अथ श्रीसत्यसंतुष्टतीर्थस्तुतिः
सत्ये नारायणे तुष्टो भक्तिभारे
ण यः सदा सत्यसंतुष्टनामानं ।
यतिराजं तमाश्रये असंतुष्टो
हि सत्यां यो वैराग्याधिक्यतः सदा ॥ १ ॥
सत्यसंतुष्टनामानं यतिराजं
तमाश्रये सत्यं यः स्थापयन् वादे ।
संतुष्टो वृषवद्बली सत्यसंतु
ष्टनामानं यतिराजं तमाश्रये ॥ २ ॥
सत्ये सात्यवतेयोक्ते संतुष्टो यः
सदा सुधीः सत्यसंतुष्टनामानं ।
यतिराजं तमाश्रये सत्यपूर्वे
तु संकल्पे संतुष्टः स्वगुरौ च यः ॥ ३ ॥
सत्यसंतुष्टनामानं यतिराजं
तमाश्रये श्रीसत्यात्मकृतेयं श्री ।
पंचपद्यी सुखप्रदा पठतां शृ
ण्वतां चैव भक्तानां नात्र संशयः ॥ ४ ॥
॥ इति श्रीसत्यसंतुष्टतीर्थस्तुतिः ॥