📚 सत्याभिज्ञतीर्थस्तोत्रम्
📚 सत्याभिज्ञतीर्थस्तोत्रम्
✅ Proofread
Actions
Save Book
🎨 Reading Font Style Noto Serif
↔️ Text Alignment Center
अथ श्रीसत्याभिज्ञतीर्थस्तोत्रम् सत्यध्यानाप्तसद्विद्यः सत्यप्रज्ञकराब्जजः । सत्यप्रमोदसुगुरुः सत्याभिज्ञोऽवतात्सदा ॥ १ ॥ जिग्ये पद्मावतीक्षेत्रे महामीमांसकं तु यः । गुर्वनुग्रहसामर्थ्या त् सत्याभिज्ञोऽवतात्सदा ॥ २ ॥ सिन्धौ निमज्जमाना नौः रामपेटिकया युता । रक्षिता यत्तपःशक्त्या सत्याभिज्ञोऽवतात्सदा ॥ ३ ॥ नवरात्रे कुम्भकोणे नारीं भूतादमूमुचत् । तीर्थाक्षतादिदानेन सत्याभिज्ञोऽवतात्सदा ॥ ४ ॥ ज्ञानभक्तिदयाक्षान्ति विनयादिविभूषितः । शान्तमूर्तिः परगुरुः सत्याभिज्ञोऽवतात्सदा ॥ ५ ॥ सत्यात्मभिक्षुरचितं गुरुस्तोत्रं पठेत्तु यः । सर्वाभीष्टमवाप्नोति गुर्वनुग्रहशक्तितः ॥ ६ ॥ ॥ इति श्रीसत्याभिज्ञतीर्थस्तोत्रम् ॥