अथ श्रीसत्यप्रियाष्टकम्
वंदे सत्यप्रियगुरुं वंदारुसुरसत्तरुम् ।
वृंदावने समासीनं मंदस्मितशुभाननम् ॥ १ ॥
श्रीसत्यपूर्णसंभूतं व्यासदूतं बहुश्रुतम् ।
दासचातकजीमूतं भूसुराळिषु संस्थितम् ॥ २ ॥
श्रीसत्यविजयांभोधि जातं श्रीशकरं भजे ।
कीशवीराख्यमधुरा वासं श्रीशपदार्चकम् ॥ ३ ॥
भूतले ख्यातचारित्र्यं सेतुयात्राफलप्रदम् ।
वातपोताभिमुख्येन स्फीतकूर्मासने स्थितम् ॥ ४ ॥
वैघायसीमिलद्रम्य कृतमालासरित्तटे ।
मठे स्थितं महाश्चर्य चर्यं संतं सदाश्रये ॥ ५ ॥
सत्यबोधसमाराध्यं मत्तमायाप्रमाथिनम् ।
चित्तशुद्धिप्रदं नृणां यत्यधीशमहं भजे ॥ ६ ॥
विप्रपुत्रं परेतं यः क्षिप्रं प्रादात्स्वतेजसा ।
अग्रहीद्रामभद्रं यो विग्रहाच्छुभविग्रहम् ॥ ७ ॥
सत्यप्रियाष्टकं पुण्यं नित्यमंगलसाधक ।
म् प्रत्यहं पठतां भूयो वित्तसत्पुत्रदायकम् ॥ ८ ॥
यः क्षांतौ भवति स्वयं भवति भूजाजानिसं ।
सेवने गांभीर्येऽम्बुध यत्यघौघहरणे ॥ ९ ॥
गंगाति धीशोधने । शेषत्यर्थ
विवेचने गुरवति श्रीराम ।
ति प्राभवे तं वंदे मदभीष्ट
संततिकरं सत्यप्रियाख्यं गुरुम् ॥ १० ॥
॥ इति श्रीसत्यधर्मयतिकृतं श्रीसत्यप्रियाष्टकम् ॥