॥ प्रथमकाण्डम् ॥
॥ मङ्गलाचरणम् ॥
यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः ॥ १.०.१ ॥
सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १.०.२ ॥
॥ प्रस्तावना ॥
समाहृत्यान्यतन्त्राणि सङ्क्षिप्तैः प्रतिसंस्कृतैः ॥ १.०.३ ॥
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ १.०.४ ॥
॥ परिभाषा ॥
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ॥ १.०.५ ॥
स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ १.०.६ ॥
भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः ॥ १.०.७ ॥
कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ १.०.८ ॥
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ॥ १.०.९ ॥
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ १.०.१० ॥
॥ स्वर्गवर्गः ॥
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ॥ १.१.११ ॥
सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ १.१.१२ ॥
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ॥ १.१.१३ ॥
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ १.१.१४ ॥
आदितेया दिविषदो लेखा अदितिनन्दनाः ॥ १.१.१५ ॥
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ १.१.१६ ॥
बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः ॥ १.१.१७ ॥
वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ १.१.१८ ॥
आदित्यविश्ववसवस्तुषिताभास्वरानिलाः ॥ १.१.१९ ॥
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १.१.२० ॥
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः ॥ १.१.२१ ॥
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ १.१.२२ ॥
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ॥ १.१.२३ ॥
शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १.१.२४ ॥
सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः ॥ १.१.२५ ॥
समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः ॥ १.१.२६ ॥
षडभिज्ञो दशबलोऽद्वयवादी विनायकः ॥ १.१.२७ ॥
मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १.१.२८ ॥
स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ॥ १.१.२९ ॥
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १.१.३० ॥
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ॥ १.१.३१ ॥
हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १.१.३२ ॥
धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ॥ १.१.३३ ॥
स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः ॥ १.१.३४ ॥
नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ॥ १.१.३५ ॥
सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १.१.३६ ॥
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ॥ १.१.३७ ॥
दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १.१.३८ ॥
दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ॥ १.१.३९ ॥
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १.१.४० ॥
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ॥ १.१.४१ ॥
पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ १.१.४२ ॥
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ॥ १.१.४३ ॥
वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ १.१.४४ ॥
विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ॥ १.१.४५ ॥
पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥ १.१.४६ ॥
जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ॥ १.१.४७ ॥
वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ १.१.४८ ॥
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ॥ १.१.४९ ॥
रेवतीरमणो रामः कामपालो हलायुधः ॥ १.१.५० ॥
नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ॥ १.१.५१ ॥
सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ १.१.५२ ॥
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ॥ १.१.५३ ॥
कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ १.१.५४ ॥
शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ॥ १.१.५५ ॥
पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ १.१.५६ ॥
अरविन्दमशोकं च चूतं च नवमल्लिका ॥ १.१.५७ ॥
नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥ १.१.५८ ॥
उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ॥ १.१.५९ ॥
संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः ॥ १.१.६० ॥
ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः ॥ १.१.६१ ॥
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया ॥ १.१.६२ ॥
इन्दिरा लोकमाता मा क्षीरोदतनया रमा ॥ १.१.६३ ॥
भार्गवी लोकजननी क्षीरसागरकन्यका ॥ १.१.६४ ॥
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः ॥ १.१.६५ ॥
कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥ १.१.६६ ॥
चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ॥ १.१.६७ ॥
अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः ॥ १.१.६८ ॥
सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ १.१.६९ ॥
गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः ॥ १.१.७० ॥
नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ १.१.७१ ॥
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ॥ १.१.७२ ॥
ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ १.१.७३ ॥
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ॥ १.१.७४ ॥
मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ १.१.७५ ॥
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ॥ १.१.७६ ॥
वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ १.१.७७ ॥
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ॥ १.१.७८ ॥
हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ १.१.७९ ॥
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ॥ १.१.८० ॥
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ १.१.८१ ॥
अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ १.१.८२ ॥
कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ॥ १.१.८३ ॥
प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥ १.१.८४ ॥
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा ॥ १.१.८५ ॥
अणिमा महिमा चैव गरिमा लघिमा तथा ॥ १.१.८६ ॥
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ १.१.८७ ॥
उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ १.१.८८ ॥
शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ १.१.८९ ॥
अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥ १.१.९० ॥
आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥ १.१.९१ ॥
कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका ॥ १.१.९२ ॥
विनायको विघ्नराजद्वैमातुरगणाधिपाः ॥ १.१.९३ ॥
अप्येकदन्तहेरम्बलम्बोदरगजाननाः ॥ १.१.९४ ॥
कार्तिकेयो महासेनः शरजन्मा षडाननः ॥ १.१.९५ ॥
पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ १.१.९६ ॥
बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः ॥ १.१.९७ ॥
षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ १.१.९८ ॥
शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः ॥ १.१.९९ ॥
इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः ॥ १.१.१०० ॥
व्ऱीद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ १.१.१०१ ॥
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ॥ १.१.१०२ ॥
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ १.१.१०३ ॥
बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ॥ १.१.१०४ ॥
जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ १.१.१०५ ॥
सङ्क्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ॥ १.१.१०६ ॥
आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ १.१.१०७ ॥
पुलोमजा शचीन्द्राणी नगरी त्वमरावती ॥ १.१.१०८ ॥
हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम् ॥ १.१.१०९ ॥
स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः ॥ १.१.११० ॥
ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ १.१.१११ ॥
ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः ॥ १.१.११२ ॥
शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥ १.१.११३ ॥
व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः ॥ १.१.११४ ॥
स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ १.१.११५ ॥
मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका ॥ १.१.११६ ॥
मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ १.१.११७ ॥
पञ्चैते देवतरवो मन्दारः पारिजातकः ॥ १.१.११८ ॥
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ १.१.११९ ॥
सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ ॥ १.१.१२० ॥
नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ १.१.१२१ ॥
स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ॥ १.१.१२२ ॥
हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ १.१.१२३ ॥
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ॥ १.१.१२४ ॥
कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ १.१.१२५ ॥
बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः ॥ १.१.१२६ ॥
आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ १.१.१२७ ॥
रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ॥ १.१.१२८ ॥
हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ १.१.१२९ ॥
सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ॥ १.१.१३० ॥
शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ १.१.१३१ ॥
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम् ॥ १.१.१३२ ॥
त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ ॥ १.१.१३३ ॥
उल्का स्यात्निर्गतज्वाला भूतिर्भसितभस्मनी ॥ १.१.१३४ ॥
क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥ १.१.१३५ ॥
धर्मराजः पितृपतिः समवर्ती परेतराट् ॥ १.१.१३६ ॥
कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ १.१.१३७ ॥
कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ॥ १.१.१३८ ॥
राक्षसः कोणपः क्रव्यात्क्र्व्यादोऽस्रप आशरः ॥ १.१.१३९ ॥
रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ॥ १.१.१४० ॥
यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ १.१.१४१ ॥
प्रचेता वरुणः पाशी यादसाम्पतिरप्पतिः ॥ १.१.१४२ ॥
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ १.१.१४३ ॥
पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ॥ १.१.१४४ ॥
समीरमारुतमरुत्जगत्प्राणसमीरणाः ॥ १.१.१४५ ॥
नभस्वद्वातपवनपवमानप्रभञ्जनाः ॥ १.१.१४६ ॥
प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः ॥ १.१.१४७ ॥
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ १.१.१४८ ॥
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः ॥ १.१.१४९ ॥
जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ १.१.१५० ॥
सत्वरं चपलं तूर्णमविलम्बितमाशु च ॥ १.१.१५१ ॥
सततेऽनारताश्रान्तसन्तताविरतानिशम् ॥ १.१.१५२ ॥