ब्रह्मसूत्रभाष्यम् (मध्वाचार्यविरचितम्)
/ 22
←

Brahmasutrabhashyam (madhvacaryaviracitam) Sanskrit PDF & Online Reader (ब्रह्मसूत्रभाष्यम् (मध्वाचार्यविरचितम्))

Brahmasutrabhashyam (madhvacaryaviracitam) (ब्रह्मसूत्रभाष्यम् (मध्वाचार्यविरचितम्)) by Madhvacharya (मध्वाचार्यः) — Sanskrit Text & PDF Download

📜 Last Proofread: 20 Sep 2026
📥 Download Sanskrit PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 20 Sep 2026
📥 Download PDF ♡ Save
🌐 Language & Script संस्कृतम्
↔️ Text Alignment Center
श्रीमद्ब्रह्मसूत्रभाष्यम् (मूलं — श्रीवेदव्यासः) (भाष्यम् — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) ॥ (समन्वयाध्यायः) प्रथमाध्यायः ॥ ॥ प्रथमः पादः ॥
📖 2.1 ▼
नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् । ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥ द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार । अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत् । चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च । तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार । तच्चोक्तं स्कान्दे – नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किञ्चित् तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥ गौतमस्य ऋषेः शापार्ज्ज्ञाने त्वज्ञानतां गते । सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥ शरण्यं शरणं जग्मुर्नारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥ अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥ चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैव च सहस्रधा ॥ कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥ अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥ सविशेषणसूत्राणि ह्यपराणि विदो विदुः । मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ॥ इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः । सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः ॥ शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः । एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः ॥ ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु । ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ॥ इत्यादि ।
📖 1.1 ▼
॥ अथ जिज्ञासाधिकरणम् ॥ ओम् अथातो ब्रह्मजिज्ञासा ओम् ॥ १.१.१ ॥
📖 2.1 ▼
‘अथ’ शब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च । ‘अतः’ शब्दो हेत्वर्थः । एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः । आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥ अतशब्दस्त्वतः शब्दो हेत्वर्थे समुदीरितः । परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥ स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः । सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ ॥ ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् । तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः ॥ अकारः सर्ववागात्मा परब्रह्माभिधायकः । तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥ अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः । अथातःशब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः ॥ सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते ॥ इति । ‘अध्ययनमात्रवतः’(ब्र.सू.३.४.१२) ‘नाविशेषात्’(ब्र.सू.३.४.१३) इति चोपरि । ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत्’(बृ.उ.४.४.२३)। ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।”(मुण्डक.उ.१.२.१२) ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ।’(क.उ.२.२३) यतो नारायणप्रसादम् ऋते न मोक्षः, न च ज्ञानं विना अत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासा कर्तव्या । ‘यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् । वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत् ॥’ इति बृहत्संहितायाम् । ‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥’(तै.आ.३.१२) ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।’(भ.गी.७.१७) ‘यमेवैष वृणुते तेन लभ्यः ।’(क.उ.२.२३) ‘कर्मणात्वधमः प्रोक्तः प्रसादः, श्रवणादिभिः । मध्यमो, ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः ॥ प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः । मध्यमाज्जनलोकादिः, उत्तमस्त्वेव मुक्तिदः ॥ ब्रह्मशब्दश्च विष्ण्वावेव ‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्याम्’(म.ना.उ.१.३) इत्युक्त्वा ‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६) इति हि शृतिः ॥ ‘तन्नो विष्णुः’(म.ना.उ.३.१६) इति वचनाद्विष्णुरेव हि तत्रोच्यते ॥ न चेतरशब्दात् तत्प्राप्तिः ‘नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ इति भाल्लवेयश्रुतिः ‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’(ऋ.सं.१०.८२.३) इत्येवशब्दान्नान्येषां सर्वनामता । ‘अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः’(ऋ.सं.१०.८२.६) इति विष्णोर्हि लिङ्गम् । न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यते ॥ ‘‘अजस्य नाभौ’ इति, यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् । तस्मै नमो व्यस्तसमस्तविश्वविभूतये विष्णवे लोककर्त्रे’’ इति स्कान्दे । ‘परो दिवा पर एना पृथिव्या’(ऋ.सं.१०.८२.५) इति समाख्याश्रुतौ ॥ ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’(ऋ.सं.१०.१२५.५) इत्युक्त्वा ‘मम योनिरप्स्वन्तः समुद्रे’(ऋ.सं.१०.१२५.७) इत्याह । उग्रो रुद्रः । समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात्, सूचितत्वाच्चास्यार्थस्य । न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तान्यायेन च श्रुतय एतमेव वदन्ति । ‘वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते’ इति हरिवंशेषु ॥ न चेतरग्रन्थविरोधः ‘एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चात्मानामप्रकाशं च मां कुरु’ इति वाराह वचनात् ॥
📖 1.1 ▼
॥ अथ जन्माधिकरणम् ॥ ओं जन्माद्यस्य यतः ओम् ॥ १.१.२ ॥
📖 2.1 ▼
सृष्टिस्थितिसंहारनियमनज्ञानअज्ञानबन्धमोक्षाः यतः । ‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः । बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट्’ इति स्कान्दे । ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’(तै.उ.३.१) इति । ‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ।’(ऋ.सं.१.१५४.४) ‘चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तिं व्यतीरँवीविपत् ।’(ऋ.सं.१.१५५.६) ‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९.१) ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ।’(ऋ.सं.७.९९.२) ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’(ऋ.सं.१०.८२.३) इत्यादि च ॥ ०२ ॥ ॥ इति जन्माधिकरणम् ॥
📖 1.1 ▼
॥ अथ शास्त्रयोनित्वाधिकरणम् ॥ ओं शास्त्रयोनित्वात् ओम् ॥ १.१.३ ॥
📖 2.1 ▼
न चानुमानस्य नियतप्रामाण्यम् ॥ ‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् । निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च ॥ श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् । प्रमाणपदवीं गच्छेन्नात्र कार्याविचारणा ॥ पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् । इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत्’ इत्यादि कौर्मे ॥ शक्यत्वाच्चानुमानानां सर्वत्र । ‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा । तस्मान्न सा शक्तिमती विनागममुदीक्षितुम् ।’ इति वाराहे । दर्शनाच्च तप आधिफलस्य ॥ ‘ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिदीयते ॥ यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्’॥ इति स्कान्दे ॥
📖 1.1 ▼
॥ अथ समन्वयाधिकरणम् ॥ ओं तत्तु समन्वयात् ओम् ॥ १.१.४ ॥
📖 2.1 ▼
अन्वय उपपत्यादि लिङ्गम् । ‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥’ इति ॥ उपक्रमादितात्पर्यलिङ्गैः सम्यङ् निरूप्यमाणे तदेव शास्त्रगम्यम् । ‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् । इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’(भाग.११.२१.४३) इति भागवते ॥ ०४ ॥ ॥ इति समन्वयाधिकरणम् ॥ ०४ ॥
📖 2.1 ▼
॥ अथ ईक्षत्यधिकरणम् ॥ ननु ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै.उ.२.४.२२) , ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’(क.उ.१.३.१५) , ‘अवचनेनैव प्रोवाच’(बाष्कलश्रुति) , ‘यद्वाचाऽनभ्युदितम् । येन वागभ्युद्यते । यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्’(क.उ.१) इत्यादिभिर्न तच्छब्दगोचरम् । नेत्याह –
📖 1.1 ▼
ओम् ईक्षतेर्नाशब्दम् ओम् ॥ १.१.५ ॥
📖 2.1 ▼
‘स एतस्मात् जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते’(प्र.उ.५.५) , ‘आत्मन्येवात्मनं पश्येत्’(बृ.उ.६.४.२३) , ‘विज्ञाय प्रज्ञां कुर्वीत’(बृ.उ.६.४.२१) इत्यादिवचनैः ईक्षणीयत्वाद् वाच्यमेव । औपनिषदत्वात् न अवचनेनेक्षणम् ॥ ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’(कठ.२.१५) , ‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्’(भ.गी.१५.१५) इत्यादिशृतिस्मृतिभ्यश्च ॥ अवाच्यत्वादिकं त्वप्रसिद्धत्वात् । ‘न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते । पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः’ इति वत् ॥ अप्रसिद्धेरवाच्यं तद्वाच्यं सर्वागमोक्तितः । अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम् ॥’ इति गारुडे ॥ न चाशब्दत्वमितरसिद्धम् ॥ ०५ ॥
📖 1.1 ▼
ओं गौणश्चेन्नात्मशब्दात् ओम् ॥ १.१.६ ॥
📖 2.1 ▼
न च गौण आत्मा दृश्यो वाच्यश्च, न निर्गुण इति युक्तम् । आत्मशब्दात् । ‘यो गुणैः सर्वतोहीनो यश्च दोषविवर्जितः । हेयोपादेयरहितः स आत्मेत्यभिधीयते ॥ एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् ॥ अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते ॥’ इति वामने ॥ ‘द्वे वाव ब्रह्मणो रूपेआत्मा चैव अनात्मा च । तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च । अथ ह योऽनीदृशः सोऽनात्मा’ इति तलवकारब्राह्मणम् । न च मुख्ये सति अमुख्यं युज्यते ॥ ०६ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 20 Sep 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine