📚 सुमध्वविजयः
/ 10
📚 सुमध्वविजयः
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
📖 ॥ प्रथमः सर्गः ॥
कान्ताय कल्याणगुणैकधाम्ने नवद्युनाथप्रतिमप्रभाय । नारायणायाखिलकारणाय श्रीप्राणनाथाय नमस्करोमि ॥ १ ॥ अनाकुलं गोकुलमुल्ललास यत्पालितं नित्यमनाविलात्म । तस्मै नमो नीरदनीलभासे कृष्णाय कृष्णारमणप्रियाय ॥ २ ॥ अपि त्रिलोक्या बहिरुल्लसन्ती तमो हरन्ती मुहुरान्तरं च । दिश्याद् दृशं नो विशदां जयन्ती मध्वस्य कीर्तिर्दिननाथदीप्तिम् ॥ ३ ॥ तमोनुदाऽऽनन्दमवाप लोकः तत्वप्रदीपाकृतिगोगणेन । यदास्यशीतांशुभुवा गुरूंस्तान् त्रिविक्रमार्यान् प्रणमामि वर्यान् ॥ ४ ॥ मुकुन्दभक्त्यै गुरुभक्तिजायै सतां प्रसत्त्यै च निरन्तरायै । गरीयसीं विश्वगुरोर्विशुद्धां वक्ष्यामि वायोरवतारलीलाम् ॥ ५ ॥ तां मन्त्रवर्णैरनुवर्णनीयां शर्वेन्द्रपूर्वैरपि वक्तुकामे । सङ्क्षिप्नुवाक्ये मयि मन्दबुद्धौ सन्तो गुणाढ्याः करुणां क्रियासुः ॥ ६ ॥ उच्चावचा येन समस्तचेष्टाः किं तत्र चित्रं चरितं निवेद्यम् । किन्तूत्तमश्लोकशिखामणीनां मनोविशुद्ध्यै चरितानुवादः ॥ ७ ॥ मालाकृतस्तच्चरिताख्यरत्नैः असूक्ष्मदृष्टेः सकुतूहलस्य । पूर्वापरीकारमथापरं वा क्षाम्यन्तु मे हन्त मुहुर्महान्तः ॥ ८ ॥ श्रीवल्लभाज्ञां ससुरेन्द्रयाचां सम्भाव्य सम्भाव्यतमां त्रिलोक्याम् । प्राणेश्वरः प्राणिगणप्रणेता गुरुः सतां केसरिणो गृहेऽभूत् ॥ ९ ॥ येये गुणा नाम जगत्प्रसिद्धाः यं तेषु तेषु स्म निदर्शयन्ति । साक्षान्महाभागवतप्रबर्हं श्रीमन्तमेनं हनुमन्तमाहुः ॥ १० ॥ कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि । सुग्रीवमित्रं स जगत्पवित्रं रमापतिं रामतनुं ददर्श ॥ ११ ॥ पदारविन्दप्रणतो हरीन्द्रः तदा महाभक्तिभराभिनुन्नः । अग्राहि पद्मोदरसुन्दराभ्यां दोर्भ्यां पुराणेन स पूरुषेण ॥ १२ ॥ अदार्यसालावलिदारणेन व्यापादितेन्द्रप्रभवेन तेन । प्राद्योतनिप्रीतिकृता निकामं मधुद्विषा सन्दिदिशे स वीरः ॥ १३ ॥ कर्णान्तमानीय गुणग्रहीत्रा रामेण मुक्तो रणकोविदेन । स्फुरन्नसौ वैरिभयङ्करोऽभूत् सत्पक्षपाती प्रदरो यथाऽग्र्यः ॥ १४ ॥ गोभिः समानन्दितरूपसीतः स्ववह्निनिर्दग्धपलाशिराशिः । अहो हनूमन्नववारिदोऽसौ तीर्णाम्बुधिर्विष्णुपदे ननाम ॥ १५ ॥ अपक्षपाती पुरुषस्त्रिलोक्यां अभोगभोक्ता पतगाधिराजम् । विश्वम्भरम् बिभ्रदसौ जिगाय त्वरापराक्रान्तिषु चित्रमेतत् ॥ १६ ॥ निबद्ध्य सेतुं रघुवंशकेतुभ्रूभङ्गसम्भ्रान्तपयोधिमध्ये । मुष्टिप्रहारं दशकाय सीतासन्तर्जनाग्र्योत्तरमेषकोऽदात् ॥ १७ ॥ जाज्वल्यमानोज्ज्वलराघवाग्नौ चक्रे स सुग्रीवसुयायजूके । आध्वर्यवं युद्धमखे प्रतिप्रस्थात्रा सुमित्रातनयेन साकम् ॥ १८ ॥ रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत् प्रयत्नः । एकेन दोष्णा नयतो गिरीन्द्रं सञ्जीवनाद्याश्रयमस्य नाभूत् ॥ १९ ॥ स दारितारिं परमं पुमांसं समन्वयासीन्नरदेवपुत्र्या । वह्निप्रवेशाधिगतात्मशुद्ध्या विराजितं काञ्चनमालयेव ॥ २० ॥ श्यामं स्मितास्यं पृथुदीर्घहस्तं सरोजनेत्रं गजराजयात्रम् । वपुर्जगन्मङ्गलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे ॥ २१ ॥ राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति । रामस्य वाण्या मणिमञ्जुमालाव्याजेन दीर्घं करुणां बबन्ध ॥ २२ ॥ हृदोरुसौहार्दभृताऽधिमौलिन्यस्तेन हस्तेन दयार्द्रदृष्ट्या । सेवाप्रसन्नोऽमृतकल्पवाचा दिदेश रामः सहभोगमस्मै ॥ २३ ॥ प्रेष्ठो न रामस्य बभूव तस्मात् न रामराज्येऽसुलभं च किञ्चित् । तत्पादसेवारतिरेष नैच्छत् तथाऽपि भोगान् ननु सा विरक्तिः ॥ २४ ॥ नमोनमो नाथ नमोनमस्ते नमोनमो राम नमोनमस्ते । पुनःपुनस्ते चरणारविन्दं नमामि नाथेति नमन् स रेमे ॥ २५ ॥ किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरिप्रबर्हे । मुञ्चन् महीं नित्यनिषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै ॥ २६ ॥ स्वानन्दहेतौ भजतां जनानां मग्नः सदा रामकथासुधायाम् । असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलाऽस्ते ॥ २७ ॥ तस्यैव वायोरवतारमेनं सन्तो द्वितीयं प्रवदन्ति भीमम् । स्पृष्टैव यं प्रीतिमाताऽनिलेन नरेन्द्रकान्ता सुषुवेऽत्र कुन्ती ॥ २८ ॥ इन्द्रायुधं हीन्द्रकराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् । बिभेद भूभृद्वपुरङ्गसङ्गात् चित्रं स पन्नो जननी कराग्रात् ॥ २९ ॥ पुरे कुमारानलसान् विहारात् निरीक्ष्य सर्वानपि मन्दलीलः । कैशोरलीलां हतसिंहसङ्घां वृत्तां वने प्राक् स्मरति स्म सूत्कः ॥ ३० ॥ भुक्तं च जीर्णं परिपन्थिदत्तं विषं विषण्णो विषभृद्गणोऽतः । प्रमाणकोटेः स हि हेळयाऽगात् नेदं जगज्जीवनदेऽत्र चित्रम् ॥ ३१ ॥ दग्ध्वा पुरं योगबलात् स निर्यन् धर्मानिव स्वान् सहजान् दधानः । अदारिभावेन जगत्सु पूज्यो योगीव नारायणमाससाद ॥ ३२ ॥ समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि यावत् । करिष्यमाणानि च तस्य पूजां सङ्कल्पयामास स शुद्धबुद्धिः ॥ ३३ ॥ विष्णोः पदश्रिद् बकसन्निरासी क्षिप्तान्यपक्षिप्रकरः सुपक्षः । ससोदरोऽथाऽदित राजहंसः स राजहंसीमिव राजकन्याम् ॥ ३४ ॥ इन्दीवरश्रीजयिसुन्दराभं स्मेराननेन्दुं दयितं मुकुन्दम् । स्वमातुलेयं कमलायताक्षं समभ्यनन्दत् सुचिराय भीमः ॥ ३५ ॥ महागदं चण्डरणं पृथिव्यां बार्हद्रथं मञ्जु निरस्य वीरः । राजानमत्युज्ज्वलराजसूयं चकार गोविन्दसुरेन्द्रजाभ्याम् ॥ ३६ ॥ दुःशासनेनाऽकुलितान् प्रियायाः सूक्ष्मानराळानसितांश्च केशान् । जिघांसया वैरिजनस्य तीक्ष्णः स कृष्णसर्पानिव सञ्चिकाय ॥ ३७ ॥ जाज्वल्यमानस्य वनेवनेऽलं दिधक्षतः पार्थिवसार्थमुग्रम् । सत्त्वानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥ ३८ ॥ भोगाधिकाभोगवतोऽरुणाक्षान् इतस्ततः संवलतो धरेन्द्रे । बहून् द्विजिह्वान् मणिमत्पुरोगान् असौ कटून् क्रोधवशान् जघान ॥ ३९ ॥ अथैष वेषान्तरभस्मलीनः क्रमेण वायुप्रभवः सुतेजाः । रुद्धाखिलाशं मुखरं प्रचण्डं भस्मीचकाराखिलकीचकौघम् ॥ ४० ॥ स कृष्णवर्त्मा विजयेन युक्तो मुहुर्महाहेतिधरोऽप्रधृष्यः । भीष्मद्विजाद्यैरतिभीषणाभं विपक्षकक्षं क्षपयन् विरेजे ॥ ४१ ॥ तरस्विनः प्रोच्चलितानधीरान् निर्दग्धपक्षानतितीक्ष्णकोपान् । स धार्तराष्ट्रान् बहुहेतिलीलो विनाश्य विश्वान् परया श्रियाऽभात् ॥ ४२ ॥ कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः कृष्णामुखाम्भोरुहहंसराजः । प्रजासरोजावलिरश्मिराजः ससोदरोऽराजत वीरराजः ॥ ४३ ॥ पौत्रे पवित्राह्वयजामिपौत्रे धरां निधायासुरधीषु तापम् । कीर्तिं त्रिलोक्यां हृदयं मुकुन्दे भेजे पदं स्वं सहजैः स भीमः ॥ ४४ ॥ विष्णोः पदान्तं भजताऽनिलेन घोरप्रघातैरिति नाशितास्ते । रसोज्झिताश्चञ्चलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः ॥ ४५ ॥ एतत्प्रतीपं किल कर्तुकामाः नष्टौजसः सङ्कटमेवमाप्य । मुकुन्दवैगुण्यकथां स्वयोग्यां काले कलावाकलयन्त तेऽलम् ॥ ४६ ॥ यो भूरिवैरो मणिमान् मृतः प्राग् वाग्मी बुभूषुः परितोषितेषः । स सङ्कराख्योऽङ्घ्रितळेषु जज्ञे स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः ॥ ४७ ॥ सान्नाय्यमव्यक्तहृदाखुभुग् वा श्वा वा पुरोडाशमसारकामः । मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः ॥ ४८ ॥ जनो नमेन्नापरथेति मत्वा शठश्चतुर्थाश्रममेष भेजे । पद्माकरं वा कलुषीचिकीर्षुः सुदुर्दमो दुष्टगजो विशुद्धम् ॥ ४९ ॥ अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्पक्षसुपक्षपाती । तमेव पक्षं प्रतिपादुकोऽसौ न्यरूरुपन्मार्गमिहानुरूपम् ॥ ५० ॥ असत्पदेऽसन् सदसद्विविक्तं मायाख्यया संवृतिमभ्यधत्त । ब्रह्माप्यखण्डं बत शून्यसिद्ध्यै प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः ॥ ५१ ॥ यद् ब्रह्मसूत्रोत्करभास्करं च प्रकाशयन्तं सकलं स्वगोभिः । अचूचुरद् वेदसमूहवाहं ततो महातस्करमेनमाहुः ॥ ५२ ॥ स्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः । तं तत्क्षणाद् यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्धिः ॥ ५३ ॥ निगमसन्मणिदीपगणोऽभवत् तदुरुवाग्गणपङ्कनिगूढभाः । अविदुषामिति सङ्करताकरः स किल सङ्कर इत्यभिशुश्रुवे ॥ ५४ ॥ विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् । आनन्दाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो मन्दं मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत् ॥ ५५ ॥ ॥ इति श्रीमत्कविकुलतिलक श्रीमत्त्रिविक्रमपण्डिताचार्यसुत श्रीमन्नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के प्रथमः सर्गः ॥
📖 ॥ द्वितीयः सर्गः ॥
विज्ञानभानुमति कालबलेन लीने दुर्भाष्यसन्तमससन्ततितो जनेऽन्धे । मार्गात् सतां स्खलति खिन्नहृदो मुकुन्दं देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः ॥ १ ॥ नाथः कलौ त्रियुगहूतिरनुद्बुभूषुर्ब्रह्माणमप्यनवतारमनादिदिक्षुः । सर्वज्ञमन्यमनवेक्ष्य सकार्यवीर्यं स्मेराननो भुवनजीवनमाबभाषे ॥ २ ॥ वेदान्तमार्गपरिमार्गणदीनदूनाः दैवीः प्रजा विशरणाः करुणापदं नः । आनन्दयेः सुमुख भूषितभूमिभागो रूपान्तरेण मम सद्गुणनिर्णयेन ॥ ३ ॥ आदेशमौलिमणिमुज्ज्वलवर्णमेनं बद्धाञ्जलिर्मरुदनर्घमधत्त मूर्ध्ना । हारावळीमिव हृदा विबुधेन्द्रयाच्ञां बिभ्रन्निजाननुजिघृक्षुरवातितीर्षत् ॥ ४ ॥ कालः स एव समवर्तत नाम यावत् चिन्ताकुलं विविधसाधुकुलं बभूव । वेदान्तसन्ततकृतान्तरसं न विद्मः श्रेयो लभेमहि कथं नु वयं बतेति ॥ ५ ॥ तत्प्रीतये रजतपीठपुराधिवासी देवो विवेश पुरुषं शुभसूचनाय । प्राप्ते महाय महिताय महाजनौघे कोलाहलेन सुकुतूहलिनि प्रवृत्ते ॥ ६ ॥ आविष्टवानकुशलं पुरुषं प्रकृत्या प्रत्याययन्निजजनान्नितरामनृत्यत् । उत्तुङ्गकेतुशिखरे स कृताङ्गहारो रङ्गान्तरे नट इवाखिलविस्मयात्मा ॥ ७ ॥ आभाष्य सोऽत्र जनतां शपथानुविद्धं उच्चैरिदं वचनमुद्धृतदोर्बभाषे । उत्पत्स्यते जगति विश्वजनीनवृत्तिः विश्वज्ञ एव भगवानचिरादिहेति ॥ ८ ॥ सद्वीपवारिनिधिसप्तकभूतधात्र्या मध्येऽपि कर्मभुवि भारतनामखण्डे । काले कलौ सुविमलान्वयलब्धजन्मा सन्मध्यगेहकुलमौलिमणिर्द्विजोऽभूत् ॥ ९ ॥ वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां ग्रामो विभूषिततरः शिवरूप्यनामा । हेमाद्रिराजविभुराजदिलावृताभस्तस्याभवद् गुरुगुणः खलु मूलभूमिः ॥ १० ॥ रामाधिवेशितहरिस्वसृमौलिमालाराजद्विमानगिरिशोभितमध्युवास । क्षेत्रं स पाजकपदं त्रिकुलैककेतुः कं यद्दधाति सततं खलु विश्वपाजात् ॥ ११ ॥ अर्थं कमप्यनवमं पुरुषार्थहेतुं पुंसां प्रदातुमुचितामुचितस्वरूपाम् । कन्यां सुवर्णलसितामिव वेदविद्यां जग्राह विप्रवृषभप्रतिपादितां सः ॥ १२ ॥ रेमेऽच्छयोपनिषदेव महाविवेको भक्त्यैव शुद्धकरणः परमश्रिताऽलम् । मिथ्याभिमानरहितः परयेव मुक्त्या स्वानन्दसन्ततिकृता स तया द्विजेन्द्रः ॥ १३ ॥ तस्य प्रभोश्चरणयोः कुलदेवतायाः भक्तिं बबन्ध निजधर्मरतः स धीरः । विज्ञातभारतपुराणमहारहस्यं यं भट्ट इत्यभिवदन्ति जना विनीतम् ॥ १४ ॥ गोविन्दसुन्दरकथासुधया स नॄणामानन्दयन्न किल केवलमिन्द्रियाणि । किन्तु प्रभो रजतपीठपुरे पदाब्जं श्रीवल्लभस्य भजतामपि दैवतानाम् ॥ १५ ॥ इत्थं हरेर्गुणकथासुधयासुतृप्तो नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु । तत्वे स कालचलधीरतिसंशयालुः धीमान् धिया श्रवणशोधितया प्रदध्यौ ॥ १६ ॥ त्राता य एव नरकात् स हि पुत्रनामा मुख्यावनं न सुलभं पुरुषादपूर्णात् । तस्मात् समस्तविदपत्यमवद्यहीनं विद्याकराकृति लभेमहि कैरुपायैः ॥ १७ ॥ पूर्वेऽपि कर्दमपराशरपाण्डुमुख्याः यत्सेवया गुणगणाढ्यमपत्यमापुः । तं पूर्णषड्गुणतनुं करुणामृताब्धिं नारायणं कुलपतिं शरणं व्रजेम ॥ १८ ॥ इत्थं विचिन्त्य स विचिन्त्यमनन्यबन्धुः प्रेष्ठप्रदं रजतपीठपुराधिवासम् । भक्त्या भवाब्धिभयभङ्गदया शुभात्मा भेजे भुजङ्गशयनं द्विषडब्दकालम् ॥ १९ ॥ पत्न्या समं भगवतः स भजन् पदाब्जं भोगान् लघूनपि पुनर्लघयाञ्चकार । दान्तं स्वयं च हृदयं दमयाञ्चकार स्वच्छं च देहमधिकं विमलीचकार ॥ २० ॥ तीव्रैः पयोव्रतमुखैर्विविधैर्व्रताग्र्यैः जायापती गुणगणार्णवपुत्रकामौ । सम्पूर्णपूरुषमतोषयतां नितान्तं देवेरिताविव पुराऽदितिकश्यपौ तौ ॥ २१ ॥ नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ श्रीश्रीधरप्रततिसारशरीरयष्टी । भूरिव्रतप्रभवदिव्यसुकान्तिमन्तौ तौ देहशुद्धिमतिमात्रमथालभेताम् ॥ २२ ॥ कान्तादृतौ समुचितेऽथ बभार गर्भं सा भूसुरेन्द्रदुहिता जगतां सुखाय । अच्छाम्बरेव रजनी परिपूरिताशा भाविन्यपास्ततमसं विधुमाद्यपक्षात् ॥ २३ ॥ तं पूर्वपक्षसितबिम्बमिव प्रवृद्धं यावद् द्विजेन्द्रवनिता सुषुवेऽत्र तावत् । अंशेन वायुरवतीर्य स रूप्यपीठे विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥ २४ ॥ सम्पूर्णलक्षणचणं नवराजमानद्वारान्तरं परमसुन्दरमन्दिरं तत् । राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान् विवेश ॥ २५ ॥ सन्तुष्यतां सकलसन्निकरैरसद्भिः खिद्येत वायुरयमाविरभूत् पृथिव्याम् । आख्यन्नितीव सुरदुन्दुभिमन्द्रनादः प्राश्रावि कौतुकवशैरिह मानवैश्च ॥ २६ ॥ नाथं निषेव्य भवनानतिदूरमाप्तः प्राज्ञो महप्रकृतदुन्दुभिनादपूर्वात् । पुत्रोद्भवश्रवणतो महदाप्य सौख्यं ज्ञानं परोक्षपदमप्यमतेष्टहेतुम् ॥ २७ ॥ आविश्य वेश्म निजनन्दनमिन्दुवक्त्रं भूयोऽभिनन्द्य स मुकुन्ददयां प्रवन्द्य । जातस्य तस्य गुणजातवहस्य जातकर्मादिकर्मनिवहं विदधे सुकर्मा ॥ २८ ॥ ज्ञानार्थमेव यदभूदसुदेव एष यद्वासुदेवपदभक्तिरतः सदाऽसौ । तद्वासुदेवपदमन्ववदन् सुरेन्द्राः तातेन यन्निगदितं सुतनाम कर्त्रा ॥ २९ ॥ पातुं पयांसि शिशवे किल गोप्रदोऽस्मै पूर्वालयः स्वसुतसूनुतया प्रजातः । निर्वाणहेतुमलभीष्ट परात्मविद्यां दानं ध्रुवं फलति पात्रगुणानुकूल्यात् ॥ ३० ॥ अत्रस्तमेव सततं परिफुल्लचक्षुः कान्त्या विडम्बितनवेन्दु जगत्यनर्घ्यम् । तत्पुत्ररत्नमुपगृह्य कदाचिदाप्तः स्वस्वामिने बुध उपायनमार्पयत्सः ॥ ३१ ॥ नत्वा हरिं रजतपीठपुराधिवासं बालस्य सम्पदमनापदमर्थयित्वा । साकं सुतेन परिवारजनान्वितोऽसौ प्रायान्निशीथसमये निजमेव धाम ॥ ३२ ॥ दोषेयुषां सममनेन वनेऽतिभीमे तत्क्रीडितग्रह इहैकतमं तुतोद । उद्वान्तरक्तमवलोक्य तमभ्यधायि केनाप्यहो न शिशुतुत् कथमेष इत्थम् ॥ ३३ ॥ आविश्य पूरुषमुवाच महाग्रहोऽसौ अस्मद्विहारसमयोपगतान् समस्तान् । यच्छक्तिगुप्तिरहितानलमस्मि हन्तुं लोकेश्वरः स बत बालतमः किलेति ॥ ३४ ॥ स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो माता कदाचन ययौ विरहासहाऽपि । विश्वस्य विश्वपरिपालकपालनाय कन्यां निजामनुगुणां किल भीरुरेषा ॥ ३५ ॥ सा बालकं प्ररुदितं परिसान्त्वयन्ती मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा । मा तात तात सुमुखेति पुनः प्ररोदीर्माता तनोति रुचितं त्वरितं तवेति ॥ ३६ ॥ रोदे क्रियासमभिहारत एव वृत्ते पोतस्य मातरि चिरादपि नागतायाम् । जग्राह बालमथ चैक्षत मातृमार्गं साऽपि क्रियासमभिहारत एव बाला ॥ ३७ ॥ कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं प्राभोजयत् खलु कुलित्थकुलं प्रपक्वम् । शीतं पयोऽपि सततं परिपाययन्ती यस्योष्णरोगमतिवेलमशङ्कताम्बा ॥ ३८ ॥ नूनं पिपासुरतिरोदिति हन्त बालो धिङ् मां दयाविरहितां परकृत्यसक्ताम् । इत्याकुला गृहमुपेत्य तदा प्रसन्नं पूर्णोदरं सुतमवैक्षत विप्रपत्नी ॥ ३९ ॥ पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं यूनां च दुःसहमिदं शिशुनोपभुक्तम् । इत्थं विचिन्त्य तनयां बहु भर्त्सयन्त्या भीतं तयाऽनु कुपितं मनसाऽनुतप्तम् ॥ ४० ॥ आरोग्यशालिनि तदाऽपि पुरेव पुत्रे विस्मेरतामुपजगाम जनन्यमुष्य । यस्य त्रिलोकजननी जननी विषेऽपि पीते न विस्मयमवाप समस्तशक्तेः ॥ ४१ ॥ स्तन्यं मुहुः किल ददौ जननी गृहीत्वा क्षेमाय तं किल दधज्जनको जजाप । अन्यो जनोऽपि किल लालयति स्म किन्तु सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥ ४२ ॥ देवादिसद्भिरनुपालितयाऽऽदरेण देव्यात्मनेव विलसत्पदया नितान्तम् । अव्यक्तया प्रथमतो वदनेऽस्य वाण्या शालीनयेव भुवनार्चितया विजह्रे ॥ ४३ ॥ प्राग्रिङ्खणं स्वयमथ स्थितिमेष चक्रे पश्चाद्गतिं परिचयेन किल क्रमेण । विश्वस्य चेष्टितमहो यदनुग्रहेण सर्वं तदस्य पवनस्य विडम्बनं हि ॥ ४४ ॥ पुच्छान्तमच्छमवलम्ब्य कदाचिदेष प्रातर्व्रजाद्व्रजत एव निजर्षभस्य । प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो नानावनेषु चरतश्चरतस्तृणानि ॥ ४५ ॥ उत्तुङ्गशृङ्गलसितस्य महिष्ठमूर्तेः पादावृतावनितळस्य सुरन्ध्रकस्य । आश्रित्य तस्य शुशुभेऽवयवैकदेशं बालो दिवाकर इवोदयपर्वतस्य ॥ ४६ ॥ लीलां करोति नु गृहान्तरगो नु बालः कूपान्तरे नु पतितः प्रकृतिस्वतन्त्रः । इत्थं विचिन्त्य स मुहुः स्वजनो विमृग्य हन्तानवेक्ष्य तनयं हृदि तापमाप ॥ ४७ ॥ बालस्य बालपरिलम्बनगोचरं तद्विश्वस्यतापि वचनं वनगोचरोक्तम् । यत् सायमैक्षत जनः शिशुमाव्रजन्तम् एकाब्दकं वृषभबालकृतावलम्बम् ॥ ४८ ॥ चिन्तामणीन्द्रमिव चिन्तितदं दरिद्रो विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः । नष्टं च नन्दनमिति स्वजनोऽस्य लब्ध्वा नाथस्य तस्य तमनुग्रहमेव मेने ॥ ४९ ॥ लीलावसानसमये सहसा कदाचिद् आर्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः । रोद्धैष नोऽस्ति धनिको वृषविक्रयीति प्रोवाच नन्दनमुखेन्दुमवेक्ष्य मन्दम् ॥ ५० ॥ लीलाकरेण स करेण सुकोमलेन बीजान्तराणि किल कानिचिदाशु तस्मै । स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदाद् आदत्त तानि धनिको बहुमानपूर्वम् ॥ ५१ ॥ लब्धं सुतादिति वदन् द्विजपुङ्गवेन कालान्तरे निजधने प्रतिदित्सितेऽपि । साक्षादमानवनवाकृतितः स लेभे बीजच्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥ वासुदेवमिह वाऽसुदेवतासत्कलामभिननन्द तं जनः । वासुदेवमिति वासुदेवसन्नामकं विविधलीलमर्भकम् ॥ ५३ ॥ इति विहरति मह्यां विष्णुदासेऽपि गूढे समजनि सुजनानां चित्तमानन्दपूर्णम् । उदयति घनमालालीनभानौ च भानौ ननु जननयनाब्जैर्लभ्यतेऽलं विकासः ॥ ५४ ॥ ॥ इति श्रीमत्कविकुलतिलक श्रीमत्त्रिविक्रमपण्डिताचार्यसुत श्रीमन्नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के द्वितीयः सर्गः ॥