अष्टाध्यायी अथवा सूत्रपाठ पाणिनीकृत
॥ अध्याय १ ॥
१.१.१ वृद्धिरादैच् ।
१.१.२ अदेङ् गुणः ।
१.१.३ इको गुणवृद्धी ।
१.१.४ न धातुलोप आर्धधातुके ।
१.१.५ क्ङिति च ।
१.१.६ दीधीवेवीटाम् ।
१.१.७ हलोऽनन्तराः संयोगः ।
१.१.८ मुखनासिकावचनोऽनुनासिकः ।
१.१.९ तुल्यास्यप्रयत्नं सवर्णम् ।
१.१.१० नाज्झलौ ।
१.१.११ ईदूदेद्द्विवचनं प्रगृह्यम् ।
१.१.१२ अदसो मात् ।
१.१.१३ शे ।
१.१.१४ निपात एकाजनाङ् ।
१.१.१५ ओत् ।
१.१.१६ सम्बुद्धौ शाकल्यस्येतावनार्षे ।
१.१.१७ उञः ।
१.१.१८ ऊँ ।
१.१.१९ ईदूतौ च सप्तम्यर्थे ।
१.१.२० दाधा घ्वदाप् ।
१.१.२१ आद्यन्तवदेकस्मिन् ।
१.१.२२ तरप्तमपौ घः ।
१.१.२३ बहुगणवतुडति सङ्ख्या ।
१.१.२४ ष्णान्ता षट् ।
१.१.२५ डति च ।
१.१.२६ क्तक्तवतू निष्ठा ।
१.१.२७ सर्वादीनि सर्वनामानि ।
१.१.२८ विभाषा दिक्समासे बहुव्रीहौ ।
१.१.२९ न बहुव्रीहौ ।
१.१.३० तृतीयासमासे ।
१.१.३१ द्वन्द्वे च ।
१.१.३२ विभाषा जसि ।
१.१.३३ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ।
१.१.३४ पूर्वपरावरदक्षिणोत्तरापराधराणि
व्यवस्थायामसञ्ज्ञायाम् ।
१.१.३५ स्वमज्ञातिधनाख्यायाम् ।
१.१.३६ अन्तरं बहिर्योगोपसंव्यानयोः ।
१.१.३७ स्वरादिनिपातमव्ययम् ।
१.१.३८ तद्धितश्चासर्वविभक्तिः ।
१.१.३९ कृन्मेजन्तः ।
१.१.४० क्त्वातोसुन्कसुनः ।
१.१.४१ अव्ययीभावश्च ।
१.१.४२ शि सर्वनामस्थानम् ।
१.१.४३ सुडनपुंसकस्य ।
१.१.४४ न वेति विभाषा ।
१.१.४५ इग्यणः सम्प्रसारणम् ।
१.१.४६ आद्यन्तौ टकितौ ।
१.१.४७ मिदचोऽन्त्यात्परः ।
१.१.४८ एच इग्घ्रस्वादेशे ।
१.१.४९ षष्ठी स्थानेयोगा ।
१.१.५० स्थानेऽन्तरतमः ।
१.१.५१ उरण् रपरः ।
१.१.५२ अलोऽन्त्यस्य ।
१.१.५३ ङिच्च ।
१.१.५४ आदेः परस्य ।
१.१.५५ अनेकाल्शित्सर्वस्य ।
१.१.५६ स्थानिवदादेशोऽनल्विधौ ।
१.१.५७ अचः परस्मिन् पूर्वविधौ ।
१.१.५८ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ।
१.१.५९ द्विर्वचनेऽचि ।
१.१.६० अदर्शनं लोपः ।
१.१.६१ प्रत्ययस्य लुक्श्लुलुपः ।
१.१.६२ प्रत्ययलोपे प्रत्ययलक्षणम् ।
१.१.६३ न लुमताऽङ्गस्य ।
१.१.६४ अचोऽन्त्यादि टि ।
१.१.६५ अलोऽन्त्यात् पूर्व उपधा ।
१.१.६६ तस्मिन्निति निर्दिष्टे पूर्वस्य ।
१.१.६७ तस्मादित्युत्तरस्य ।
१.१.६८ स्वं रूपं शब्दस्याशब्दसञ्ज्ञा ।
१.१.६९ अणुदित् सवर्णस्य चाप्रत्ययः ।
१.१.७० तपरस्तत्कालस्य ।
१.१.७१ आदिरन्त्येन सहेता ।
१.१.७२ येन विधिस्तदन्तस्य ।
१.१.७३ वृद्धिर्यस्याचामादिस्तद् वृद्धम् ।
१.१.७४ त्यदादीनि च ।
१.१.७५ एङ् प्राचां देशे ।
१.२.१ गाङ्कुटादिभ्योऽञ्णिन्ङ् इत् ।
१.२.२ विज इट् ।
१.२.३ विभाषोर्णोः ।
१.२.४ सार्वधातुकमपित् ।
१.२.५ असंयोगाल्लिट् कित् ।
१.२.६ इन्धिभवतिभ्यां च ।
१.२.७ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।
१.२.८ रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च ।
१.२.९ इको झल् ।
१.२.१० हलन्ताच्च ।
१.२.११ लिङ्सिचावात्मनेपदेषु ।
१.२.१२ उश्च ।
१.२.१३ वा गमः ।
१.२.१४ हनः सिच् ।
१.२.१५ यमो गन्धने ।
१.२.१६ विभाषोपयमने ।
१.२.१७ स्थाघ्वोरिच्च ।
१.२.१८ न क्त्वा सेट् ।
१.२.१९ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।
१.२.२० मृषस्तितिक्षायाम् ।
१.२.२१ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ।
१.२.२२ पूङः क्त्वा च ।
१.२.२३ नोपधात्थफान्ताद्वा ।
१.२.२४ वञ्चिलुञ्च्यृतश्च ।
१.२.२५ तृषिमृषिकृशेः काश्यपस्य ।
१.२.२६ रलो व्युपधाद्धलादेः संश्च ।
१.२.२७ ऊकालोऽज्झ्रस्वदीर्घप्लुतः ।
१.२.२८ अचश्च ।
१.२.२९ उच्चैरुदात्तः ।
१.२.३० नीचैरनुदात्तः ।
१.२.३१ समाहारः स्वरितः ।
१.२.३२ तस्यादित उदात्तमर्धह्रस्वम् ।
१.२.३३ एकश्रुति दूरात् सम्बुद्धौ ।
१.२.३४ यज्ञकर्मण्यजपन्यूङ्खसामसु ।
१.२.३५ उच्चैस्तरां वा वषट्कारः ।
१.२.३६ विभाषा छन्दसि ।
१.२.३७ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ।
१.२.३८ देवब्रह्मणोरनुदात्तः ।
१.२.३९ स्वरितात् संहितायामनुदात्तानाम् ।
१.२.४० उदात्तस्वरितपरस्य सन्नतरः ।
१.२.४१ अपृक्त एकाल् प्रत्ययः ।
१.२.४२ तत्पुरुषः समानाधिकरणः कर्मधारयः ।
१.२.४३ प्रथमानिर्दिष्टं समास उपसर्जनम् ।
१.२.४४ एकविभक्ति चापूर्वनिपाते ।
१.२.४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।
१.२.४६ कृत्तद्धितसमासाश्च ।
१.२.४७ ह्रस्वो नपुंसके प्रातिपदिकस्य ।
१.२.४८ गोस्त्रियोरुपसर्जनस्य ।
१.२.४९ लुक् तद्धितलुकि ।
१.२.५० इद्गोण्याः ।
१.२.५१ लुपि युक्तवद्व्यक्तिवचने ।
१.२.५२ विशेषणानां चाजातेः ।
१.२.५३ तदशिष्यं सञ्ज्ञाप्रमाणत्वात् ।
१.२.५४ लुब्योगाप्रख्यानात् ।
१.२.५५ योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।
१.२.५६ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ।
१.२.५७ कालोपसर्जने च तुल्यम् ।
१.२.५८ जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् ।
१.२.५९ अस्मदो द्वयोश्च ।
१.२.६० फल्गुनीप्रोष्ठपदानां च नक्षत्रे ।
१.२.६१ छन्दसि पुनर्वस्वोरेकवचनम् ।
१.२.६२ विशाखयोश्च ।
१.२.६३ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य
द्विवचनं नित्यम् ।
१.२.६४ सरूपाणामेकशेष एकविभक्तौ ।
१.२.६५ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।
१.२.६६ स्त्री पुंवच्च ।
१.२.६७ पुमान् स्त्रिया ।
१.२.६८ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।
१.२.६९ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।
१.२.७० पिता मात्रा ।
१.२.७१ श्वशुरः श्वश्र्वा ।
१.२.७२ त्यदादीनि सर्वैर्नित्यम् ।
१.२.७३ ग्राम्यपशुसङ्घेषु अतरुणेषु स्त्री ।
१.३.१ भूवादयो धातवः ।
१.३.२ उपदेशेऽजनुनासिक इत् ।
१.३.३ हलन्त्यम् ।
१.३.४ न विभक्तौ तुस्माः ।
१.३.५ आदिर्ञिटुडवः ।
१.३.६ षः प्रत्ययस्य ।
१.३.७ चुटू ।
१.३.८ लशक्वतद्धिते ।
१.३.९ तस्य लोपः ।
१.३.१० यथासङ्ख्यम् अनुदेशः समानाम् ।
१.३.११ स्वरितेनाधिकारः ।
१.३.१२ अनुदात्तङित आत्मनेपदम् ।
१.३.१३ भावकर्मणोः ।
१.३.१४ कर्तरि कर्मव्यतिहारे ।
१.३.१५ न गतिहिंसार्थेभ्यः ।
१.३.१६ इतरेतरान्योन्योपपदाच्च ।
१.३.१७ नेर्विशः ।
१.३.१८ परिव्यवेभ्यः क्रियः ।
१.३.१९ विपराभ्यां जेः ।
१.३.२० आङो दोऽनास्यविहरणे ।
१.३.२१ क्रीडोऽनुसम्परिभ्यश्च ।
१.३.२२ समवप्रविभ्यः स्थः ।
१.३.२३ प्रकाशनस्थेयाख्ययोश्च ।
१.३.२४ उदोऽनूर्द्ध्वकर्मणि ।
१.३.२५ उपान्मन्त्रकरणे ।
१.३.२६ अकर्मकाच्च ।
१.३.२७ उद्विभ्यां तपः ।
१.३.२८ आङो यमहनः ।
१.३.२९ समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः ।
१.३.३० निसमुपविभ्यो ह्वः ।
१.३.३१ स्पर्द्धायामाङः ।
१.३.३२ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ।
१.३.३३ अधेः प्रसहने ।
१.३.३४ वेः शब्दकर्मणः ।
१.३.३५ अकर्मकाच्च ।
१.३.३६ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु
नियः ।
१.३.३७ कर्तृस्थे चाशरीरे कर्मणि ।
१.३.३८ वृत्तिसर्गतायनेषु क्रमः ।
१.३.३९ उपपराभ्याम् ।
१.३.४० आङ उद्गमने ।
१.३.४१ वेः पादविहरणे ।
१.३.४२ प्रोपाभ्यां समर्थाभ्याम् ।
१.३.४३ अनुपसर्गाद्वा ।
१.३.४४ अपह्नवे ज्ञः ।
१.३.४५ अकर्मकाच्च ।
१.३.४६ सम्प्रतिभ्यामनाध्याने ।
१.३.४७ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ।
१.३.४८ व्यक्तवाचां समुच्चारणे ।
१.३.४९ अनोरकर्मकात् ।
१.३.५० विभाषा विप्रलापे ।
१.३.५१ अवाद्ग्रः ।
१.३.५२ समः प्रतिज्ञाने ।
१.३.५३ उदश्चरः सकर्मकात् ।
१.३.५४ समस्तृतीयायुक्तात् ।
१.३.५५ दाणश्च सा चेच्चतुर्थ्यर्थे ।
१.३.५६ उपाद्यमः स्वकरणे ।
१.३.५७ ज्ञाश्रुस्मृदृशां सनः ।
१.३.५८ नानोर्ज्ञः ।
१.३.५९ प्रत्याङ्भ्यां श्रुवः ।
१.३.६० शदेः शितः ।
१.३.६१ म्रियतेर्लुङ्लिङोश्च ।
१.३.६२ पूर्ववत् सनः ।
१.३.६३ आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य ।
१.३.६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु ।
१.३.६५ समः क्ष्णुवः ।
१.३.६६ भुजोऽनवने ।
१.३.६७ णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने ।
१.३.६८ भीस्म्योर्हेतुभये ।
१.३.६९ गृधिवञ्च्योः प्रलम्भने ।
१.३.७० लियः सम्माननशालिनीकरणयोश्च ।
१.३.७१ मिथ्योपपदात् कृञोऽभ्यासे ।
१.३.७२ स्वरितञितः कर्त्रभिप्राये क्रियाफले ।
१.३.७३ अपाद्वदः ।
१.३.७४ णिचश्च ।
१.३.७५ समुदाङ्भ्यो यमोऽग्रन्थे ।
१.३.७६ अनुपसर्गाज्ज्ञः ।
१.३.७७ विभाषोपपदेन प्रतीयमाने ।
१.३.७८ शेषात् कर्तरि परस्मैपदम् ।
१.३.७९ अनुपराभ्यां कृञः ।
१.३.८० अभिप्रत्यतिभ्यः क्षिपः ।
१.३.८१ प्राद्वहः ।
१.३.८२ परेर्मृषः ।
१.३.८३ व्याङ्परिभ्यो रमः ।
१.३.८४ उपाच्च ।
१.३.८५ विभाषाऽकर्मकात् ।
१.३.८६ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ।
१.३.८७ निगरणचलनार्थेभ्यः ।
१.३.८८ अणावकर्मकाच्चित्तवत्कर्तृकात् ।
१.३.८९ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ।
१.३.९० वा क्यषः ।
१.३.९१ द्युद्भ्यो लुङि ।
१.३.९२ वृद्भ्यः स्यसनोः ।
१.३.९३ लुटि च कॢपः ।
१.४.१ आ कडारादेका सञ्ज्ञा ।
१.४.२ विप्रतिषेधे परं कार्यम् ।
१.४.३ यू स्त्र्याख्यौ नदी ।
१.४.४ नेयङुवङ्स्थानावस्त्री ।
१.४.५ वाऽऽमि ।
१.४.६ ङिति ह्रस्वश्च ।
१.४.७ शेषो घ्यसखि ।
१.४.८ पतिः समास एव ।
१.४.९ षष्ठीयुक्तश्छन्दसि वा ।
१.४.१० ह्रस्वं लघु ।
१.४.११ संयोगे गुरु ।
१.४.१२ दीर्घं च ।
१.४.१३ यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।
१.४.१४ सुप्तिङन्तं पदम् ।
१.४.१५ नः क्ये ।
१.४.१६ सिति च ।
१.४.१७ स्वादिष्वसर्वनमस्थाने ।
१.४.१८ यचि भम् ।
१.४.१९ तसौ मत्वर्थे ।
१.४.२० अयस्मयादीनि च्छन्दसि ।
१.४.२१ बहुषु बहुवचनम् ।
१.४.२२ द्व्येकयोर्द्विवचनैकवचने ।
१.४.२३ कारके ।
१.४.२४ ध्रुवमपायेऽपादानम् ।
१.४.२५ भीत्रार्थानां भयहेतुः ।
१.४.२६ पराजेरसोढः ।
१.४.२७ वारणार्थानामीप्सितः ।
१.४.२८ अन्तर्द्धौ येनादर्शनमिच्छति ।
१.४.२९ आख्यातोपयोगे ।
१.४.३० जनिकर्तुः प्रकृतिः ।
१.४.३१ भुवः प्रभवः ।
१.४.३२ कर्मणा यमभिप्रैति स सम्प्रदानम् ।
१.४.३३ रुच्यर्थानां प्रीयमाणः ।
१.४.३४ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ।
१.४.३५ धारेरुत्तमर्णः ।
१.४.३६ स्पृहेरीप्सितः ।
१.४.३७ क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ।