अभिज्ञानशाकुन्तलम्
/ 13
←

Abhijnanashakuntalam Telugu PDF & Online Reader (అభిజ్ఞానశాకున్తలమ్)

Abhijnanashakuntalam (अभिज्ञानशाकुन्तलम्) by Kalidasa (कालिदासः) — Telugu Text & PDF Download

📜 Last Proofread: 26 Oct 2026
📥 Download Telugu PDF
♡
⭐
⚡ Reading Options & Actions
⭐ Featured Book 📜 Last Proofread: 26 Oct 2026
📥 Download PDF ♡ Save
🌐 Language & Script తెలుగు
↔️ Text Alignment Center
अभिज्ञानशाकुन्तलम् अथ अभिज्ञानशाकुन्तलम् । प्रथमोऽङ्कः । या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १ ॥ (नान्द्यन्ते) सूत्रधारः -- (नेपथ्याभिमुखमवलोक्य) आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् । (प्रविश्य) नटी - आर्यपुत्र इयमस्मि । सूत्रधारः -- आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुन्तलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः । नटी -- सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते । सूत्रधारः -- आर्ये कथयामि ते भूतार्थम् । आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ २ ॥ नटी -- आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु । सूत्रधारः -- किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । सम्प्रति हि - सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ३ ॥ नटी -- तथा । (इति गायति) ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि । अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि ॥ ४ ॥ सूत्रधारः -- आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः । नटी -- नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुन्तलं नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति । सूत्रधारः -- आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः । तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ॥ ५ ॥ (इति निष्क्रान्तौ) (प्रस्तावना) (ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च ) सूतः -- (राजानं मृगं चावलोक्य) आयुष्मन् । कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके । मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥ ६ ॥ राजाः -- सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि ग्रीवाभङ्गभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैण्रर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ ७ ॥ (सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः । सूतः -- आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति । राजाः -- तेन हि मुच्यन्तामभीषवः । सूतः -- यदाज्ञापयत्यायुष्मान् । (रथवेगं निरूप्य) आयुष्मन्पश्य पश्य । मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः । आत्मौद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ ८ ॥ राजाः -- सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि । यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदर्धे विछिन्नं भवति कृतसन्धानमिव तत् । प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथज्जवात् ॥ ९ ॥ सूत पश्यैनं व्यापद्यमानम् । (इति शरसन्धानं नाटयति) (नेपथ्ये) भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । सूतः -- (आकर्ण्यावलोक्य च) आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः । राजाः -- (ससम्भ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः । सूतः -- तथा । (इति रथं स्थापयति) (ततः प्रविशत्यात्मनातृतीयो वैखानसः) वैखानसः -- (हस्तमुद्यम्य) राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि मृगशरीरे पुष्पराशाविवाग्निः । क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते ॥ १० ॥ तत्साधुकृतसन्धानं प्रतिसंहर सायकम् । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ ११ ॥ राजाः -- एष प्रतिसम्हृतः । (इति यथोक्तं करोति) वैखानसः -- सदृशमेतत् पुरुवंशप्रदीपस्य भवतः । जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्रमेवङ्गुणोपेतं चक्रवर्तिनमाप्नुहि ॥ १२ ॥ इतरौ -- (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि । राजाः -- (सप्रणामम्) प्रतिगृहीतं ब्राह्मणवचनम् । वैखानसः -- राजन् समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च । रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ १३ ॥ राजाः -- अपि संनिहितोऽत्र कुलपतिः । वैखानसः -- इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः । राजाः -- भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति । वैखानसः -- साधयामस्तावत् । (इति सशिष्यो निष्क्रान्तः) राजाः -- सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे । सूतः -- यदाज्ञापयत्यायुष्मन् । (इति भूयो रथवेगं निरूपयति) राजाः -- (समन्तादवलोक्य) सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति । सूतः -- कथमिव । राजाः -- किं न पश्यति भवान् । इह हि नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४ ॥ <कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला <भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन । <एते चार्वागुपवनभुवि च्छिन्नदर्भान्कुरायां <नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति । सूतः -- सर्वमुपपन्नम् । राजाः -- (स्तोकमन्तरं गत्वा) तपोवननिवासिनामुपरोधो मा भूत् । एतावत्येव रथं स्थापय यावदवतरामि । सूतः -- धृताः प्रग्रहाः । अवतरत्वायुष्मान् । राजाः -- (अवतीर्य) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद्गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः । सूतः -- तथा । (इति निष्क्रान्तः) राजाः -- (परिक्रम्यावलोक्य च) इदमाश्रमद्वारम् । यावत्प्रविशामि । (प्रविश्य । निमित्तं सूचयन्) शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १५ ॥ (नेपथ्ये) इत इतः सख्यौ । राजाः -- (कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि । (परिक्रम्यावलोक्य च) अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुइत एवाभिवर्तन्ते । (निपुणं निरूप्य) अहो मधुरमासां दर्शनम् । शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १६ ॥ यावदिमां छायामाश्रित्य प्रतिपालयामि । (इति विलोकयन् स्थितः) (ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुन्तल) शकुन्तला -- इत इतः सख्यौ । अनसूया -- हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि त्वमेतेषामालवालपूरणे नियुक्ता । शकुन्तला -- न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु । (इति वृक्षसेचनं रूपयति) राजाः -- कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते । इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति ॥ १७ ॥ भवतु । पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि । (इति तथा करोति) शकुन्तला -- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रिताऽस्मि । शिथिलय तावदेतत् । अनसूया -- तथा । (इति शिथिलयति) प्रियंवदा -- (सहासम्) अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व । मां किं उपालभसे । राजाः -- काममननुरूपमस्य वपुषो वल्कलं न पुनरलङ्कारश्रियं न पुष्यति । कुतः । सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १८ ॥ शकुन्तला -- (अग्रतोऽवलोक्य) एष वातीरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं सम्भावयामि । (इति परिक्रामति) प्रियंवदा -- हला शकुन्तले अत्रैव तावन्मुहूर्तं तिष्ठ यावत्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति । शकुन्तला -- अतः खलु प्रियंवदासि त्वम् । राजाः -- प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा । अस्याः खलु अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १९ ॥
📜
संशोधन-विवरणम् • Proofread Date
Last proofread on: 26 Oct 2026
Master Corpus: kalalenachar/Proofreading

Login

Access your account without leaving this page

Don't have an account? Register here

Register

Create your account to start tracking progress

Already have an account? Login here

Add Mobile Number

Please enter your mobile number to complete your profile.

📥

Download Options

•
📄
PDF Document
Standard publication layout
📝
Plain Text
Raw text file (.txt)
Instant UTF-8
🧠
Vector Dataset
AI & RAG Embeddings
Multi-model ZIP
✨
Other Format
EPUB, Kindle, Docx
Custom inquiry
🧠 AI Vector Database (ZIP) Checking...
Checking archive clearance & security protocol...
✨ Request Custom / Alternative Format

Need this book in EPUB, Kindle (.mobi), TEI-XML, Word docx, or specific commentary extracts? Submit your request and our admin team will prepare it for you.

Sanskrit Digital Library • Unified Download Engine