ्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्यो घ्राण उदगायत् । यो घ्राणे भोगस्तं देवेभ्य आगायत् यत्कल्याणं जिघ्रति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः पाप्मा । यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥ ३ ॥ अथ ह चक्षुरूचुः । त्वं न उद्गायेति । तथेति तेभ्यश्चक्षुरुदगायत् । यश्चक्षुषि भोगस्तं देवेभ्य आगायत् यत्कल्याणं पश्यति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः पाप्मा । यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ॥ ४ ॥ अथ ह श्रोत्रमूचुः । त्वं न उद्गायेति तथेति तेभ्यो श्रोत्रमुदगायत् । यो श्रोत्रे भोगस्तं देवेभ्य आगायत् यत्कल्याणं शृणोति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः पाप्मा । यदेवेदमप्रतिरूपं शृणोति स एव स पाप्मा ॥ ५ ॥ अथ ह मन ऊचुसः । त्वं न उद्गायेति तथेति । तेभ्यो मन उदगायत् । यः मनसि भोगस्तं देवेभ्य आगायत् । यत्कल्याणं सङ्कल्पयति तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः पाप्मा । यदेवेदमप्रतिरूपं सङ्कल्पयति स एव स पाप्मा । एवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाऽविध्यन् ॥ ६ ॥ अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत् ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तदभिद्रुत्य पाप्मनाऽविध्यन् । स यथाऽश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विश्वञ्चो विनेशुः । ततो देवा अभवन् परासुरा भवत्यात्मना परास्य द्विषन् पाप्मा भ्रातृव्यो भवति । य एवं वेद ॥ ७ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 24 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine