भगवद्गीतातात्पर्यनिर्णयः
/ 53
←

Bhagavadgitatatparyanirnaya Kannada PDF & Online Reader (ಭಗವದ್ಗೀತಾತಾತ್ಪರ್ಯನಿರ್ಣಯಃ)

Bhagavadgitatatparyanirnaya (भगवद्गीतातात्पर्यनिर्णयः) by Madhvacharya (मध्वाचार्यः) — Kannada Text & PDF Download

📜 Last Proofread: 08 Oct 2026
📥 Download Kannada PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 08 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script ಕನ್ನಡ
↔️ Text Alignment Center
श्रीमद्भगवद्गीतातात्पर्यनिर्णयः (मूलं — श्रीवेदव्यासः) (तात्पर्यनिर्णयः — श्रीमदानन्दतीर्थभगवत्पादाचार्यः) (न्यायदीपिका — श्रीजयतीर्थः) ॥ अथ प्रथमोऽध्यायः ॥
📖 2.1 ▼
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् । नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥
📖 3.1 ▼
इन्दिरावदनाम्भोजराजहंसाय विष्णवे । अमन्दानन्दसन्दोहसुन्दराकृतये नमः ॥ १ ॥ धर्मविज्ञानवैराग्यपरमैश्वर्यशालिनः । आनन्दतीर्थभगवत्पादान् वन्दे निरन्तरम् ॥ २ ॥ स पद्मनाभतीर्थार्कगोगणोऽस्तु दृशे मम । न तत्त्वमार्गे गमनं विना यदुपजीवनम् ॥ ३ ॥ प्रणम्य चरणद्वन्द्वं गुरूणां तत्कृपाबलात् । व्याकरिष्ये यथाबोधं गीतातात्पर्यनिर्णयम् ॥ ४ ॥ अथाशेषपुरुषार्थहेतुभूतामन्यैरन्यथा व्याख्यातां गीतां यथावद्व्याख्यातुकामो भगवानाचार्यः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यादिप्रयोजनामिष्टदेवतानतिं शिष्टाचारपरम्परादिप्राप्तां शिष्यजनशिक्षार्थं ग्रन्थे निबध्नाति, ग्रन्थारम्भं च प्रतिजानीते समस्तेति ॥ अन्तरायपरिजिहीर्षादिमन्तो देवतान्तरनतिमाचरन्तो दृष्टाः । तत्किं नारायणप्रणामेनेत्यत उक्तम् समस्तेत्यादि ॥ नारायणस्यैव समस्तगुणसम्पूर्णत्वेनाशेषदोषदूरत्वेन निखिलप्रार्थितप्रदानसामर्थ्यादितरेषां तत्प्रसादासादितशक्तिमत्त्वात्तत्प्रणाम एव कर्तव्य इति भावः । सम्पूर्णमिति गुणानां प्रत्येकं पूर्णतामाह । विवर्जितमिति च दोषवर्जनस्य निःशेषताम् । समस्तगीतासु भगवद्गीतायाः प्राधान्यज्ञापनाय गीतेत्येवोक्तम् । ‘मुख्यस्य निर्विशेषेण शब्दः’ इति स्मृतेः । स्वयमेव गीताभाष्यस्य कृतत्वात् किं पुनरारम्भेणेत्यतस्तात्पर्यमित्युक्तम् । व्याख्यातत्वेऽपि गीतायास्तदर्थस्य शिष्याणां बुध्द्यारोहार्थं शब्दानुकरणाद्यन्तरेण पुनस्तात्पर्यमेवोच्यत इति भावः ।
📖 2.1 ▼
शास्त्रेषु भारतं सारं तत्र नामसहस्रकम् । वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेऽञ्जसा ॥
📖 3.1 ▼
नन्वनेकेषु ग्रन्थेषु विद्यमानेषु को विशेषो गीताया येन तस्या एव तात्पर्यमुच्यते । अपि च, भारतमध्यगतत्वाद्गीतायाः कुतस्तस्या एव पृथक् तात्पर्यमुच्यत इत्यतो भारतस्य सर्वशास्त्रोत्तमत्वाद्युक्तं तदन्तर्गतगीताया एव तात्पर्यकथनम् । भारतेऽपि गीताया उत्तमत्वात्तस्याः पृथक्तात्पर्यकथनं चोपपन्नमिति परिहारमभिप्रेत्य भारतस्य सर्वशास्त्रोत्तमत्वं, भारतेऽपि गीताया एव उत्तमत्वमेव कुत इत्यतस्तत्पुराणवचनेन साधयति शास्त्रेष्विति ॥ भारतेऽपि गीतानामसहस्रयोरुत्तमत्वं कुत इत्यत आह तदिति ॥ भारतज्ञानादप्याञ्जस्येन गीतादिज्ञानस्य मोक्षसाधनत्वाद्युक्तं भारतेऽपि गीतादेरुत्तमत्वमिति भावः ।
📖 2.1 ▼
न भारतसमं शास्त्रं कुत एवानयोः समम् । भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ॥
📖 3.1 ▼
गीतानामसहस्रसमानशास्त्रान्तरज्ञानस्याप्याञ्जस्येन मोक्षहेतुत्वात् को विशेषो गीतादेरित्यत आह नेति ॥ भाररतस्य सर्वशास्त्रोत्तमत्वमेव कुत इत्यत आह भारतमिति ॥ वेदपदेन वेदयन्तीति सर्वशास्त्राण्युच्यन्ते । भारतादेस्तुलाऽऽरोपणं नाम तत्प्रतिनिधेरारोपणम् । एतदेव कुत इत्यतो महाभारतशब्दार्थपर्यालोचनयैव ज्ञायत इत्याह महत्त्वादिति ॥ महत्त्वात्तत एव भारेण ततत्वाच्च महाभारतमित्यर्थः । किञ्च महाभारतशब्दनिर्वचनज्ञानादेव यदा सर्वपापक्षयो भवति तदा किं वाच्यं तस्य सर्वशास्त्रोत्तमत्वमिति भावेनाह निरुक्तमिति ॥ निरुक्तम् ॥ निर्वचनम् । अस्य महाभारतशब्दस्य । भारतस्यैवं सर्वशास्त्रोत्तमत्वे किं निमित्तमित्यतः परमाप्तकृतत्वं दर्शयति स्वयमिति ॥ नन्वाप्तो नाम यथार्थदर्शी, यथादृष्टार्थवादी च । तत्र व्यासस्य यथार्थदर्शित्वं कुतः? भगवदवतारेष्वपि पृथ्वादिष्वज्ञानादिदर्शनादित्यत उक्तम् स्वयमिति ॥ अस्तु व्यासस्य यथार्थदर्शित्वं साक्षान्नारायणावतारत्वेनाज्ञानभ्रमसन्देहशून्यत्वात् । यथादृष्टार्थवादित्वं तु कुतः ? तस्य प्रमादेनायथादृष्टवादित्वाभावेऽपि विप्रलिप्सया तत्सम्भवादित्यत आह ब्रह्मेति ॥ वक्तुर्विप्रलिप्सा श्रोतॄणामयोग्यतायां सम्भवति । प्रकृते च ब्रह्मादीनां योग्यानामेव श्रोतृत्वेन भगवतो विप्रलम्भाभावाद्युक्तं यथादृष्टार्थवादित्वमिति भावः । अपहासेनायथादृष्टार्थवादित्वं किं न स्यादित्यत आह तत्त्वेति ॥ अपहासस्य प्रसङ्गदोषनिबन्धनत्वादत्र च तत्त्वनिर्णयस्य प्रसक्तत्वेन तदसम्भवान्नात्रापहासेनापि व्यासस्यायथादृष्टार्थवादित्वमिति भावः । एवम्भूताप्तरचितत्वस्य भागवतादिष्वपि साम्यात्को विशेषो भारतस्येत्यत उक्तम् केवलमिति ॥ नासुरमोहनाद्यर्थमप्यत्रान्यदुच्यते । अन्यथाप्रतीतस्य गुह्यदर्शनभाषाभ्यामुक्तत्वात् । अन्यत्र क्वचिद्व्यामोहनार्थमन्यथा कथनादिति भावः । एवं परमाप्तिमूलत्वेनैव न भारतस्य सर्वशास्त्रोत्तमत्वं किन्तु वेदसंवादितया पञ्चमवेदत्वेनापीति भावेनाह पञ्चममिति ॥
📖 2.1 ▼
देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः । व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् । महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ॥ निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते । स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः ॥ अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम् । चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम् ॥ इति ब्रह्माण्डे । तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतमर्जुनं क्षत्रियाणां विशेषतोपि परमधर्मं नारायणद्वितदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मः, तद्विरुद्धः सर्वोप्यधर्मः, भगवदधीनत्वात् सर्वस्येति बोधयति भगवान् नारायणः । सर्वं चैतदत्रैवावगम्यते -
📖 3.1 ▼
एवं गीतातात्पर्यकथनस्य युक्ततां प्रसाध्य, श्रोतृशेमुषीमनुकूलयिष्यन्नादावेव अशेषगीताप्रतिपाद्यमर्थं सङ्क्षेपेण दर्शयति तत्रेति ॥ तत्र ॥ गीतायाम् । ‘इति कथ्यते’ इति शेषः । कृष्णस्याप्यर्जुनादविशेषात्कथं तद्वोधकत्वमित्यतो भगवान्नारायण इत्युक्तम् । आप्तसमस्तकामस्य भगवतः किमर्जुनबोधनेनेत्यत उक्तम् आत्मन इति ॥ प्रयोजनाभावेऽपि प्रीत्यतिशयवशान्मातुरपत्यपालनवत्तद्बोधनं युक्तमिति भावः । अर्जुनस्य भगवत्प्रियत्वमेव कुतः ? अपरोक्षज्ञानित्वात्, ‘ज्ञानी प्रियतमोऽतो मे’ इति स्मृतेरिति चेत्तदेव कुत इत्यत आह उत्तमेति ॥ एतदपि कुत इत्यत आह साक्षादिति ॥ साक्षादिन्द्रः पुरन्दरः । साक्षादवतारो नावेशमात्रमिति वा । अत्र देवत्वमेव वक्तव्यम् । इन्द्रावतारमिति स्वरूपकथनम् । अर्जुनबोधने का प्राप्तिरित्यत आह नारायणेति ॥ बान्धवादिनिग्रहस्याधर्मत्वात् किमुच्यतेऽधर्मत्वेनाशङ्क्येत्यत एतन्निग्रहस्य कैमुत्येन धर्मत्वमाह क्षत्रियाणामिति ॥ भागवतमात्रस्यैतादृशनिग्रहः परमधर्मः । अत्रैव नियुक्तानां क्षत्रियाणां तु विशेषतोऽपि परमधर्म इत्यर्थः । बान्धवादिनिग्रहः कथं परमधर्म इत्यतो बान्धवादीति वक्तव्ये नारायणद्विट्तदनुबन्धीत्युक्तम् । बान्धवादित्वेऽपि केषाञ्चिन्नारायणद्वेषित्वात् केषाञ्चित्तत्सम्बन्धित्वात् तन्निग्रहो धर्म एवेति भावः । नन्वयं धर्मश्चेच्छास्त्रोदित एव भवेत् । तथा च न शास्त्रविदुषाऽधर्मत्वेनाऽशङ्क्येत । शङ्क्यते च । अतो न धर्म इत्यत आह बन्धुस्नेहादिति ॥ न शास्त्रमुखेनेयं शङ्का । अपि तु स्नेहमात्रनिबन्धनैवेति भावः । ज्ञानिनः स्नेहमात्रेण सञ्जातया शङ्कया कथं स्वकीयपरमधर्मनिवृत्तिरित्यत उक्तम् निवृत्तप्रायमिति ॥ एवमाशङ्कया निवृत्तप्रायश्चेदेतद्युद्धकरणमेव बोधनीयं, भगवन्महिमादिकं किमर्थमुच्यत इत्यतो बोध्यार्थमाह स्वेति ॥ न केवलं युद्धादिस्वविहितवृत्तिमात्रं परमो धर्मः । येन तदेव बोध्यं स्यात् । अपि तु भक्त्यादिकमपि । तत्रार्जुनस्य धर्मैकदेशेऽधर्मशङ्कायामपि प्राप्तलोकोपकाराय समग्रधर्मो भगवता बोध्यते । तत्र भगवन्महिमाद्युक्तिस्तु भक्त्युत्पादनायेति भावः । ननु युद्धादिस्वविहितवृत्तिनिवृत्तोऽप्यर्जुनो न परमधर्मनिवृत्तः । भक्त्यादिमत्त्वात् । अतः किं बोध्यत इत्यत आह तदिति ॥ न भक्त्यादिकं प्रत्येकं परमधर्मः । येन तावता तस्य न परमधर्मनिवृत्तिः । किन्तु मिलितमेव । अतोेऽन्यतमाभावेऽपि परमधर्मनिवृत्तेर्युक्तं तद्बोधनमिति भावः । तर्हि प्रकृत्यादिवर्णनं क्वोपयुज्युत इत्यतः, अस्तु स्वविहितवृत्तेर्धर्मत्वं, तद्विरुद्धस्याधर्मत्वं च । भगवद्भक्त्या तदाराधनस्य धर्मत्वं तद्विरुद्धस्याधर्मत्वं च कुत इत्याशङ्कानिवाराणाय सर्वस्य भगवदधीनत्वहेतुं वक्तुं सर्वनिरूपणमिति भावेनाह भगवदिति ॥ सर्वस्य भगवदधीनत्वेन धर्माधर्मतया भगवन्नियतयोरेव तथाभावात्तस्य चैवं विधयोरेव तथा नियमनोपपत्तिरिति भावः । नन्वर्जुनस्य देवत्वादि कुतः । स्वविहितेत्यादेर्गीतातात्पर्यार्थत्वं च कुत इत्यत आह सर्वञ्चेति ॥ अर्जुनो देव इत्याद्येतच्च सर्वं गीतायामेवावगम्यते । न च प्रमाणान्तरं तत्रान्वेषणीयम् । स्वविहितेत्यादिकं च सर्वं गीतायामवगम्यत एव । न तु तदर्थतया बलादुच्यत इत्यर्थः । तत्र तावन्नारायणद्विट्तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाऽऽशङ्क्य ततो निवृत्तप्रायमर्जुनं भगवान्नारायणो बोधयतीत्येतावद्गीतायां स्फुटमवगम्यते । ‘यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे’ इति प्रार्थनात्तस्य निवृत्तप्रायतावगमात् । साक्षान्निवृत्तौ तदनुपपत्तेः । नारायणद्विट्तदनुबन्धिनिग्रहस्य क्षत्रियाणां परमधर्मत्वं गीतायां केनावगम्यत इत्यत आह अथेति ॥ युद्धस्य ‘उक्तविधस्य’ इति शेषः । ‘अवगम्यते’॥ इति सर्वत्रानुषज्यते । स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमधर्मः । तद्विरुद्धः सर्वोऽप्यधर्म इत्येतत्केनावगम्यते इत्यत आह यत इति ॥ ‘यतः’ इत्यनेन स्वविहितवृत्त्या भक्त्या भगवदाराधनस्य कर्तव्यत्वमवगम्यते । भक्त्याऽर्चनस्यैवाभ्यर्चनत्वात् । ‘स्वकर्मणा’ इत्यनेन स्वविहितवृत्त्या भगवदाराधनस्यैव मुख्यतः कर्तव्यत्वम् । मोक्षसाधनस्यैव मुख्यकर्तव्यत्वात् । ‘श्रेयान्’ इत्यनेन स्वविहितवृत्तेः कर्तव्यत्वमस्वविहितवृत्तेस्त्याज्यत्वं च । श्रेयस एव कर्तव्यत्वादश्रेयसस्त्याज्यत्वात् । सर्वेत्यनेन भक्त्या भगवदाराधनस्यैव कर्तव्यत्वम् । सर्वगुह्यतमतया, हितसाधनतया, भगवत्प्राप्तिसाधनतया च स्वविहितस्य कर्तव्यत्वात् । सर्वधर्मानित्यनेन स्वविहितवृत्त्या भक्त्या भगवदाराधनस्यैव कर्तव्यत्वं, तदन्यस्य त्याज्यत्वं च । स्वविहितवृत्त्या भक्त्या भगवदाराधनस्यैव शरणागतित्वात् । सर्वधर्मपदेनैतद्विरुद्धस्य धर्माभासस्य विवक्षितत्वात् । सर्वपापगमनहेतुतया विहितस्य कर्तव्यत्वात् । तदर्थत्वेन निषिद्धस्य त्याज्यत्वात् स्वधर्मेण ॥ भक्त्या चेति संयोज्यम् । कर्तव्यत्याज्यत्वाभ्यां धर्माधर्मत्व इति भावः ।
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 08 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine