॥ श्रीः ॥
भासनाटकचक्रे
अभिषेकनाटकम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः —
यो गाधिपुत्रमखविघ्नकराभिहन्ता
युद्धे विराधखरदूषणवीर्यहन्ता ।
दर्पोद्यतोल्बणकबन्धकपीन्द्रहन्ता
पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ १ ॥
एवमार्यमिश्रान् विज्ञापयामि । (परिक्रम्यावलोक्य) अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
सुग्रीव ! इत इतः ।
(प्रविश्य)
पारिपार्श्विकः —
भाव !
कुतोनुखल्वेष समुत्थितो ध्वनिः
प्रवर्तते श्रोत्रविदारणो महान् ।
प्रचण्डवातोद्धतभीमगामिनां
बलाहकानामिव खेऽभिगर्जताम् ॥ २ ॥
सूत्रधारः —
मार्ष ! किं नावगच्छसि । एष खलु सीतापहरणजनितसन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च,दाराभिमर्शननिर्विषयीकृतस्य सर्वहर्यृक्षराजस्य सुविपुलमहाग्रीवस्य सुग्रीवस्य च परस्परोपकारकृतप्रतिज्ञयोः सर्ववानराधिपतिं हेममालिनं वालिनं हन्तुं समुद्योगः प्रवर्तते । तत एतौ हि,
इदानीं राज्यविभ्रष्टं सुग्रीवं रामलक्ष्मणौ ।
पुनः स्थापयितुं प्राप्ताविन्द्रं हरिहराविव ॥ ३ ॥
(निष्क्रान्तौ)
स्थापना ।
(ततः प्रविशति रामो लक्ष्मणसुग्रीवौ, हनुमांश्च ।)
रामः —
सुग्रीव ! इत इतः ।
मत्सायकान्निहतभिन्नविकीर्णदेहं
शत्रुं तवाद्य सहसा भुवि पातयामि ।
राजन् ! भयं त्यज ममापि समीपवर्ती
दृष्टस्त्वया च समरे निहतः स वाली ॥ ४ ॥
सुग्रीवः —
देव ! अहं खल्वार्यस्य प्रसादाद् देवानामपि राज्यमाशङ्के, किं पुनर्वानराणाम् । कुतः,
मुक्तो देव ! तवाद्य वालिहृदयं भेत्तुं न मे संशयः
सालान् सप्त महावने हिमगिरेः शृङ्गोपमालीधर ! ।
भित्त्वा वेगवशात् प्रविश्य धरणीं गत्वा च नागालयं
मज्जन् वीर ! पयोनिधौ पुनरयं सम्प्राप्तवान् सायकः ॥ ५ ॥
हनुमान् —
तव नृप ! मुखनिःसृतैर्वचोभि-
र्विगतभया हि वयं विनष्टशोकाः ।
रघुवर ! हरये जयं प्रदातुं
गिरिमभिगच्छ सनीरनीरदाभम् ॥ ६ ॥
लक्ष्मणः —
आर्य ! सोपस्नेहतया वनान्तरस्याभितः खलु किष्किन्धया भवितव्यम् ।
सुग्रीवः —
सम्यगाह कुमारः ।
सम्प्राप्ता हरिवरबाहुसम्प्रगुप्ता
किष्किन्धा तव नृप ! बाहुसम्प्रगुप्ता ।
तिष्ठ त्वं नृवर ! करोम्यहं विसञ्ज्ञं
नादेन प्रचलमहीधरं नृलोकम् ॥ ७ ॥
रामः —
भवतु, गच्छ ।
सुग्रीवः —
यदाज्ञापयति देवः ।(परिक्रम्य) भोः !
अपराधमनुद्दिश्य परित्यक्तस्त्वया विभो ! ।
युद्धे त्वत्पादशुश्रूषां सुग्रीवः कर्तुमिच्छति ॥ ८ ॥
(नेपथ्ये)
कथं कथं सुग्रीव इति ।
(ततः प्रविशति वाली, गृहीतवस्त्रया तारया सह ।)
वाली — —
कथं कथं सुग्रीव इति ।
तारे ! विमुञ्च मम वस्त्रमनिन्दिताङ्गि !
प्रस्रस्तवक्त्रनयने ! किमसि प्रवृत्ता ।
सुग्रीवमद्य समरे विनिपात्यमानं
तं पश्य शोणितपरिप्लुतसर्वगात्रम् ॥ ९ ॥
तारा —
पसीअउ पसीअउ महाराओ । अप्पेण कारणेण ण आगमिस्सइ सुग्गीओ । ता अमञ्चवग्गेण सह सम्मन्तिअ गन्तव्वम् ।[ प्रसीदतु प्रसीदतु महाराजः । अल्पेन कारणेन नागमिष्यति सुग्रीवः । तदमात्यवर्गेण सह संमन्त्र्य गन्तव्यम् । ]
वाली —
आः,
शक्रो वा भवतु गतिः शशाङ्कवक्त्रे !
शत्रोर्मे निशितपरश्वधः शिवो वा ।
नालं मामभिमुखमेत्य सम्प्रहर्तुं
विष्णुर्वा विकसितपुण्डरीकनेत्रः ॥ १० ॥
तारा —
पसीअउ पसीअउ महाराओ । इमस्स जणस्स अणुग्गहं दाव करेउमरिह१दि महाराओ । [ प्रसीदतु प्रसीदतु महाराजः । अस्य जनस्यानुग्रहं तावत् कर्तुमर्हति महाराजः । ]
वाली —
श्रूयतां मत्पराक्रमः ।
तारे ! मया खलु पुरामृतमन्थनेऽपि
गत्वा प्रहस्य सुरदानवदैत्यसङ्घान् ।
उत्फुल्लनेत्रमुरगेन्द्रमुग्ररूप-
माकृष्यमाणमवलोक्य सुविस्मितास्ते ॥ ११ ॥
तारा —
पसीअउ पसीअउ महाराओ । प्रसीदतु प्रसीदतु महाराजः ।
वाली —
आः, मम वशानुवर्तिनी भव । प्रविश त्वमभ्यन्तरम् ।
तारा —
एसा गच्छामि मन्दभाआ ।(निष्क्रान्ता)
[ एषा गच्छामि मन्दभागा । ]
वाली —
हन्त प्रविष्टा तारा । यावदहं सुग्रीवं भग्नग्रीवं करोमि ।(द्रुतमुपगम्य) सुग्रीव ! तिष्ठ तिष्ठ ।
इन्द्रो वा शरणं तेऽस्तु प्रभुर्वा मधुसूदनः ।
मच्चक्षुष्पथमासाद्य सजीवो नैव यास्यसि ॥ १२ ॥
इत इतः ।
सुग्रीवः —
यदाज्ञापयति महाराजः ।
(उभौ नियुद्धं कुरुतः ।)
रामः —
एष एष वाली,
सन्दष्टोष्ठश्चण्डसंरक्तनेत्रो
मुष्टिं कृत्वा गाढमुद्वृत्तदंष्ट्रः ।
गर्जन् भीमं वानरो भाति युद्धे
संवर्त्ताग्निः सन्दिधक्षुर्यथैव ॥ १३ ॥
लक्ष्मणः —
सुग्रीवमपि पश्यत्वार्यः,
विकसितशतपत्ररक्तनेत्रः
कनकमयाङ्गदनद्धपीनबाहुः ।
हरिवरमुपयाति वानरत्वाद्
गुरुमभिभूय सतां विहाय वृत्तम् ॥ १४ ॥
वालिना ताडितः पतितः सुग्रीवः ।
हनुमान् —
हा ! धिक् ।(ससम्भ्रमं राममुपगम्य) जयतु देवः । अस्यैषावस्था ।
बलवान् वानरेन्द्रस्तु दुर्बलश्च पतिर्मम ।
अवस्था शपथश्चैव सर्वमार्येण चिन्त्यताम् ॥ १५ ॥
रामः —
हनूमन् ! अलमलं सम्भ्रमेण । एतदनुष्ठीयते ।(शरं मुक्त्वा) हन्त पतितो वाली ।
लक्ष्मणः —
एष एष वाली,
रुधिरकलितगात्रः स्रस्तसंरक्तनेत्रः
कठिणविपुलबाहुः काललोकं विविक्षुः ।
अभिपतति कथञ्चिद् धीरमाकर्षमाणः
शरवरपरिवीतं शान्तवेगं शरीरम् ॥ १६ ॥
वाली —
(( मोहमुपगम्य पुनः समाश्वस्य शरे नामाक्षराणि वाचयित्वा राममुद्दिश्य ))
युक्तं भो ! नरपतिधर्ममास्थितेन
युद्धे मां छलयितुमक्रमेण राम ! ।
वीरेण व्यपगतधर्मसंशयेन
लोकानां छलमपनेतुमुद्यतेन ॥ १७ ॥
हन्त भोः !
भवता सौम्यरूपेण यशसो भाजनेन च ।
छलेन मां प्रहरता प्ररूढमयशः कृतम् ॥ १८ ॥
भो राघव ! चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा सह युद्धव्यग्रस्याधर्म्यः खलु प्रच्छन्नो वधः ।
रामः —
कथमधर्म्यः खलु प्रच्छन्नो वध इति ।
वाली —
कः संशयः ।
रामः —
न खल्वेतत् । पश्य,
वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वधः ।
वध्यत्वाच्च मृगत्वाच्च भवाञ्छन्नेन दण्डितः ॥ १९ ॥
वाली —
दण्ड्य इति मां भवान् मन्यते ।
रामः —
कः संशयः ।
वाली —
केन कारणेन ।
रामः —
अगम्यागमनेन ।
वाली —
अगम्यागमनेनेति । एषोऽस्माकं धर्मः ।
रामः —
ननु युक्तं भोः !
भवता वानरेन्द्रेण धर्माधर्मौ विजानता ।
आत्मानं मृगमुद्दिश्य भ्रातृदाराभिमर्शनम् ॥ २० ॥
वाली —
भ्रातृदाराभिमर्शनेन तुल्यदोषयोरहमेव दण्डितो, न सुग्रीवः ।
रामः —
दण्डितस्त्वं हि दण्ड्यत्वाद्, अदण्डयो नैव दण्ड्यते ।
वाली —
सुग्रीवेणाभिमृष्टाभूद् धर्मपत्नी गुरोर्मम ।
तस्य दाराभिमर्शेन कथं दण्ड्योऽस्मि राघव ! ॥ २१ ॥
रामः —
न त्वेव हि कदाचिज्ज्येष्ठस्य यवीयसो दाराभिमर्शनम् ।
वाली —
हन्त अनुत्तरा वयम् । भवता दण्डितत्वाद् विगतपापोऽहं ननु ।
रामः —
एवमस्तु
सुग्रीवः —
हा धिक् ।
करिकरसदृशौ गजेन्द्रगामि-
स्तव रिपुशस्त्रपरिक्षताङ्गदौ च ।
अवनितलगतौ समीक्ष्य बाहू
हरिवर ! हा पततीव मेऽद्य चित्तम् ॥ २२ ॥
वाली —
मुग्रीव ! अलमलं विषादेन । ईदृशो लोकधर्मः ।
(नेपथ्ये)
हा हा महाराओ ।
वाली —
सुग्रीव ! संवार्यतां संवार्यतां स्त्रीजनः । एवङ्गतं नार्हति मां द्रष्टुम् ।
सुग्रीवः —
यदाज्ञापयति महाराजः । हनूमन् ! एवं क्रियताम् ।
हनूमान् - यदाज्ञापयति कुमारः । (निष्क्रान्तः ।)
(ततः प्रविशत्यङ्गदो हनूमांश्च)
हनूमान् —
अङ्गद ! इत इतः ।
अङ्गदः —
श्रुत्वा कालवशं यान्तं हरिमृक्षगणेश्वरम् ।
समापतितसन्तापः प्रयामि शिथिलक्रमः ॥ २३ ॥
हनूमन् ! कुत्र महाराजः ।
हनूमान् —
एष महाराजः,
शरनिर्भिन्नहृदयो विभाति धरणीतले ।
गुहशक्तिसमाक्रान्तो यथा क्रौञ्चाचलोत्तमः ॥ २४ ॥
अङ्गदः —
(उपसृत्य) हा महाराज !
अतिबलमुखशायी पूर्वमासीर्हरीन्द्रः
क्षितितलपरिवर्ती क्षीणसर्वाङ्गचेष्टः ।
शरवरपरिवीतं व्यक्तमुत्सृज्य देहं
किमभिलषसि वीर स्वर्गमद्या१भिगन्तुम् ॥ २५ ॥
(इति भूमौ पतितः ।)
वाली —
अङ्गद ! अलमलं विषादेन । भोः सुग्रीव !
मया कृतं दोषमपास्य बुद्ध्या
त्वया हरीणामधिपेन सम्यक् ।
विमुच्य रोषं परिगृह्य धर्मं
कुलप्रवालं परिगृह्यतां नः ॥ २६ ॥
सुग्रीवः —
यदाज्ञापयति महाराजः ।
वाली —
भो राघव ! यस्मिन् कस्मिन् वापराधेऽनयोर्वानरचापलं क्षन्तुमर्हसि ।
रामः —
बाढम् ।
वाली —
सुग्रीव ! प्रतिगृह्यतामस्मत्कुलधनं हेममाला ।
सुग्रीवः —
अनुगृहीतोऽस्मि ।(प्रतिगृह्णाति ।)
वाली —
हनूमन् ! आपस्तावत् ।
हनूमान् —
यदाज्ञापयति महाराजः ।(निष्क्रम्य प्रविश्य) इमा आपः ।
वाली —
(आचम्य) परित्यजन्तीव मां प्राणाः । इमा गङ्गाप्रभृतयो महानद्य एता उर्वश्यादयोऽप्सरसो मामभिगताः । एष सहस्र-
हंसप्रयुक्तो वीरवाही विमानः कालेन प्रेषितो मां नेतुमागतः । १भवतु । अयमयमागच्छामि । (स्वर्यातः ।)
सर्वे —
हा हा महाराज !
रामः —
हन्त स्वर्गं गतो वाली । सुग्रीव ! क्रियतामस्य संस्कारः ।
सुग्रीवः —
यदाज्ञापयति देवः ।
रामः —
लक्ष्मण ! सुग्रीवस्याभिषेकः कल्प्यताम् ।
लक्ष्मणः —
यदाज्ञापयत्यार्यः ।
(निष्क्रान्ताः सर्वे ।)
प्रथमोऽङ्कः ।
अथ द्वितीयोऽङ्कः ।
(ततः प्रविशति ककुभः ।)